SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तं निर्णयममंसातां तौ तु पक्षावुनावपि । इति चोचतुरादौ कः सूनुमाह्वातुमर्हति ॥ १०॥ स्त्रीगृह्याः प्रोचिरे पौरा वतिनामेष बालकः । चिरसङ्घटितप्रेमा तपचो नातिलङ्घते ॥ ११ ॥ मातैवाह्वयतामादावियं पुष्करकारिणी। नारीति चानुकम्प्यापिलवत्येतद्धि नान्यथा ॥ १११॥ ततः सुनन्दा वदुशो बालक्रीमनकानि च । विविधानि च नदयाणि दर्शयन्त्येवमन्यधात् ॥ ११॥ हस्तिनो ऽमी अमी अश्वाः पत्तयो ऽमी श्रमी रथाः। तव क्रीडाश्रमानीतास्तद्गृहाणैहि दारक ॥११३॥ मोदका मएमका जादाः शर्कराश्चान्यदप्यदः । यदिबसि तदस्त्येव गृह्यतामेहि दारक ॥ ११५ ॥ तवायुष्मन्कृषीयाहं सर्वाङ्गमवतारणे । चिरं जीव चिरं नन्द सुनन्दामाशु मोदय ॥ ११५॥ मम देवो मम पुत्रो ममात्मा मम जीवितम् । त्वमेवासीति मां दीनां परिष्वङ्गेण जीवय ॥ ११६॥ विलदा मा कृथा वत्स मां लोकस्यास्य पश्यतः। हृदयं मे ऽन्यथा नावि पक्ववालुङ्कवविधा ॥ ११७॥ एहि हंसगते वत्स ममोत्सङ्गं परिष्कुरु । कुश्विासावक्रयो मे न खन्यः किमियानपि ॥ ११ ॥ एवं क्रीमनकैदयप्रकारैश्चाटुकैरपि । सौनन्देयः सुनन्दाया नान्यगन्मनागपि ॥ ११ ॥ न मातुरुपकाराणां को ऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधीर्वज्र एवमचिन्तयत् ॥ १२०॥ यदि समुपेदिष्ये कृत्वा मातुः कृपामहम् । तदा स्यान्मम संसारो दीघदीर्घतरः खलु ॥ ११॥ श्यं च धन्या माता मे ऽल्पकर्मा प्रव्रजिष्यति । उपेक्ष्यमस्या ह्यापातमात्रजं दुःखमप्यदः॥१२॥ दीर्घदर्शी विमृश्यैवं वज्रो वज्रढाशयः। प्रतिमास्थ श्व स्थानान्न चचाल मनागपि ॥ १३ ॥ १ तैलाभ्यंगे रणच्छेदे कन्याया मरणे तथा । आपातमात्रतो दुःखं स पश्चात्सुखमेधते ॥ Lain atananternational For Personal and Private Use Only www.ainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy