________________
तृतीयः सर्गः
अश्रोवाच नजःसेना रचिताञ्जलिरार्षनिम् । मा स्म भूः स्थविरेव त्वं स्थविरायाः कथा यथा ॥ १ ॥ नूतग्राम एकस्मिन्बुद्धिः सिद्धिश्च नामतः । स्थविरे पे मिथः सख्यौ नित्यमत्यन्तदुः स्थिते ॥२॥ तस्य ग्रामस्य च बहिः साधिष्ठानोऽस्ति सर्वदा । प्रसिद्धो जोलको नाम यक्षः काङ्क्षित वित्तदः ॥ ३ ॥ स्थविरा बुद्धिनाम्नी च दारिद्र्यदुमवाटिका । सम्यगाराधयामास तं यक्षं प्रतिवासरम् ॥ ४ ॥ त्रिसन्ध्यमपि तद्देवकुलं मार्जयति स्म सा । पूजापूर्वं च नैवेद्यं तस्मै नित्यमढौकयत् ॥ ५ ॥ ददामि किं तुन्यमिति यस्तुष्टो ऽन्यदावदत् । श्राराध्यमानो नितरां कपोतो ऽपि हि तुष्यति ॥ ६ ॥ जगाद साथ स्थविरा यदि तुष्टोऽसि देव मे । तदेहि येन जीवामि सुखसन्तोषजागहम् ॥ ७ ॥ यक्षः प्रोवाच हे बुधिस्थविरे सुस्थिता नव । मत्पादमूले दीनारं लप्स्यसे त्वं दिने दिने ॥ ८॥ दिने दिने च दीनारं लनमाना तदादि सा । स्वजनानपदाच्चाधिकर्जिः स्थविराजवत् ॥ ए ॥ दिव्यनेपथ्यसम्जारं स्वप्ने ऽपि न ददर्श या । क्षणे क्षणे पर्यधात्तं सा राज्ञीव नवं नवम् ॥ १० ॥ यस्याश्च काञ्जिकश्रचाप्यपूर्यत कदापि न । कुएकोभ्यो धेनवस्तस्या गृहे ऽनुवन्सहस्रशः ॥ ११ ॥ जन्मापि हि या तस्थौ जीर्णे तांर्णे कुटीरके । सौधं साकारयछेदी मत्तवारणबन्धुरम् ॥ १२ ॥ जिजीव या परगृहगोमयत्यागकर्मणा । पाश्चास्य इव तां दास्यः स्तम्नलग्नाः सिषेविरे ॥ १३ ॥ १ तृणमये ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org