SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Jain Educationonal एवं महागिरिं स्तुत्वा प्रतिबोध्याखिलांश्च तान् । पुनरेव निजं स्थानं सुहस्ती जगवान्ययौ ॥ १५ ॥ श्रेष्ठ्यपि स्वजनानूचे दृढभक्तिर्विशेषतः । ईदृशं पश्यथ मुनिं यदा निक्षार्थमागतम् ॥ १६ ॥ त्यज्यमानं दर्शयित्वा जक्तपानादिकं तदा । तस्मै देयं तदादत्तं तद्धि वः स्यान्महाफलम् ॥ १७ ॥ युग्मं ॥ स्वजनैर्वसुनूतेस्तु प्रत्यपद्यत तद्वचः । निक्षार्थं च द्वितीयेऽह्नि तेष्वेवागान्महागिरिः ॥ १८ ॥ महागिरिं समायान्तं दृष्ट्वा ते श्रेष्ठिबन्धवः । तथैवारेनिरे कर्तु तस्मै तद्दातुमिवः ॥ १९ ॥ उपयोगेन विज्ञाय तदशुद्धं महागिरिः । श्रनादायैव वसतिं गत्वा चोचे सुहस्तिनम् ॥ २० ॥ aer ह्यो विनयं कृत्वानेषणा महती कृता । ते हि त्वदुपदेशेन निक्षां मह्यमसयन् ॥ २१ ॥ नैवं नूयः करिष्ये ऽहमिति जपन्सुहस्त्यपि । क्षमयामास पादाये लुवन्नार्यमहागिरिम् ॥ २२ ॥ I इतश्च सम्प्रतिनृपो ययावुयिनीं पुरीम् । कदापि क्वापि तिष्ठन्ति स्वनूमौ हि महीभुजः ॥ २३ ॥ जीवन्तस्वामिप्रतिमारथयात्रां निरीक्षितुम् । श्रायातावन्यदावन्त्यां महागिरिसुहस्तिनौ ॥ २४ ॥ पृथक्पृथक्वसत्यां तौ तस्थतुः सपरिच्छदौ । तयोरतिमदागस्ततो नैकत्रसङ्गमः ॥ २५ ॥ निर्ययौ चोत्सवेनाथ जीवन्तस्वामिनो रथः । मनोमयूरजलदः पौराणां जक्तिशालिनाम् ॥ २६ ॥ ताज्या माचार्यवर्याच्यां श्री सना खिलेन च । अन्वीयमानः स रथः पुर्या पर्याटदस्खलन् ॥ २७ ॥ गते राजकुलधारं रथे ऽथ पृथिवीपतिः । वातायन स्थितो दूराद्ददर्शार्यसुहस्तिनम् ॥ २८ ॥ दध्यौ चैवं मुनीन्द्रो ऽयं मन्मनः कुमुदोरुपः । क्वापि दृष्ट इवाजाति न स्मरामि तु किं ह्यदः ॥ २ ॥ १ अनुगम्यमानः For Personal and Private Use Only jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy