________________
स्तप्रमितेऽवग्रहे-देशविशेषे स्थितः सन् वन्दते जघन्यतस्तु करमवके-नवहस्तप्रमिते देशे, उच्छासनिःश्वासादिजनिताऽऽशातनापरिहारायेति ॥७७॥ इदानीं पञ्चमङ्गलैर्यापथिकीशक्रस्तवादीनां सम्पत्प्रमाणलक्षणं विधिविशेषमाह-'अहे'त्यादि पञ्चमङ्गले-नमस्कारेऽष्टौ सम्पदः, ऐर्यापथिक्यामष्टौ, शक्रस्तवे नघ, 'अरिहंतचेइयाणं' इत्यादिदण्डकेऽष्टौ, 'लोगस्सुज्जोयगरें' इत्यस्मिन् दण्डकेऽष्टाविंशतिः,"पुक्खरवरदीवडे' इत्यत्र षोडश, 'सिद्धाणं बुद्धाणं' इत्यस्मिंश्च दण्डके विंशतिः सम्पदः, अस्या एव पर्यायमाह-वीसामा' इति विश्राम्यते-विरम्यते
पदो विश्रमणस्थानानीतियावत् ॥ ७८ ॥ तत्र 'पञ्चपरमेष्ठी'त्यादि, पञ्चपरमेष्ठिमने पदे पदे-विवक्षिताभिधेययुक्ते 'नमो अरहंताणं' इत्यादिके, न पुनः सुप्तिङ्युक्ते, सप्त सम्पदः क्रमशो विज्ञेयाः, अष्टमी पुनः पर्यन्ते सप्तदशाक्षरप्रमाणा 'मंगलाणं च सव्वेसिं पढमं हवइ मंगलं' इतिस्वरूपा भणिता गणधरादिमिः, अन्ये तु पर्यन्तवर्तिनीस्तिस्रः सम्पद एवं मन्यन्ते, यथा'एसो पंच नमुक्कारो सव्वपावप्पणासणो' इति षोडशाक्षरप्रमाणा षष्ठी सम्पत् , 'मंगलाणं च सव्वेसिं' इत्यष्टाक्षरघटिता सप्तमी सम्पत् , 'पढमं हवइ मंगलं' इति नवाक्षरनिष्पन्ना अष्टमी सम्पत्, यदुक्तं-"अंतिमचूलाइ तियं सोलसअट्ठनवक्खरजुयं चेव । जो पढइ भत्तिजुत्तो सोपावइ सासयं ठाणं॥७९॥" [अन्त्यचूलिकायां त्रिकं षोडशाष्टनवाक्षरयुतं चैव । यः पठति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानं ॥१॥] इति, एवमैर्यापथिक्यादिष्वपि सम्पद्विषये यथायथं मतान्तराणि मतिमद्भिर्मन्तव्यांनीति । अत्र च यद्यपि 'हवइ होई' इत्यनयोरथ प्रति न कश्चिद्विशेषः 'होइ मंगलं' इति च पाठे श्लोको नाधिकाक्षरो भवति तथापि 'हवई' इत्येव पठितव्यं, यतो नमस्कारवलयकादिप्रन्थेषु सर्वमश्ररत्नानामुत्पत्त्याकरस्य प्रथमस्य कल्पितपदार्थकरणैककल्पद्रुमस्य विषविषधरशाकिनीडाकिनीयाकिन्यादिनिग्रहनिरवग्रहखभावस्य सकलजगद्वशीकरणाकृष्ट्याद्यव्यमिचारिप्रौढप्रभावस्य चतुर्दशपूर्वाणां सारभूतस्य पञ्चपरमेष्ठिनमस्कारस्य व्याख्यायां प्रस्तुतायां तथाविधप्रयोजनोद्देशेन यत्रपनादिविरचनायां प्रकृतायां यदा द्वात्रिंशद्दलं पद्ममालिख्यते प्रतिदलं च श्लोकसम्बन्ध्येकैकमक्षरं निवेश्यते तदा नाभौ त्रयस्त्रिंशत्तममक्षरमवश्यं निवेश्यं अन्यथा नाभिभागः शून्य एव स्यात् , मात्रयापि च हीने यनपद्मादौ निवेश्यमाने महामने तत्साध्यविशिष्टाभीष्टपरिपूर्णफलानवाप्तेरिति 'हवंइ' इत्ययमेव पाठो युक्तः, तथा चैतत्संवादिपर्वाचार्यकृतप्रकरणवचनं-'अट्रसटिअक्खरपरिमाणु, जिणसासणि नवकार पहाणू । अंतिमचूला तिन्नि पसिद्धा, सोलसअट्ठनवक्खररिद्धा ॥१॥" [अष्टषष्ट्याक्षरप्रमाणो जिनशासने नमस्कारः प्रधानः । अन्त्यास्तिस्रश्चलाः प्रसिद्धाः षोडशाष्टनवाक्षरसमृद्धाः॥