________________
विस्तरेण साधितत्वादिति शक्रस्तवसम्पदा प्रथमोल्लिकनपदानि ज्ञेयानि, पुल्लिङ्गनिर्देशश्च प्राकृतत्वाददुष्टः, आलापकाश्चात्र त्रयस्त्रिंशद्विमातव्याःया च जे अईया सिद्धा' इति गाथा साऽप्यवश्यं भणनीया, शक्रस्तवान्ते पूर्वैर्महाभुतधरैरमिहितत्वात्, न पुनरौपपातिकादिषु 'नमो जिणाणं जियभयाणं' इति पर्यन्तस्य शक्रस्तवस्य पठितत्वान्नेयं गाथाऽस्मामिः स्वयं भण्यत इति कुबोधाऽऽप्रहप्रस्तमानसैनवनवानल्पविकल्पकल्पनाकुशलैराधुनिकैरिव कैश्चिन्न पठनीया, प्राक्तनैरशठैरनमिमानैर्गीतार्थैः सूरिमिराहतस्य पक्षस्यादरणीयत्वादिति ॥८॥ 'अरिहंतचेइयाणं' इति दण्डकेऽष्टौ सम्पदस्तासामाद्यपदनिरूपणार्थमाह-अरिहं वंदणे'त्यादि तत्राईमित्यनेन सूचिताद्यपदा पदद्वयनिष्पन्ना प्रथमा सम्पत् , 'वंदण'मित्यनेन सूचिताद्यपदा पदषटुनिष्पन्ना द्वितीया सम्पत्, 'सद्धे'ति गाथावयवेन निवेदिताद्यपदा पदसप्तकनिर्मिता तृतीया सम्पत् , 'अन्नत्थू' इति गाथाक्षरत्रयेण निर्मिताद्यपदा पदनवकनिर्मिता चतुर्थी सम्पत् , 'सुहमति' गाथावयवेन सूचिताद्यपदा पदत्रयनिष्पन्ना पश्चमी सम्पत् , 'एवेति गाथाक्षरद्वयेन प्रकटीकृताद्यपदा पदषटकनिष्पना षष्ठी सम्पत् , 'जे'तिगाथाक्षरेण सूचिताद्यपदा पदचतुष्टयनिष्पन्ना सप्तमी सम्पत् , 'तावे'तिगाथाक्षराभ्यां सूचिताद्यपदा पदषटुनिष्पन्ना अष्टमी सम्पदिति अर्हचैत्यस्तवे विश्रामाणां प्रथमानि पदानि, आद्यानां च पदानां परिज्ञाने मध्यमानि पदानि सुगमान्येवेति ।। ८२ ॥ इदानीं चतुर्विशतिस्तवदण्डके ज्ञानस्तवदण्डके सिद्धस्तवदण्डके चैकयैव गाथया सम्पत्परिमाणमाह-'अट्टावीसे'त्यादि, अष्टाविंशतिः षोडश विंशतिश्च यथाक्रमेणयथासङ्ख्येन निर्दिष्टा-निवेदिता नामजिनस्तवनादिषु-'लोगस्सुजोयगरे इत्यादिषु त्रिषु दण्डकेषु विश्रामाः पादमानेन-लोकादिचतुर्थभागसङ्ख्ययेति ॥ ८३ ॥ इदानीमस्यां चैत्यवन्दनायां द्वादशाधिकारास्तान् यथायथं दर्शयन्नाह
दुण्णे 'गं दुण्णि दुगं पंचे कमेण हुंति अहिगारा । सकत्थयाइसु इहं योयन्वविसेसविसया उ ॥४॥ पढमं नमोऽत्थु १ जे अइयसिद्ध २ अरहंतचेझ्याणंति ३ । लोगस्स ४ सव्वलोए ५ पुक्खर ६ तमतिमिर ७ सिद्धाणं ८॥८५॥ जो देवाणवि ९ उर्जित सेल १. चत्तारि अह दस दो य११॥वेयावच्चगराण य १२ अहिगारुल्लिंगणपयाइं ॥८६॥ पढमे छहे नवमे दसमे एक्कारसे य भावजिणे । तइयंमि पंचमंमि य ठवणजिणे सत्तमे नाणं ॥ ८७॥ अहमवीयचउत्थेसु सिद्धदव्वा. रिहंतनामजिणे । वेयावच्चगरसुरे सरेमि बारसमअहिगारे॥८८॥ 'दन्नेगमित्यादि द्वावधिकारौ शक्रस्तवे, एकोऽईचैत्यस्तवे, द्वौ चतुर्विंशतिस्तवे, द्वौ श्रुतस्तवे, पञ्चैव सिद्धस्तवदण्डके भवन्त्यधिकाराः, अधिक्रियन्ते-समाश्रीयन्ते इत्यधिकाराः-प्रस्तावविशेषाः, तानाश्रित्य चैत्यवन्दनं विधीयत इति शक्रस्तवादिष्विह स्तोतव्यविशेषविषया इति ॥८४॥ तत्र यथायथं तान्येव दर्शयति-पढमं नमोऽत्थु'इत्यादि 'नमोऽत्थुणं' इत्यारभ्य 'जियभयाणं' इतिपर्यन्तेन :
