________________
दीनामुत्तमगुणानामेकदा प्राप्तानां परिपतितानां सतां पुनर्लाभेऽन्तरं कियदुत्कृष्टं भवति ? तथा न लभन्ते मानुषत्वं सत्त्वा-जीवा येऽनन्तरमुद्धृताः २४९-२५० इति सप्तपश्चाशत्तमगाथायामेकोनपञ्चाशदुत्तरपश्चाशदुत्तरद्विशततमे द्वे द्वारे ।। ५८ ॥ पूर्वागस्य-सयाविशेषस्य परिमाणं २५१, तथा पूर्वस्य परिमाणं २५२, तथा लवणस्य-एकदेशेन समुदायावगमालवणसमुद्रस्य सम्बन्धिनी या शिखा मध्ये जा वर्तते तस्या मानं २५३, तथा उत्सेधाङ्गुलाऽऽत्माङ्गुलप्रमाणाङ्गुलानां प्रमाणानि २५४, इत्यष्टपञ्चाशत्तमगाथायामेकपञ्चाशदुत्तरद्विशततमादीनि चतुष्पश्चाशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ।। ५९ ॥ तमस्कायस्य स्वरूपं २५५, तथाऽनन्तानां षटुं २५६, तथाऽष्टकं निमित्तानां २५७ तथा मानं चोन्मानं च प्रमाणं च वाच्यं २५८, तथाऽष्टादश भक्ष्यभोज्यानि, भक्ष्यन्त इति भक्ष्याणि-गुडधानादीनि भुज्यन्त इति भोज्यानि-शाल्योदनादीनि २५९ इत्येकोनषष्टितमगाथायां पञ्चपञ्चाशदुत्तरद्विशततमादीनि एकोनषष्ट्युत्तरद्विशततमान्तानि पञ्च द्वाराणि ॥ ६० ॥ षट्स्थानेषु वृद्धिानिश्च वस्तूनां विधेया २६०, तथाऽपहर्तु-अन्यत्र देशान्तरे नेतुं देवादिमिर्यानि न शक्यन्ते २६१, तथा अन्तरद्वीपा वक्तव्याः २६२, तथा जीवाजीवानामल्पबहुत्वं २६३ चः समुच्चये, इति षष्टितमगाथायां षष्ट्युत्तरद्विशततमादीनि त्रिषष्ट्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ।। ६१ ॥ सङ्ख्या युगप्रधानसूरीणां श्रीवीरजिनस्य तीर्थे, तथा उत्सर्पिण्यामन्तिमजिनसम्बन्धितीर्थस्याविच्छेदमानं २६४-२६५ चः समुच्चये, इत्येकषष्टितमगाथायां चतुःषष्टिपञ्चषष्ट्युत्तरद्विशततमे द्वे द्वारे ॥ ६२ ॥ देवानां प्रविचार:-अब्रह्मसेवा २६६, तथा स्वरूपमष्टानां कृष्णराजीनां भणनीयं २६७, तथा स्वाध्यायस्याकरणं कदेति शेषः २६८, तथा नन्दीश्वरामिधानस्याष्टमद्वीपस्य सम्बन्धिन्याः स्थितेर्भणनं २६९, इति द्वाषष्टितमगाथायां षट्पट्युत्तरद्विशततमादीन्येकोनसप्तप्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ६३ ॥ लब्धयः-आमाँषध्यादयः २७०, तथा तपांसि-इन्द्रियजयादीनि, पुंसा निर्देशः प्राकृतत्वेन २७१, तथा पातालकलशाः समुद्रमध्यवर्तिनः २७२ तथा आहारकशरीरखरूपं च २७३, तथा देशा अनार्याः २७४, तथा त एवाऽऽर्याः २७५, तथा सिद्धानामेकत्रिंशद्गुणाः २७६, इति त्रिषष्टितमगाथायां सप्तत्युत्तरद्विशततमादीनि षट्सप्तत्युत्तरद्विशततमान्तानि सप्त द्वाराणि ॥ ६४ ॥ समयात्-सिद्धान्तात्समुद्धृतानामाशास्त्रसमाप्ति-शाखसमाप्तिं यावदेषां द्वाराणां नामोत्कीर्तनपूर्वा एतहारविषया विचारणाविवरणरूपा शेयेति ॥ ६५ ॥ तत्र 'चिइवंदण'त्ति प्रथमद्वारं विवरीतुमाह
