Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 17
________________ प्रथमो भवः २७ समरादित्यसंक्षेपः दया सूनृतमस्तेयं ब्रह्म त्यागस्तपस्तथा । सहिष्णुत्वं मृदुत्वं च ऋजुता शौचमित्यमी ॥२८८॥ तमस्ततिहतः साधुधर्मस्य दश वाजिनः । त एते न्यकृतस्वर्गवाजिनो दश वाजिनः ॥२८९।। द्वादशात्मा त्वसौ श्राद्धधर्मः सर्वप्रकाशकः । क्षीणोऽपि साधुधर्मः स्याद्यस्मात्पुष्टः पुनः पुनः ॥२९०।। अणूनि गुणरूपाणि शिक्षारूपाणि चाङ्गिनाम् । पञ्च त्रीणि च चत्वारि व्रतानीत्यर्कसङ्ख्यया ॥२९१।। निषिद्धैः स्युर्वधासत्यस्तेयाब्रह्मपरिग्रहैः । अणुव्रतानि पञ्चापि राजन्महदपेक्षया ।।२९२॥ गुणव्रतत्रयी ज्ञेया दिग्मर्यादानतिकमः । भोगोपभोगमानं चानर्थदण्डनिषेधनम् ॥२९३।। शिक्षाव्रतान्यहो सामायिकं देशावकाशिकम् । पौषधः संविभागश्चातिथीनां समताजुषाम् ॥२९४॥ धर्मयोरनयोरिन्दुसूर्ययोरिव पुष्करम् । सम्यग्दर्शनमेवैकं यत्र सर्वं प्रतिष्ठितम् ॥२९५।। तच्च जीवादितत्त्वौघे जिनोक्ते रुचिरुच्यते । स्वभावादुपदेशाद्वा सुगुरोः सा प्रजायते ॥२९६।। देवेऽर्हति गुरौ साधौ धर्मे सर्वज्ञभाषिते । निश्चलत्वं मतेः सम्यग्दर्शनं दशितं जिनैः ॥२९७|| सम्यक्त्वस्यास्य कः स्तोतु महिमानं महीतले । यद्विनाऽल्पफलं ज्ञानं चारित्रं चाऽतिदुष्करम् ॥२९८।। दुर्भेदग्रन्थिभेदेन सम्यग्दर्शनमाप्यते । पल्योपमपृथक्त्वेन श्राद्धत्वं तदनन्तरम् ॥२९९।। तच्च व्रतानि चैतानि पालयन्स्थिरमानसः । नरो निरतिचाराणि श्रद्धा इत्यभिधीयते ॥३००॥ श्राद्धत्वानन्तरं जीवः सङ्ख्यातैः सागरोपमैः । यतिधर्ममहिंसाद्यं लभते पूर्ववणितम् ॥३०१|| लघुकर्मतया सर्व कश्चित्तत्क्षणमश्नुते । सम्यक्त्वं श्रावकत्वं च यतित्वमपि निर्मलम् ॥३०२।। क्षपकश्रेणिमारूढः प्राप्य केवलमुज्ज्चलम् । प्राग्वणितं महाराज ! लभते शाश्वतं पदम् ॥३०३।। भावपावकनिर्दग्धभूरिकर्मेन्धनस्तदा । गुणसेननृपो वाचमुवाच रचिताञ्जलिः ॥३०४|| धन्योऽस्मि भगवन् कर्णनिपीतत्वद्वचःसुधः । सौमनस्यमवापं त्वां निर्निमेषं विलोकयन् ॥३०५।। तन्मे प्रयच्छ सम्यक्त्वं व्रतानि द्वादशापि च । उक्त्वेति गुरुदत्तं तद्विधिना सर्वमग्रहीत् ॥३०६।। ततः शिक्षामवाप्यैष नत्वा च सपरिच्छदम् । गुरुं पुरं प्रविष्टोऽथ भोजनं विदधे सुधीः ॥३०७|| पुनः समेत्य संध्यायामुपदेशरसायनम् । अपारपारसंसारगदविच्छेदकोविदम् ॥३०८।। इति द्विसंध्यमप्यस्य पर्युपास्ति वितन्वतः । त्रिंशता दिवसैज्ञे श्रावकत्वं सुनिश्चलम् ॥३०९।। मासकल्पेऽथ सम्पूर्णे सूरयः कल्पवेदिनः । विहारं विदधुर्भव्याम्भोजबोधनभानवः ॥३१०॥ गुरौ विहितवीहारे गतैः कतिपयैदिनैः । गुणसेननृपोऽन्येधुः स्वप्रासादतलस्थितः ॥३११।।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 215