सद्भुतगुणोत्कीर्तनरूपः प्रथमोऽधिकारः, भावार्हन्तोऽत्र स्तुता इत्यर्थः । 'जे अईया सिद्धा' इत्यनेनोपलक्षितया गाथया द्वितीयोऽधिकारः कथितः, अत्र च द्रव्याहतां वन्दना विधीयते, द्रव्यभूता अर्हन्तो द्रव्यार्हन्तो येऽहत्त्वं-चतुर्विंशदतिशयवत्त्वं प्राप्य सिद्धा ये च तत्प्राप्स्यन्ति क्रमेण तेऽत्र वन्द्यन्ते, यतः-'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं प्रोक्तम् ॥ १॥ इति गणधरैर्द्रव्यलक्षणमुक्तं, न च वक्तव्यं-द्रव्याहन्तोऽप्यईदावापन्ना एव वन्दनीयत्वेनामिमतास्ततः प्रथमाधिकारेणैव भावार्हतां वन्दितत्वात् 'जे य अईया सिद्ध'त्ति पुनरुक्तमिति, यतो वर्तमाना भविष्यन्तश्च जिनाः प्राप्ताईदावा एव वन्दनीयाः न नरकादिभववर्तिनः इत्यस्यार्थस्य ख्यापनार्थमुक्तत्वादेतस्य पदस्पेति, एष द्रव्याईद्वन्दनो द्वितीयोऽधिकारः । तथा येषां देवगृहादौ स्थापितानां जिनबिम्बानां वन्दनं कर्तुमारब्धं तान्यनेन 'अरहंतचेइयाणं इतिदण्डकेन वन्द्यन्ते इति स्थापनाईद्वन्दनो नामाऽयं तृतीयोऽधिकारः, 'लोगस्स'त्ति 'लोगस्सुजोयगरे' इतिदण्डकेनास्यामवसर्पिण्यामेकक्षेत्रनिवासिनां भव्यजनस्य भवभाविसकलक्लेशापहारकत्वेनासनवर्तिनां चतुर्विशतेरपि तीर्थकृतां नामोत्कीर्तनपुरस्सरं स्तवः क्रियते इति जिननामोत्कीर्तनो नाम चतुर्थोऽधिकारः, 'सव्वलोए' इतिगाथावयवसूचितः 'सव्वलोए अरिहंतचेइयाणं' इत्यादिनोख़्धोलोकमर्त्यलोकस्थितशाश्वताशाश्वतदेवगृहस्थापितानां श्रीजिनबिम्बानां वन्दनं क्रियते इति सर्वलोकदेवगृहजिनस्थापनास्तवोऽयं पञ्चमोऽधिकारः, तथा 'पुक्खर त्ति गाथाक्षरत्रयेण निवेदितः 'पुक्खरवरदीवड्डे' इत्यादिपरिपूर्णगाथाकेन पुष्करवरद्वीपार्धधातकीखण्डजम्बूद्वीपवर्तिनामहतां स्तवः क्रियते इति अर्घतृतीयद्वीपवर्तिभावार्हत्स्तवोऽयं षष्ठोऽधिकारः, ननु श्रुतस्तवाधिकार एवेदानी प्रस्तुतः तत्कथमप्रस्तुतस्तीर्थकृतां स्तवः क्रियते ? इति, सत्यमेतत् , तथापि श्रुतस्य कारणं भगवन्तस्तीर्थकरा एव, तैरेव प्रवर्तितत्वात् , 'अत्थं भासइ अरिहा' इत्यागमवचनात् , गणधराणामपि सूत्रकर्तृणामर्थस्य तीर्थकरैरेव कथितत्वादिति, अन्यच्च एतदेव श्रुतस्तवे प्रस्तुतेऽपि तीर्थकरस्तवकरणं ज्ञापयति यत्किश्चित्कार्यजातं क्रियते श्रेयोऽर्थिभिस्तत्सर्व तीर्थकृन्नमस्कारपुरस्सरमेव करणीयं, इत्थमेव सर्वकल्याणप्राप्तेरिति, 'तमतिमिर' इतिगाथाक्षरैः सूचिताप्रेतनसूत्रैः श्रुतं स्तूयत इति श्रुतस्तवोऽयं सप्तमोऽधिकारः, 'सिद्धाणं' इत्यनेन निवेदितसकलगाथाकेन सिद्धस्तुत्यभिधानोऽष्टमोऽधिकारः ।। ८५ ॥ 'जो देवाणवित्तिगाथाक्षरैः सूचितेन गाथाद्वयेन एतत्तीर्थस्य प्रवर्तकत्वादासन्नतरतया महोपकारकारित्वाद्भगवतो महावीरस्य स्तवस्त नमस्कारफलप्रकटनपरो विधीयत इति वीरस्तवो नामायं नवमोऽधिकारः, 'उजिंतसेल'त्ति अनेनापि पदावयवेन सूचितसकलगाथाकेन सकलत्रिलोकीतिलकायमानस्य भगवतः श्रीनेमिनाथस्य स्तवो विधीयते इति श्रीनेमिनाथस्तवोऽयं दशमोऽधिकारः, 'चत्तारि अट्ठदस
12