Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
Jain Educationonal
एवं महागिरिं स्तुत्वा प्रतिबोध्याखिलांश्च तान् । पुनरेव निजं स्थानं सुहस्ती जगवान्ययौ ॥ १५ ॥ श्रेष्ठ्यपि स्वजनानूचे दृढभक्तिर्विशेषतः । ईदृशं पश्यथ मुनिं यदा निक्षार्थमागतम् ॥ १६ ॥ त्यज्यमानं दर्शयित्वा जक्तपानादिकं तदा । तस्मै देयं तदादत्तं तद्धि वः स्यान्महाफलम् ॥ १७ ॥ युग्मं ॥ स्वजनैर्वसुनूतेस्तु प्रत्यपद्यत तद्वचः । निक्षार्थं च द्वितीयेऽह्नि तेष्वेवागान्महागिरिः ॥ १८ ॥ महागिरिं समायान्तं दृष्ट्वा ते श्रेष्ठिबन्धवः । तथैवारेनिरे कर्तु तस्मै तद्दातुमिवः ॥ १९ ॥ उपयोगेन विज्ञाय तदशुद्धं महागिरिः । श्रनादायैव वसतिं गत्वा चोचे सुहस्तिनम् ॥ २० ॥ aer ह्यो विनयं कृत्वानेषणा महती कृता । ते हि त्वदुपदेशेन निक्षां मह्यमसयन् ॥ २१ ॥ नैवं नूयः करिष्ये ऽहमिति जपन्सुहस्त्यपि । क्षमयामास पादाये लुवन्नार्यमहागिरिम् ॥ २२ ॥
I
इतश्च सम्प्रतिनृपो ययावुयिनीं पुरीम् । कदापि क्वापि तिष्ठन्ति स्वनूमौ हि महीभुजः ॥ २३ ॥ जीवन्तस्वामिप्रतिमारथयात्रां निरीक्षितुम् । श्रायातावन्यदावन्त्यां महागिरिसुहस्तिनौ ॥ २४ ॥ पृथक्पृथक्वसत्यां तौ तस्थतुः सपरिच्छदौ । तयोरतिमदागस्ततो नैकत्रसङ्गमः ॥ २५ ॥ निर्ययौ चोत्सवेनाथ जीवन्तस्वामिनो रथः । मनोमयूरजलदः पौराणां जक्तिशालिनाम् ॥ २६ ॥ ताज्या माचार्यवर्याच्यां श्री सना खिलेन च । अन्वीयमानः स रथः पुर्या पर्याटदस्खलन् ॥ २७ ॥ गते राजकुलधारं रथे ऽथ पृथिवीपतिः । वातायन स्थितो दूराद्ददर्शार्यसुहस्तिनम् ॥ २८ ॥ दध्यौ चैवं मुनीन्द्रो ऽयं मन्मनः कुमुदोरुपः । क्वापि दृष्ट इवाजाति न स्मरामि तु किं ह्यदः ॥ २ ॥ १ अनुगम्यमानः
For Personal and Private Use Only
jainelibrary.org

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222