Book Title: Parishisht Parv
Author(s): Hemchandracharya,
Publisher: Yashovijay Jain Granthmala
View full book text
________________
नवमः
॥ ८१ ॥
Jain Educationa International
कुणालो नाम तनुत्रशोकस्याप्यजायत । कुमारनुक्तौ राजादात्तस्मायुक्त यिनी पुरीम् ॥ १५ ॥
यिन्यां स्थितो राजनियुक्तैर्बालधारकैः । रक्ष्यमाणो जीवितवत्सो ऽनूत्साग्राष्टहायनः ॥ १६ ॥ राज्ञे च तावद्वयसं तमाख्यन्बालधारकाः । दध्यावध्ययनाहों ऽयमिति राजापि हर्षजा ॥ १७ ॥ ततो राजा कुमाराय लिखलेखे स्वयं त्विदम् । प्राकृतं सुखबोधाय यत्कुमारो अधीयत ॥ १८ ॥ सपत्नी जननी तत्र कुणालस्य निषेदुषी । राज्ञः पार्श्वपादाय तं तु लेखमवाचयत् ॥ १५ ॥ मत्सुतस्यैव राज्यं स्तात्कुणालस्य तु नेति सा । अन्यचित्ते नरपतावकरोत्कूटमी दृशम् ॥ २० ॥ निष्ठीवनाकृतया नेत्राञ्जनशलाकया । श्राकृष्य का नेत्रादकारे बिन्दुकं ददौ ॥ २१ ॥
शोको sपि प्रमादेन नानुवाचितमेव हि । तं लेखं मुद्रयामासोकयिन्यां प्राहिणोदथ ॥ २२ ॥ तं लेखं पितृनामाङ्कं मुद्रालङ्कृतमस्तकम् । पाणिन्यामाददे धात्र्यां कुमारो मूर्ध्नि च न्यधात् ॥ २३ ॥ तं लेखं वाचयामास कुमारो लेखकादथ । वाचयित्वा च तूष्णीको विषमो लेखको ऽप्यभूत् ॥ २४ ॥ तस्मिन्नुदश्रुनयने लेखार्थं वक्तुममे । ततश्च तत्करालेखं कुमारः स्वयमाददे ॥ २५ ॥ दर्शनोत्प्रेक्षणैर्वर्णानपि वाचयितुं क्षमः । वाचयामास तं लेखमशोकतनयः स्वयम् ॥ २६ ॥ अंधीयत इति प्रेक्ष्यादराण्युयिनीपतिः । दध्यौ मौर्यान्वये को ऽपि गुर्वाज्ञालङ्घको न हि ॥ २७ ॥ लोपस्यामि राज्ञो यद्याज्ञामहमेवाग्रतः स्थितः । तदा मत्कृत एवाध्वान्येषामपि जविष्यति ॥ २८ ॥ ततश्च साहसनिधिर्मौर्यवंशाब्धिचन्द्रमाः । अनक्ति स्म स्वयमपि नेत्रे तप्तशलाकया ॥ २९ ॥
१ अष्टवर्षेभ्योऽधिकः
For Personal and Private Use Only
सर्गः
॥ ८१ ॥
www.jainelibrary.org

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222