Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
तं निर्णयममंसातां तौ तु पक्षावुनावपि । इति चोचतुरादौ कः सूनुमाह्वातुमर्हति ॥ १०॥ स्त्रीगृह्याः प्रोचिरे पौरा वतिनामेष बालकः । चिरसङ्घटितप्रेमा तपचो नातिलङ्घते ॥ ११ ॥ मातैवाह्वयतामादावियं पुष्करकारिणी। नारीति चानुकम्प्यापिलवत्येतद्धि नान्यथा ॥ १११॥ ततः सुनन्दा वदुशो बालक्रीमनकानि च । विविधानि च नदयाणि दर्शयन्त्येवमन्यधात् ॥ ११॥ हस्तिनो ऽमी अमी अश्वाः पत्तयो ऽमी श्रमी रथाः। तव क्रीडाश्रमानीतास्तद्गृहाणैहि दारक ॥११३॥ मोदका मएमका जादाः शर्कराश्चान्यदप्यदः । यदिबसि तदस्त्येव गृह्यतामेहि दारक ॥ ११५ ॥ तवायुष्मन्कृषीयाहं सर्वाङ्गमवतारणे । चिरं जीव चिरं नन्द सुनन्दामाशु मोदय ॥ ११५॥ मम देवो मम पुत्रो ममात्मा मम जीवितम् । त्वमेवासीति मां दीनां परिष्वङ्गेण जीवय ॥ ११६॥ विलदा मा कृथा वत्स मां लोकस्यास्य पश्यतः। हृदयं मे ऽन्यथा नावि पक्ववालुङ्कवविधा ॥ ११७॥ एहि हंसगते वत्स ममोत्सङ्गं परिष्कुरु । कुश्विासावक्रयो मे न खन्यः किमियानपि ॥ ११ ॥ एवं क्रीमनकैदयप्रकारैश्चाटुकैरपि । सौनन्देयः सुनन्दाया नान्यगन्मनागपि ॥ ११ ॥ न मातुरुपकाराणां को ऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधीर्वज्र एवमचिन्तयत् ॥ १२०॥ यदि समुपेदिष्ये कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारो दीघदीर्घतरः खलु ॥ ११॥ श्यं च धन्या माता मे ऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्या ह्यापातमात्रजं दुःखमप्यदः॥१२॥ दीर्घदर्शी विमृश्यैवं वज्रो वज्रढाशयः। प्रतिमास्थ श्व स्थानान्न चचाल मनागपि ॥ १३ ॥
१ तैलाभ्यंगे रणच्छेदे कन्याया मरणे तथा । आपातमात्रतो दुःखं स पश्चात्सुखमेधते ॥
Lain
atananternational
For Personal and Private Use Only
www.ainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222