________________
एकादश
॥ ए
॥
एकादशः सर्गः जविकाननुगृह्णन्तौ कुर्वाणौ धर्मदेशनाम् । महीं विहरतः स्मायौँ महागिरिसुहस्तिनौ ॥ १॥ कालक्रमेण लगवाञ्जगद्वन्धुर्महागिरिः। शिष्यान्निष्पादयामास वाचनाभिरनेकशः ॥२॥ महागिरिर्निजंगलमन्यदादात्सुदस्तिने । विहर्तु जिनकापेन त्वेको ऽन्मनसा स्वयम् ॥३॥ व्युच्छेदाजिनकटपस्य गठनिश्रास्थितोऽपि हि । जिनकटपार्हया वृत्त्या विजहार महागिरिः॥४॥ ते धर्मदेशनावारि वर्षन्तो वारिदा इव । विहरम्तो ऽन्यदा जग्मुः पाटलीपुत्रपत्तनम् ॥ ५॥ वसुनूतिरिति श्रेष्ठी तत्र चार्यसुहस्तिना। सम्बोधितः श्रावको ऽनूजीवाजीवादितत्त्ववित् ॥६॥ सुहस्त्याख्यातधर्मानुवादेन स्वजनानपि । प्रबोधयितुमारेने वसुन्नतिर्दिवानिशम् ॥ ७॥ प्रबोध्यमाना अपि ते सादरं वसुजूतिना । नाबुध्यन्त विना धर्माचार्य मित्यटपमेधसः ॥७॥ वसुजूतिर्गुरोराख्यन्नगवन्स्वजना मया। न पारिता बोधयितुं तान्बोधयितुमईसि ॥ ए॥ इति तत्प्रतिबोधाय सुहस्ती तद्गृहं ययौ । सुधातरङ्गिणीप्रायां प्रारेने धर्मदेशनाम् ॥ १० ॥ प्राविशत्तत्र निदाथै तदा चार्यमहागिरिः। तमभ्युदस्थादाचार्यः सुहस्ती वन्दते स्म च ॥११॥ श्रेष्ठयप्युवाच युष्माकमपि को ऽप्यस्ति किं गुरुः । युष्मानिर्वन्द्यते विश्ववन्द्यैर्यदयमागतः॥१२॥ सुहस्ती स्माह नोः श्रेष्ठिन्ममैते गुरवः खलु । त्यागाहलक्तपानादिनिदामाददते सदा ॥१३॥ ईदृग्निक्षाशना ह्येते ऽपरथा स्युरुपोषिताः । सुगृहीतं च नामैषां वन्द्यं पादरजो ऽपि हि ॥१४॥ १ अन्यथा
Jain Educationa international
For Personal and Private Use Only
www.jainelibrary.org