SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra પ્રભાત્ય ગુજરાતના વિજ્ઞાન www.kobatirth.org માધનો એક કુશળ વધ सोत्रेण च मनोज्योतिरि[ ति] बहूवृचसूत्रतः । अन्यान्याधानततुमकृतेष्टि यदा प्रजेन ॥ १६ ॥ अकामाज्जुहुयात्तत्र तुभ्यन्ता इति मन्त्रतः । तथा चान्वाहितेरुध्वं प्रयाणे त्वग्निभिः सह ॥ १७ ॥ उपस्थितेऽथ तानग्नीन्पृथग् नीत्वा वसेद्यतः । स्थापयित्वा तानग्नीनिष्टि कुर्याद्ययोदिताम् ॥ १८ ॥ या त्याच तुभ्यन्ता इति मत्रेण तांस्ततः । पृथक् पृथक् समारोह्य प्राप्ते देशे तु म (मं) थनम् ।। १९ ।। कृत्वा तान्स्थापयित्वेष्टि कुर्यादित्यपि भव्यते । पत्न्या नैव प्रवासोऽस्ति यद्वा पत्यन्तरेऽथवा ॥ २० ॥ पस्यावग्निसमीपस्थे कार्येऽत्यावश्यके तदा । प्रवासोऽपि भवेत्तस्या (नान्याहवा)नादिकं न हि ॥ २१ ।। सधर्मं भक्षणं पर्वकाल कार्य क्षितौ शयः । एकाकिनी भावाने वीनादाय गच्छति ।। २२ ।। अन्यथा पुनराधानमिति धर्मे व्यवस्थितः । तत्रापि गमने प्राप्ते देशे संधानमन्त्रतः ।। २३ ।। चतूरात्रे न होतव्यं गृह्याग्नौ तु नवाहुतीः । अन्वहं गमने सायं प्रातरुद्धृत्य हूयते ॥ २४ ॥ स्वामिनि प्रोषिते पत्या कार्यकर्म यथोदितम् । अग्निहोत्रजपऽग्निनेवाले पितृसंज्ञकः ।। २५ ।। कर्मोपपातकर्मापि विना तु पुनराहितिम् । पुनराधिनिमित्ते ने कार्या पुनराहितिः ।। २६॥ अग्न्यभावाच्च कर्माणि न स्युरेके वदन्त्यथ । निर्मध्य विहरेत्सर्वप्रायवित्तं विधाय च ॥ २७ ॥ मित्रायेत्यादिभिर्हुत्वा द्वादशान्गमाहुतीः । अग्निहोत्रादिकमपि यथाकालं समाचरेत् ॥ २८ ॥ स्वाम्यागम [न] पर्यन्तमागते पुनराहितिः । इत्यूचुरपरे गेहदाहाद्यादिसमागते ॥ २९ ॥ यजमाने भवेदेष निर्णयः सर्वसम्मतः । चातर्मास्यानि पश्विज्या सोमच पोषिते भवेत् ॥ ३० ॥ इति ख्यायने सूत्रभाष्ये नित्यत्वहेतुतः । एतच्च लिखितं श्रीमद्देवयाशिकपद्धतौ ॥ ३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ૫
SR No.536121
Book TitleSwadhyay 1994 Vol 31 Ank 01 02
Original Sutra AuthorN/A
AuthorMukundlal Vadekar
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1994
Total Pages108
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy