________________
होमति अनयाऽपि गाथया चतुर्विशतेरपि जिनानामाशंसाकरणपूर्व प्रणिधानं कृतमिति एकादशोऽधिकारः, 'वेयावञ्चगराण'त्ति
पसचितवयावनगराणं संतिगराण'इत्यादिकायोत्सर्माकरणतदीयस्तुतिदानपर्यन्तेन द्वादशोऽधिकारः कथितः, एतानि नमो. अथ इत्यादीन्यधिकारोल्लिङ्गनपदानि ज्ञेयानीति गाथाद्वयतात्पर्यार्थः ॥८६॥ इदानीं यस्मिन्नधिकारे ये जिनादयो वन्द्यन्ते तान स्वयमेव सूत्रकारो दर्शयति-पढमे छट्टे'त्यादि गाथाद्वयं, तत्र प्रथमेऽधिकारे शक्रस्तवरूपे 'जियभयाणं' इतिपर्यन्ते तथा षष्ठे 'पुक्खरवरदीवड़े' इत्यादिरूपे तथा नवमेऽधिकारे 'जो देवाणवि देवो' इत्यादिरूपे तथा दशमेऽधिकारे 'उजिंतसेलसिहरे' इत्यादिरूपे तथैकादशेऽधिकारे 'चत्तारि अट्ठदस' इतिस्वरूपे भावजिनान् द्वितीयगाथान्ते 'सरेमि' इतिक्रियापदकरणात् स्मरामि वन्दनीयतयेति, भावजिनाश्च सकलत्रैलोक्यातिशायिनीमशोकादिविशिष्टाष्टप्रातिहार्यरूपामार्यजननिकरनयननलिनामां परमोत्सवायमानामपारसंसारपारावारनिमज्जजनतोत्तारणतरीकल्पामविकल्पकल्पद्रुमचिन्तारत्नादिभ्योऽप्यसमानमहिमानमुन्मीलन्निर्मलकेवलालोकबलपरिकलितलोकालोकामद्भुतां विभूतिमनुभवन्तस्तीर्थकराः । तथा 'अरिहंतचेइयाणं' इत्यादिके तृतीयेऽधिकारे 'सव्वलोए अरहंतचेइयाणं' इत्यादिरूपे पञ्चमे च यथाक्रमं साक्षाद्विवन्दिषितदेवगृहस्थापितप्रतिमारूपान् भवनपतिव्यन्तरज्योतिषिकवैमानिकनन्दीश्वरमन्दरकुलाचलाष्टापदसम्मेतशैलशिखरशत्रुखयोजयन्तादिसर्वलोकस्थितशाश्वताशाश्वतदेवगृहस्थापितजिनेन्द्रबिम्बरूपांश्च जिनान् स्मरामीति ॥ ८७ । तथा 'तमतिमिरपडल' इत्यादिके सप्तमेऽधिकारे निखिलकुमततिमिरनिकरापहारकारि ज्ञानं स्मरामीति, तथा अष्टमे 'सिद्धाणं बुद्धाणं' इत्यादिरूपे द्वितीये 'जे य अईया सिद्धा' इतिरूपे चतुर्थे 'लोगस्स उज्जोयगरे' इत्यादिरूपे च यथासङ्ख्यं सिद्धान् द्रव्यजिनान् नामजिनांश्च स्मरामीति, तथा 'वेयावच्चगराणं करेमिकाउस्सर्ग इत्यादिरूपे द्वादशेऽधिकारे वैयावृत्त्यकरसुरान् स्मरामीति ॥८८॥ ननु ज्ञातस्तावच्चारुचैत्यवन्दनविधिः, परमेवंविधविधिविशुद्धं चैत्यवन्दनमहोरात्रमध्ये साधुमिः श्रावकैश्च कियतीर्वारा विधीयत इति ?, तत्राह
साहूण सत्त वारा होइ अहोरत्तमज्झयारंमि। गिहिणो पुण चिइवंदण तिय पंच य सत्त वा वारा ॥८९॥ पडिक्कमणे चेइहरे भोयणसमयंमि तह य संवरणे । पडिक्कमणे सुर्यण पडिबोहकालियं सत्तहा जइणो ॥ ९॥ पडिक्कमओ गिहिणोवि हु सत्तविहं पंचहा उ इयरस्स । होइ जहण्णेण पुणो तीसुवि संझासु इय तिविहं ॥ ९१ ॥ नवकारेण जहन्ना दंडकथुइजुयलमज्झिमा नेया।
उक्कोसा विहिपुव्वगसकत्थयपंचनिम्माया ॥ ९२॥ 'साहूण सत्त वारे'यादि, साधूनां सप्त वारा अहोरात्रमध्ये भवति चैत्यवन्दनं, गृहिणः-श्रावकस्य पुनश्चैत्यवन्दनं प्राकृतत्वाल्लुप्तप्रथमैकवचनान्तमेतत् तिस्रः पञ्च सप्त वा वारा इति ॥ ८९॥ तत्र साधूनामहोरात्रमध्ये कथं तत्सप्त वारा भवतीत्याह-'पडिक्कमणेत्यादि, प्राभातिकप्रतिक्रमणपर्यन्ते १ ततश्चैत्यगृहे २ तदनु भोजनसमये ३ तथाचेति समुच्चये भोजनानन्तरं च संवरणे-संवरणनिमित्तं प्रत्याख्यानं हि पूर्वमेव चैत्यवन्दने कृते विधीयते ४, तथा सन्ध्यायां प्रतिक्रमणप्रारम्भे ५ तथा स्वापसमये ६ तथा निद्रामोचनरूपप्रतिबोधकालिकं च ७ सप्तधा चैत्यवन्दनं भवति, यतेर्जातिनिर्देशादेकवचनं यतीनामित्यर्थः ॥ ९०॥ गृहिणः कयं सप्त पश्च तिस्रो वा वाराश्चैत्यवन्दनमित्याह-'पडिक्कमओ'त्ति, द्विसन्ध्यं प्रतिक्रमतो गृहस्थस्यापि यतेरिव सप्तवेलं चैत्यवन्दनं भवति, यः पुनः प्रतिक्रमणं न विधचे तस्य पञ्चवेलं, जघन्येन तिसृष्वपि सन्ध्यासु चैत्यवन्दनमिति त्रिविधम् ॥ ९१ ॥ नन्वेतस्याश्चैत्यवन्दनायाः किमेक एव प्रकारः ? किं वा जघन्यादिकृतं प्रकारान्तरमप्यस्ति ?, बाढमस्तीत्याह-नवकारेणे'त्यादि, जघन्यमध्यमोत्कृष्टभेदेन त्रिविधं तावचैत्यवन्दनं, तत्रैकेन 'नमो अरिहंताणं इत्यादिना यदिवा-पायानेमिजिनः स यस्य रुचिभिः श्यामीकताङ्गस्थितावप्रे रूपदिहक्षया स्थितवति प्रीते सुराणां प्रभो । काये भागवते च नेत्रनिकरैर्वृत्रद्विषो लाञ्छिते, सम्भ्रान्तास्त्रिदशाङ्गनाः 'कथमपि ज्ञात्वा स्तवं चक्रिरे ॥१॥' इत्यादिरूपेण स्तवेन जघन्या चैत्यवन्दना, अन्ये पुनः प्रणाममात्ररूपां जघन्यां चैत्यवन्दनां वदन्ति, प्रणामस्तु पञ्चधा भवति, यथा-एकाङ्गः शिरसो नामे, व्यङ्गश्च करयोयोः । त्रयाणां नमने व्यङ्गः, करयोः शिरसस्तथा ॥१॥ चतुर्णा करयोर्जान्वोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः, पञ्चाङ्गः पञ्चमो मतः॥२॥ इति, मध्यमा कैकस्तुतिरूपेण युगलेन भवति, अन्ये त्वेवं व्याख्यानयन्ति-दण्डकानां-शक्रस्तवादीनां पञ्चकं तथा स्तुतियुगलमिति-समयभाषया स्तुतिचतुष्टयं ताभ्यां या वन्दना सा मध्यमा, साम्प्रतरुढ्या एकवारवन्दनेत्यर्थः, उत्कृष्टा तु विधिपूर्वकशक्रस्तवोपलक्षितपश्चदण्डकनिमिता 'जय वीयराय' इत्यादिप्रणिधानपर्यन्ता चैत्यवन्दना भवतीति, अन्ये पुनः शक्रस्तवपञ्चकभणनेनोत्कृष्टचैत्यवन्दना भवतीति व्याचक्षते, एवं च शक्रस्तवपञ्चकं भवति-उत्कृष्टचैत्यवन्दनया वन्दितुकामः साधुः श्रावको वा चैत्यगृहादौ गत्वा यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलस्त्रैलोक्यगुरी विनिवेशितनयनमानसः संवेगवैराग्यभरोज़म्भमाणरोमाञ्चकचकितंगात्रः प्राप्तप्रकर्षहर्षवशविसर्पद्वाष्पपूरपूर्णनयननलिनः सुदुर्लमं भगवञ्चरणारविन्दवन्दनमिति बहुमन्यमानः सुसंवृत्ताङ्गोपाङ्गो योगमुद्रया जिनसम्मुखं शक्रस्तवमस्खलितादिगुणोपेतं पठति, तद्नु ऐयोपथिकीप्रतिक्रमणं करोति, ततः पञ्चविंशत्युच्छासमानं कायोत्सर्ग कृत्वा पारयित्वा 'लोगस्सुज्जोयगरे' इत्यादि परिपूर्ण भणित्वा जानुनी च भूमौ निवेश्य योजितकरकुशेशयस्तथाविधसुकविकृतजिननमस्कारभणनपूर्व शक्रस्तवादिमिः पञ्चमिर्द
13