१॥] इत्यादि, ततो नात्रामिमाननर्तनं केनापि कृतमिति विमर्शनीयं निर्मत्सरैरिति । तथा प्रथमपदेषु ज्ञातेषु यस्यां सम्पदि यावन्ति पदानि भवन्ति तस्यां तावन्ति सुखेनैव ज्ञायन्त इत्यत ऐर्यापथिकीसम्पदामष्टानामपि प्रथमपदानि दर्शयति-'इच्छे'त्यादि, अस्या गाथाया अर्थो लिख्यते, यथा-'भीमो भीमसेन' इति न्यायेन ईर्याया-ईर्यापथिक्या विश्रामेषु-संपत्सु एतानि इच्छगमादीनि प्रथमपदानि द्रष्टव्यानि, अत्र च प्राकृतत्वात्पुंसा निर्देशः, एवं च 'इच्छामि पडिक्कमिउं' इत्यायेका सम्पत्, द्वितीया 'गमणागमणे' इति, तृतीया 'पाणक्कमणे' इत्यादि, चतुर्थी 'ओसाउत्तिंग' इत्यादि, पञ्चमी 'जे मे जीवा विराहिया' इति, षष्ठी 'एगिदिया' इत्यादि, सप्तमी 'अभिहया' इत्यादि, अष्टमी 'तस्स उत्तरीकरणेणं' इत्यादि 'ठामि काउस्सगं' इति पर्यन्तं ॥ ८०॥ इदानीं शक्रस्तवसम्पदामादिपदानि दर्श्यन्ते-'अरिहमित्यादि, अत्र च नव सम्पदो भवन्ति, तत्र प्रथमपदं कर्तक्रियाप्रतिपादकमेव न तत् सम्पद्महणेन गृह्यते, ततोऽरिहमित्यनेन पदद्वयं सूचितं, अनेन स्तोतव्यसम्पत्प्रथमा प्रतिपादिता, यतोऽईतां भगवतां च स्तोतव्यत्वमुचितं, 'आइगे'त्यनेनाक्षरत्रयेणाऽऽद्यपदसूचितपदत्रयनिष्पन्ना द्वितीया सम्पद्धणिता, एषा च स्तोतव्यसम्पद एव प्रधानसाधारणासाधारणगुणरूपा हेतुसम्पदिति, यत आदिकरणशीला एव तीर्थकरत्वेन स्वयंसम्बोधतश्चैते भवन्ति, 'पुरिसो' इत्यनेन गाथावयवेन सूचिताद्यपदा चतुष्पदनिष्पन्ना तृतीया सम्पणिता, एषा च स्तोतव्यसम्पद एवासाधारणगुणरूपा हेतुसम्पत्कथिता, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्मभाक्त्वेन स्तोतव्यतोपपत्तः, 'लोगो' इत्यनेन गाथाक्षरद्वयेन प्रकटिताद्यपदा पञ्चपदनिर्मिता चतुर्थी सम्पदनिहिता, एषा च स्तोतव्यसम्पद एव सामान्येन सर्वजनोपकारित्वलक्षणेनोपयोगसम्पत् , लोकोत्तमत्वलोकनाथत्वलोकहितत्वलोकप्रदीपत्वलोकप्रद्योतकरत्वानां परार्थत्वादिति, 'अभय' इत्यनेन तु गाथावयवेनामिव्यक्तादिपदा पञ्चाऽऽलापकपरिमाणा पञ्चमी सम्पद्विज्ञेया, एषा चास्या एवोपयोगसम्पदो हेतुसम्पद् ज्ञातव्या, अभयदानश्चक्षुर्दानमार्गदानशरणदानबोधिदानैः परार्थसिद्धेरिति । 'धम्म'त्ति गाथावयवेन ज्ञापिताद्यपदा पञ्चपदघटिता षष्ठी सम्पन्निवेदिता, एषा च स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पद्वोद्धव्या, धर्मदत्वधर्मदेशकत्वधर्मनायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्तित्वेभ्य एव तस्याः स्तोतव्यसंपदो विशेषेणोपयोगात्, "अप्प'त्तिगाथाक्षरद्वयेन निरूपिताद्यपदा आलापकद्वयनिष्पन्ना सप्तमी सम्पदमिहिता, एषा च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पद्, अप्रतिहतवरज्ञानदर्शनधरा व्यावृत्तच्छद्मानश्च यतोऽर्हन्तो भगवन्तश्च भवन्तीति, 'जिण'त्ति गाथालवेन प्रादुष्कृताद्यपदा आलापकचतुष्टयनिर्मिताऽष्टमी सम्पनिवेदिता, इयं चात्मतुल्यपरफलकर्तृत्वसम्पत्प्रतिपादिता, जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंविधस्वरूपत्वादिति, 'सव्व 'त्ति गाथाक्षरद्वयेन संसूचिताद्यपदा आलापकत्रयनिर्मिता 'जियभयाणं' इति पर्यन्ता नवमी सम्पद, इयं च प्रधानगुणापरिक्षयप्रधानफलप्राप्त्या अभयसम्पदमिहिता, इयं चात्मतुल्यपरफलकर्तसर्वज्ञसर्वदर्शिनामेव शिवाचलादिस्थानप्राप्तौ जितभयत्वोपपत्तेरिति । एताश्च सम्पदोऽनन्तधर्माध्यासिते वस्तुनि मुख्य सति मुख्यवृत्त्या सम्भवन्त्येव, न चानन्तधर्मात्मकत्वं वस्तुनोऽनुपपन्नामिति वाच्यं, तस्यान्यत्रास्मद्गुरुप्रणीतप्रमाणप्रकाशवादमहार्णवादिमहातप्रन्थेषु
11