________________
भवो वा, तत्र यदि राजादिस्तदा 'सव्वाए इड्डीए सव्वाए दित्तीए सव्वाए जुईए सव्वबलेणं सव्वपोरिसेणं' [सर्वया ऋद्ध्या सर्वया दीप्त्या सर्वया युत्तया सवेबलेन सर्वपौरुषेण ] इत्यादिवचनात् शासनप्रभावनानिमित्तं महा चैत्यादिषु याति, अथ सामान्यदिभवस्तदौद्धत्यादिपरिहारेण लोकोपहासं परिहरन् व्रजतीति । तत्र चैत्यप्रवेशेऽयं विधिः-पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण कटककुण्डलकेयूरहाराशुचिताचित्तद्रव्याणामपरिहारेण एकवखपरिधानः एकेन चोपरितनवस्त्रेण कृतोत्तरासङ्गः, एतच्च पुरुष प्रति द्रष्टव्यं स्त्री तु सविशेष प्रावृत्ताङ्गी विनयादवनततनुलतेति, जिनप्रतिमादर्शने शिरस्यजालिकरणेन मनस एकाग्रताकरणेन चेति पञ्चविधामिगमनेन नैषेधिकीपूर्वकं प्रविशति, यदुक्तं भगवत्यां-"सचित्ताणं दव्वाणं विउसरणयाए अचित्ताणं दुव्वाणं अविउसरणयाए एगल्लसाडएणं उत्तरासङ्गेणं चक्खुफासे अंजलिप्पंग्गहेणं मणसो एगत्तीकरणेणं ति, [सचित्तानां द्रव्याणां व्युत्सर्जनेन अचित्तानां द्रव्याणामव्युत्सर्जनेन एकशाटकेनोत्तरासङ्गकरणेन चक्षुःस्पर्शेऽजलिप्रग्रहेण मनस एकत्वीकरणेन] कचित् 'अचित्ताणं दवाणं विउसरणयाए' इति पाठः, अत्र अचित्तानां द्रव्याणां-छत्रादीनां व्यवसरणेन-व्युत्सर्जनेन परिहारेणेत्यर्थः, यस्तु राजादिश्चैत्यं प्रविशति स तत्कालं राजचिह्नानि मुकुटचामरादीनि परिहरति, तथा च सिद्धान्तः-"अवहट्टु रायककुहाई पंच वररायककुहरूवाई । खग्गं छत्तोपाणह मउडं तह चामराओ य ॥१॥" [ त्यक्त्वा राजचिह्नानि पञ्च वरराजचिह्नरूपाणि । खङ्गः छत्रं उपानही मुकुटः तथा चामरांश्च ॥१॥] इत्यादि, 'अवहट्टत्ति मुक्त्वा राजककुदानि-राजचिह्वानीत्यर्थः । चैत्यगृहे च प्रविशन् नैषेधिकीत्रयं करोति-जिनगृहस्य द्वारभागे मध्यप्रदेशे गर्भगृहदेशे च, तत्र प्रथमा गृहादिविषये कायकार्याणां व्यापाराणां निषेधेन निर्वृत्ता नैषेधिकी, द्वितीया तद्विषय एव वचनव्यापारविधेयानां कार्याणां निषेधेन निवृत्ता, तृतीया तु गृहादिविषय एव मनसा चिन्तनीयानां कार्याणां निषेधेन निवृत्तेति सम्प्रदायः, सूत्रकारेण तु नैषेधिकीत्रितयं विवृण्वता-'घरजिणहरजिणपूयावावारचायओ निसीहतिग इत्युक्तं, तत्राप्ययमर्थः-प्रथमनषेधिक्यां गृहादिगतसकलसावधव्यापारपरम्पराप्रतिषेधः प्रतिपादितः, द्वितीयनषेधिक्यां जिनगृहविषयपाषाणादिघटापनप्रभृतिसर्वसाबद्यव्यापारपूरः प्रत्यषेधि, तृतीयनैषेधिक्यां तु पुष्पफलपानीयप्रदीपप्रमुखपदार्थसार्थसमानयनादिरूपो जिनपूजाविषयोऽपि सावद्यव्यापारश्चैत्यवन्दनावसरे प्रत्यषेध्यत, जिनपूजां कृत्वा तृतीया नैषेधिकी विधीयत इति भावः । तथा सर्वत्रिकाणि सूत्रकारेण न विवृतानि, किंतु विषमतराणि कानिचिदेव अस्माभिश्चाविवृतानामपि संक्षेपेण स्वरूपं निरूप्यते १, यथा तिस्रः प्रदक्षिणा ज्ञानादित्रयाराधनाय जिनप्रतिमादेर्दक्षिणभागादारभ्य सृष्टिक्रमेणैव कर्तव्याः, सर्व हि प्रायेणोत्कृष्टं वस्तु कल्याणकामैदक्षिणभाग एव विधेयमिति २, तदनन्तरं प्रतिमादिसम्मुखं भक्त्यतिशयख्यापनाय शिरसा भूमिपीठस्पर्शनरूपास्त्रयः प्रणामा विधेयाः ३, 'तिविहा पूय'त्ति सूत्रकृद्विवृणोंति–'पुप्फक्खयत्थुईहिं तिविहा पूया मुणेयव्वा' इति, पुष्पैर्विचित्रैः सुगन्धिभिः अक्षतैः-शालितण्डुलादिभिः स्तुतिभिश्च-लोकोत्तरसद्भूततीर्थकृद्गुणवर्णनपरामिः संवेगजनिकाभित्रिविधा पूजा ज्ञातव्येति । अत्र च गाथायां पुष्पादीन्युपलक्षणभूतान्येव श्रीभगवतः पूजाविधौ प्रतिपादितानि, ततो निःसपत्नरत्नसुवर्णमुक्ताभरणादिमिरलङ्करणं विचित्रपवित्रवस्त्रादिभिः परिधापनं पुरतश्च सिद्धार्थकशालितण्डुलादिमिरष्टमाङ्गलिकालेखन तथा प्रवरबलिजलमङ्गलदीपदधिघृतप्रभूतिपदार्थढौकनं भगवतश्च भालतले गोरोचनामृगमदादिमिस्तिलककरणं तत आरात्रिकाद्युत्तारणं, यदाहुः पूर्वगणभृतः-"गंधवरधूयसव्वोसहीहिं उदगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदामबलिदीवणेहिं च ॥१॥ सिद्धत्थयदहिअक्खयगोरोयणमाइएहिं जहलाभं । कंचणमुत्तियरयणाइदामएहिं च विविहेहिं ॥२॥ पवरेहि साहणेहिं पायं भावोऽवि जायए पवरो। न य अन्नो उवओगो एएसि सया य लट्ठयरो ॥ ३ ॥” इति । गन्धवरधूपसौषधिमिरुदकादिकैश्चित्रैः । सुरमिविलेपनवरकुसुमदामबलिदीपैश्च ॥१॥ सिद्धार्थकदध्यक्षतगोरोचनादिमिर्यथालाभं । काञ्चनमौक्तिकरत्नादिदाम
। प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां सकाशाच लष्टतरः॥३॥] एवं भगवन्तं पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिदण्डकैश्चैत्यवन्दनं विधाय स्तोत्रैरुत्तमैरुत्तमकविविरचितैर्भगवतो गुणोत्कीर्तनं कुर्यात् , स्तोत्राणां चोत्तमत्वमेवमभिहितं, यथा-"पिण्डक्रियागुणगतैर्गम्भीरौर्व विधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥१॥ पापनिवेदनगkः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ॥ २॥” इति, यथा-"नानन्दोदकलेशलम्पटपुटं स्निग्धेऽपि बन्धौ जने, न क्रोधारुणिमास्पदं कृतबहुक्लेशेऽपि शत्रौ कचित् । ध्यानावेशविलोकिताखिलजगल्लक्ष्मी क्रियाद्वश्चिरं, चक्षुर्युग्ममयुग्मबाणजयिनः श्रीवर्धमानप्रभोः ॥ १॥ कृत्वा हाटककोटिमिर्जगदसहारियमुद्राकथं, हत्वा गर्भशयानपि स्फुटमरी
मोहादिवंशोद्भवान् । तत्त्वा दुष्करमस्पृहेण मनसा कैवल्यहेतुं तपोधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः॥२॥ यथा वा-संसारमारवपथे पतितेन नाथ !, सीमन्तिनीमरुमरीचिविमोहितेन । दृष्टः कृपारसनिधिस्त्वमतः कुरुष्व, तृष्णापनोदवशतो जिन ! निर्वृति मे ॥३॥” इत्यादिस्वरूपैः स्तोत्रैर्गुणोत्कीर्तनरूपा पूजा श्रीभगवतो विधेया, न पुनीडामङ्गलातकदायिमिरेवंविधैर्यथा-"उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंशं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, शय्यामालिन्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥१॥ तथा-शान्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपि, कापि कापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् । विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यते शिष्यते, नागै रागिषु रंस्यतेऽत्स्यति जगन्निर्वेक्ष्यति द्यामिति ॥२॥" उपलक्षणत्वाच त्रिविधपूजाया अष्टप्रकाराऽपि सकलजनानन्ददायिनी अर्हतां पूजा विज्ञेयेति, यदुक्तम्