________________
"वरगंघधूपचोक्खक्खएहिं कुसुमेहिं पवरदीवहिं । नेवेज्जफलजलेहि य जिणपूआ अट्टहा होइ ॥१॥" [वरगन्धधूपचोक्षाक्षतैः कुसुमैः प्रवरदीपैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भवति ॥१॥] ४ इति । 'अवत्थतियभावणं चेव'त्ति व्याचष्टे-'होई'त्यादि, जिने छग्रस्थकेवलिसिद्धत्वलक्षणमवस्थात्रितयं यथास्वरूपं भावनीयमिति भावः, तत्र छद्मस्थावस्थैवं भगवतो भावनीया, यथा-विस्फूजन्मदवारिवारणघटं रणतुरङ्गोद्भट, हर्षोल्लासिविलासिनीव्यतिकरं निःसीमसम्पदरम् । राज्यं प्राज्यसुखं विमुच्य भगवानिःसङ्गता योहीद्धन्यैरेष जनैरचिन्त्यमहिमा विश्वप्रभुर्वीक्ष्यते ॥ १॥ धर्मध्याननिबद्धबुद्धिरसुहृद्भक्तेष्वमिन्नाशयो, जापानचतुष्टयस्तृणमणिस्वोपलादौ सहक । निःसनं विहरन्निदानरहितं कुर्वन् विचित्रं तपः, सत्पुण्यैरवलोक्यते त्रिजगतीनाथः प्रशान्ताकृतिः ॥२॥' इत्यादि, कैवल्यावस्था पुनरेवं भावनीया, यथा-'रागायुत्कटशत्रुसंहृतिकरं यद्विक्रमक्रीडितं, लोकालोकविलोकनैकरसिकं यद् ज्ञानविस्फूर्जितम् । मूलोन्मूलितविश्वसंशयशतं यद्भारतीवलितं, धन्यैरेव जनैर्जगत्रयगुरुः सोऽयं समालोक्यते ॥१॥ अहो विहितसंमदा त्रिभुवने विभूतिर्विभोरहो कृतमहोत्सवा त्रिजगतीदृशामाकृतिः । अहो वचनचातुरी मुक्तिकल्मषा देहिनामहो वशितविष्टपं सुगुणवेष्टितं चष्टितम् ॥२॥ सिद्धावस्थाऽप्येवं त्रिजगतीपतेर्भावनीया, यथा-'यस्य ज्ञानमनन्तमप्रतिहितं शेयस्थिती दर्शनं, दोषत्यक्तमनन्तमुत्तमतमोऽनन्तः सुखानां चयः। वीर्यस्यानुपमः स कोऽपि महिमाऽनन्तत्रिलोकाद्भुतः, सिद्धत्वे प्रथितः प्रभुः स भगवान् धन्यैः सदा ध्यायते ॥ १॥५। तथा त्रिदिग्निरीक्षणविरतिः यस्यां दिशि तीर्थकृत्प्रतिमा तत्सम्मुखमेव निरीक्षणं विधेयं न पुनरन्यदिक्त्रयसम्मुखं, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात् ६, तथा चैत्यवन्दनं कर्तुकामेन सत्त्वादिरक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजचरणनिक्षेपभूमेः प्रमार्जनं त्रिवारं विधेयं, तच्च गृहिणा वस्त्राञ्चलेन यतिना तु रजोहरणेनेति ७ 'वन्नाइतिय'मिति विवृणोति-'वन्नत्थालंबणओ वनाइतियं वियाणेज्जत्ति वर्णा-अकारककारादयः अर्थः-शब्दाभिधेयं आलम्बनं-प्रतिमादिरूपं एतस्मित्रितयेऽप्युपयुक्तेन भवितव्यं, तत्रालम्बनं यथा-'अष्टामिः प्रातिहार्यैः कृतसकलजगद्विस्मयः कान्तकान्तिः, सिञ्चन् पीयूषपूरैरिव सदसि जनं स्मेरदृष्टिप्रपातैः । निःशेषश्रीनिदानं निखिलनरसुरैः सेव्यमानः प्रमोदादहन्नालम्बनीयः स्फुरदुरुमहिमा वन्दमानेन देवः ॥ १॥ ८ इत्यादि । 'मुद्दातिगं' चेति व्याचष्टे-जिनमुद्रा योगमुद्रा मुक्ताशुक्तिमुद्रा चेति मुद्रात्रयं ज्ञातव्यं ९ । 'तिविहं च पणिहाणं' इति विवृणोति-'कायमणोवयणनिरोहणं च तिविहं च पणिहाणं' इति कायमनोवचनानामकुशलरूपाणां निरोधनं-नियन्त्रणं शुभानां च तेषां करणमिति, तत्र कार्य सुसंवृतं कृत्वा विहितकरकुशेशयकोशो मनसि तमेवाचिन्त्यचिन्तामणिचारुचरितं वंद्यमानमहन्तं निवेश्य निजमधुरिमाधरीकृतमधुमाधुर्यया वाचैवं प्रणिधानमाधत्ते, यथा'जय त्रिजगतीपते शरण ! देहिनां श्रीजिनप्रसादवशतस्तव स्फुरतु मे विवेकः परः। भवेद्भवविरागिता भवतु संयमे निर्वृतिः, परार्थकरणो द्यमः सह गुणार्जनैर्जायताम् ॥