Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 17
________________ दीनामुत्तमगुणानामेकदा प्राप्तानां परिपतितानां सतां पुनर्लाभेऽन्तरं कियदुत्कृष्टं भवति ? तथा न लभन्ते मानुषत्वं सत्त्वा-जीवा येऽनन्तरमुद्धृताः २४९-२५० इति सप्तपश्चाशत्तमगाथायामेकोनपञ्चाशदुत्तरपश्चाशदुत्तरद्विशततमे द्वे द्वारे ।। ५८ ॥ पूर्वागस्य-सयाविशेषस्य परिमाणं २५१, तथा पूर्वस्य परिमाणं २५२, तथा लवणस्य-एकदेशेन समुदायावगमालवणसमुद्रस्य सम्बन्धिनी या शिखा मध्ये जा वर्तते तस्या मानं २५३, तथा उत्सेधाङ्गुलाऽऽत्माङ्गुलप्रमाणाङ्गुलानां प्रमाणानि २५४, इत्यष्टपञ्चाशत्तमगाथायामेकपञ्चाशदुत्तरद्विशततमादीनि चतुष्पश्चाशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ।। ५९ ॥ तमस्कायस्य स्वरूपं २५५, तथाऽनन्तानां षटुं २५६, तथाऽष्टकं निमित्तानां २५७ तथा मानं चोन्मानं च प्रमाणं च वाच्यं २५८, तथाऽष्टादश भक्ष्यभोज्यानि, भक्ष्यन्त इति भक्ष्याणि-गुडधानादीनि भुज्यन्त इति भोज्यानि-शाल्योदनादीनि २५९ इत्येकोनषष्टितमगाथायां पञ्चपञ्चाशदुत्तरद्विशततमादीनि एकोनषष्ट्युत्तरद्विशततमान्तानि पञ्च द्वाराणि ॥ ६० ॥ षट्स्थानेषु वृद्धिानिश्च वस्तूनां विधेया २६०, तथाऽपहर्तु-अन्यत्र देशान्तरे नेतुं देवादिमिर्यानि न शक्यन्ते २६१, तथा अन्तरद्वीपा वक्तव्याः २६२, तथा जीवाजीवानामल्पबहुत्वं २६३ चः समुच्चये, इति षष्टितमगाथायां षष्ट्युत्तरद्विशततमादीनि त्रिषष्ट्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ।। ६१ ॥ सङ्ख्या युगप्रधानसूरीणां श्रीवीरजिनस्य तीर्थे, तथा उत्सर्पिण्यामन्तिमजिनसम्बन्धितीर्थस्याविच्छेदमानं २६४-२६५ चः समुच्चये, इत्येकषष्टितमगाथायां चतुःषष्टिपञ्चषष्ट्युत्तरद्विशततमे द्वे द्वारे ॥ ६२ ॥ देवानां प्रविचार:-अब्रह्मसेवा २६६, तथा स्वरूपमष्टानां कृष्णराजीनां भणनीयं २६७, तथा स्वाध्यायस्याकरणं कदेति शेषः २६८, तथा नन्दीश्वरामिधानस्याष्टमद्वीपस्य सम्बन्धिन्याः स्थितेर्भणनं २६९, इति द्वाषष्टितमगाथायां षट्पट्युत्तरद्विशततमादीन्येकोनसप्तप्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ६३ ॥ लब्धयः-आमाँषध्यादयः २७०, तथा तपांसि-इन्द्रियजयादीनि, पुंसा निर्देशः प्राकृतत्वेन २७१, तथा पातालकलशाः समुद्रमध्यवर्तिनः २७२ तथा आहारकशरीरखरूपं च २७३, तथा देशा अनार्याः २७४, तथा त एवाऽऽर्याः २७५, तथा सिद्धानामेकत्रिंशद्गुणाः २७६, इति त्रिषष्टितमगाथायां सप्तत्युत्तरद्विशततमादीनि षट्सप्तत्युत्तरद्विशततमान्तानि सप्त द्वाराणि ॥ ६४ ॥ समयात्-सिद्धान्तात्समुद्धृतानामाशास्त्रसमाप्ति-शाखसमाप्तिं यावदेषां द्वाराणां नामोत्कीर्तनपूर्वा एतहारविषया विचारणाविवरणरूपा शेयेति ॥ ६५ ॥ तत्र 'चिइवंदण'त्ति प्रथमद्वारं विवरीतुमाह [सोलस पुण आगारा दोसा एगूणवीस उस्सग्गे । छच्चिय निमित्त हुंति य पंचेव य हेयवो भ. णिया ॥१॥ अहिगारा पुण बारस दंडा पंचेव होंति नायव्वा । तिन्नेव वंदणिज्जा थुइओ पुण होंति चत्तारि ॥२॥ तिन्निनिसीहीएमाइ तीस तह संपयाओं सत्तणऊ। चियवंदणमि नेयं सत्तणऊसयं तु ठाणाणं ॥३॥ अगणीओ छिदिज व बोहीखोहाइदीहडको वा । इय एवमाइएहिं अन्भग्गो होज्न उस्सग्गो ॥४॥] तिन्नि निसीहिय तिनि य पयोहिणा तिन्नि चेव य पणांमा। तिविहा पूँया य तहा अवत्थतियभावणं चेव ॥ ६६ ॥ तिदिसिनिरिक्खणविरई तिविहं भूमीपमजणं चेव । वन्नाइतियं मुद्दांतियं च तिविहं च पणिहाणं ॥ ६७ ॥ इय दहतियसंजुत्तं वंदणयं जो जिणाण तिकालं । कुणइ नरो उवउत्तो सो पावइ निज्जरं विउलं ॥ ६८ ॥ घरजिणहरजिणपूयावावारचायओ निसीहितिगं । पुप्फक्खयत्थुइहिं तिविहा पूया मुणेयव्वा ॥ ६९ ॥ होइ छउ(७) अव्याख्याता अननुमताः सोपयोगाश्च गाथा एताः लिखितेष्वादशॆष्वदृष्ट अपि मुद्रिते दृष्टा इत्यत्र न्यस्त्राः. मत्थकेवैलिसिद्धत्तेहिं जिणे अवस्थतिगं । वण्णत्याऽऽलंबेणओ वण्णाइतियं वियाणिज्जा ॥७॥ जिणमुद्दा जोगमुद्दा मुत्तासुत्ती उ तिन्नि मुद्दाओ । कायमणोवयणनिरोहणं च तिविहं च पणि. हाणं ॥७१॥ पंचंगो पणिवाओ थयपाढो होइ जोगमुहाए । वंदण जिणमुहाए पणिहाणं मुत्तसुत्तीए ॥७२॥ दो जाणू दुन्नि करा पंचमगं होइ उत्तमंगं तु । संमं संपणिवाओ नेओ पंचंगपणिवाओ ॥ ७३ ॥ अन्नोऽनंतरअंगुलि कोसागारेहिं दोहिं हत्येहि। पेशेवरिकुप्परसंठिएहिं तह जोगमुद्दत्ति ॥ ७४ ॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गे एसा पुण होइ जिणमुद्दा ॥ ७५ ॥ मुत्तासुत्तीमुद्दा समा जहिं दोवि गन्भिया हत्था । ते पुण निलाड देसे लग्गा अण्णे अलग्गत्ति ॥७६ ॥ 'तिनिनिसीही त्यादि गाथात्रयं, अत्रैतद्गाथाद्वयप्रतिपादितानि दश च तानि त्रिकाणि च तैः संयुक्तं, 'तियदहसंजुत्त'मिति पाठे त्रिकाणां दशकं तेन संयुक्तमिति व्याख्येयं, वन्दनकं यः कश्चिद्भव्यो जिनानां-तीर्थकृतां त्रिकालं-त्रिसन्ध्यं करोति उपयुक्तः-सोपयोगः सन् स प्राप्नोति सर्वकर्मक्षयकरी मोक्षलक्ष्मीविधायिनी च निर्जरां विपुलामिति, कुत्रापि 'सो पावइ सासयं ठाणं' इति पाठः, तत्रापि शाश्वतं स्थानं-मोक्षमित्यर्थः, इति गाथात्रयसमुदायार्थः, विस्तरार्थस्तु प्रतिपदमासां कथयिष्यते । अत्र च चैत्यवन्दनं कीदृशेन विधिना विधेयमिति विधिस्वरूपमेव निरूपयिष्यते न पुनश्चैत्यवन्दनसूत्रव्याख्या करिष्यतेऽतिविस्तरभयात्, सा च ललितविस्तरादिभ्यो बुद्धिमदिर्बोद्धव्या, एवमन्यत्रापि वन्दनकसूत्रादौ प्रायेण यथास्थानं विज्ञेयं । तत्र चैत्यानि वन्दितुकामः कश्चिन्महर्धिको राजाविर्भवेत् सामान्यवि

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 310