[सोलस पुण आगारा दोसा एगूणवीस उस्सग्गे । छच्चिय निमित्त हुंति य पंचेव य हेयवो भ. णिया ॥१॥ अहिगारा पुण बारस दंडा पंचेव होंति नायव्वा । तिन्नेव वंदणिज्जा थुइओ पुण होंति चत्तारि ॥२॥ तिन्निनिसीहीएमाइ तीस तह संपयाओं सत्तणऊ। चियवंदणमि नेयं सत्तणऊसयं तु ठाणाणं ॥३॥ अगणीओ छिदिज व बोहीखोहाइदीहडको वा । इय एवमाइएहिं अन्भग्गो होज्न उस्सग्गो ॥४॥] तिन्नि निसीहिय तिनि य पयोहिणा तिन्नि चेव य पणांमा। तिविहा पूँया य तहा अवत्थतियभावणं चेव ॥ ६६ ॥ तिदिसिनिरिक्खणविरई तिविहं भूमीपमजणं चेव । वन्नाइतियं मुद्दांतियं च तिविहं च पणिहाणं ॥ ६७ ॥ इय दहतियसंजुत्तं वंदणयं जो जिणाण तिकालं । कुणइ नरो उवउत्तो सो पावइ निज्जरं विउलं ॥ ६८ ॥ घरजिणहरजिणपूयावावारचायओ निसीहितिगं । पुप्फक्खयत्थुइहिं तिविहा पूया मुणेयव्वा ॥ ६९ ॥ होइ छउ(७) अव्याख्याता अननुमताः सोपयोगाश्च गाथा एताः लिखितेष्वादशॆष्वदृष्ट अपि मुद्रिते दृष्टा इत्यत्र न्यस्त्राः. मत्थकेवैलिसिद्धत्तेहिं जिणे अवस्थतिगं । वण्णत्याऽऽलंबेणओ वण्णाइतियं वियाणिज्जा ॥७॥ जिणमुद्दा जोगमुद्दा मुत्तासुत्ती उ तिन्नि मुद्दाओ । कायमणोवयणनिरोहणं च तिविहं च पणि. हाणं ॥७१॥ पंचंगो पणिवाओ थयपाढो होइ जोगमुहाए । वंदण जिणमुहाए पणिहाणं मुत्तसुत्तीए ॥७२॥ दो जाणू दुन्नि करा पंचमगं होइ उत्तमंगं तु । संमं संपणिवाओ नेओ पंचंगपणिवाओ ॥ ७३ ॥ अन्नोऽनंतरअंगुलि कोसागारेहिं दोहिं हत्येहि। पेशेवरिकुप्परसंठिएहिं तह जोगमुद्दत्ति ॥ ७४ ॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गे एसा पुण होइ जिणमुद्दा ॥ ७५ ॥ मुत्तासुत्तीमुद्दा समा जहिं दोवि गन्भिया हत्था । ते पुण निलाड
देसे लग्गा अण्णे अलग्गत्ति ॥७६ ॥ 'तिनिनिसीही त्यादि गाथात्रयं, अत्रैतद्गाथाद्वयप्रतिपादितानि दश च तानि त्रिकाणि च तैः संयुक्तं, 'तियदहसंजुत्त'मिति पाठे त्रिकाणां दशकं तेन संयुक्तमिति व्याख्येयं, वन्दनकं यः कश्चिद्भव्यो जिनानां-तीर्थकृतां त्रिकालं-त्रिसन्ध्यं करोति उपयुक्तः-सोपयोगः सन् स प्राप्नोति सर्वकर्मक्षयकरी मोक्षलक्ष्मीविधायिनी च निर्जरां विपुलामिति, कुत्रापि 'सो पावइ सासयं ठाणं' इति पाठः, तत्रापि शाश्वतं स्थानं-मोक्षमित्यर्थः, इति गाथात्रयसमुदायार्थः, विस्तरार्थस्तु प्रतिपदमासां कथयिष्यते । अत्र च चैत्यवन्दनं कीदृशेन विधिना विधेयमिति विधिस्वरूपमेव निरूपयिष्यते न पुनश्चैत्यवन्दनसूत्रव्याख्या करिष्यतेऽतिविस्तरभयात्, सा च ललितविस्तरादिभ्यो बुद्धिमदिर्बोद्धव्या, एवमन्यत्रापि वन्दनकसूत्रादौ प्रायेण यथास्थानं विज्ञेयं । तत्र चैत्यानि वन्दितुकामः कश्चिन्महर्धिको राजाविर्भवेत् सामान्यवि