१॥ इत्यादि १०। तत्र मुद्रात्रयमध्ये यस्या यत्र व्यापारस्तां तत्र दर्शयति-पंचंगे'त्यादि पञ्चाङ्गानि-अवयवा विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः प्रणिपात:-प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः, यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति. द्रष्टव्यं, मुद्राणामेवाधिकृतत्वात् , युक्तं च पञ्चाया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति । तथा स्तवपाठः शक्रस्तवादिरूपो भवति योगमुद्रया, वन्दनं-चैत्यवन्दनं 'अरहंतचेइयाणं' इत्यादिकं जिनमुद्रया, अनुस्वारश्चात्र लुप्तो द्रष्टव्यः, इयं च पादाश्रिता योगमुद्रा हस्ताश्रितेत्युभयोरपि चैत्यवन्दने व्यापारः, प्रणिधानं 'जय वीयराये'त्यादिकं मुक्ताशुक्तिमुद्रयेति । अथ पञ्चाङ्गप्रणिपातलक्षणनिरूपणापूर्वकं एतासामेव मुद्राणां लक्षणं दर्शयति-'दोजाणू'इत्यादि, तत्र पञ्चमिरजैः सम्यक्-समीचीनतया प्रकर्षेण निपतनं-संप्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः, तत्र कानि पञ्चाङ्गानीति दर्शयति-द्वे जानुनी द्वौ करौ पश्चमकं भवत्युत्तमाकंच, तुशब्दः समुच्चयार्थचशब्दार्थः, तथा योगमुद्रा अन्योऽन्यान्तरप्रविष्टामिरकुलीमिः कृत्वा पद्मकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यामुदरोपरिसंस्थापितकूपराभ्यां भवतीति, एषा पुनर्भवति जिनमुद्रा यत्र पादयोरुत्सर्गेऽन्तरं भवति चत्वार्यकुलानि पुरत:अग्रभागे न्यूनानि च तानि पश्चिमभागे इति, मुक्ताशुक्तिमुद्रा भवति यत्र समौ मिलितौ द्वावपि गर्भितौ-उभयतोऽपि सोल्लासौ न पुनश्चिप्पटौ हस्तौ भवतः, तौ पुनर्ललाटदेशे लग्नौ कार्यावित्येके सूरयः प्रतिपादयन्ति, अन्ये पुनस्तत्रालग्नावेव वदन्ति, नेत्रमध्यभागवाकाशगतावित्यर्थः ॥ ७६ ॥ पुनर्विधिविशेषमाह
दाहिणवामंगठिओ नरनारिगणोऽभिवंदए देवे । उकिट्ट सहिहत्थुग्गहे जहन्नेण करनवगे ॥७७॥ अवनवट्ठ य अट्ठवीस सोलस य वीस वीसामा। मंगलइरियावहिया सक्कत्थयपमुहदंडेसु॥७८॥ पंचपरमेट्ठिमंते पए पए सत्त संपया कमसो । पजन्तसत्तरक्खरपरिमाणा अट्ठमी भणिआ ॥७९॥ इच्छ १ गम २ पाण ३ ओसा४ जे मे ५ एगिदि ६ अभिहया ७ तस्स ८।इरियाविस्सामेसुं पढमपया हुंति दट्ठव्वा ॥ ८॥ अरिहं १ आइग २ पुरिसो ३ लोगोऽ ४ भय ५ धम्म ६ अप्प ७जिण ८ सव्वा ९सकत्थयसंपयाणं पढमुल्लिंगणपया नेया॥८१॥ अरिहं १ बंदण २ सद्धा ३अण्णत्थू४सुद्धम५एव ६जा ७ताव८ अरिहंतचेइयथए विस्सामाणं पया पढमा ।।८२॥ अ
हावीसा सोलस वीसा य जहकमेण निदिहा । नामजिणट्ठवणाइसु वीसामा पायमाणेणं ॥८३ ॥ 'दाहिण'त्ति प्रतिमाया दक्षिणभागे स्थितः पुरुषप्राधान्यानरगणोऽभिवन्दते देवान् नारीगणश्च वामपार्धे स्थितः, तथाप्युत्कृष्टतः षष्टिह
10