SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ नवमः ॥ ८१ ॥ Jain Educationa International कुणालो नाम तनुत्रशोकस्याप्यजायत । कुमारनुक्तौ राजादात्तस्मायुक्त यिनी पुरीम् ॥ १५ ॥ यिन्यां स्थितो राजनियुक्तैर्बालधारकैः । रक्ष्यमाणो जीवितवत्सो ऽनूत्साग्राष्टहायनः ॥ १६ ॥ राज्ञे च तावद्वयसं तमाख्यन्बालधारकाः । दध्यावध्ययनाहों ऽयमिति राजापि हर्षजा ॥ १७ ॥ ततो राजा कुमाराय लिखलेखे स्वयं त्विदम् । प्राकृतं सुखबोधाय यत्कुमारो अधीयत ॥ १८ ॥ सपत्नी जननी तत्र कुणालस्य निषेदुषी । राज्ञः पार्श्वपादाय तं तु लेखमवाचयत् ॥ १५ ॥ मत्सुतस्यैव राज्यं स्तात्कुणालस्य तु नेति सा । अन्यचित्ते नरपतावकरोत्कूटमी दृशम् ॥ २० ॥ निष्ठीवनाकृतया नेत्राञ्जनशलाकया । श्राकृष्य का नेत्रादकारे बिन्दुकं ददौ ॥ २१ ॥ शोको sपि प्रमादेन नानुवाचितमेव हि । तं लेखं मुद्रयामासोकयिन्यां प्राहिणोदथ ॥ २२ ॥ तं लेखं पितृनामाङ्कं मुद्रालङ्कृतमस्तकम् । पाणिन्यामाददे धात्र्यां कुमारो मूर्ध्नि च न्यधात् ॥ २३ ॥ तं लेखं वाचयामास कुमारो लेखकादथ । वाचयित्वा च तूष्णीको विषमो लेखको ऽप्यभूत् ॥ २४ ॥ तस्मिन्नुदश्रुनयने लेखार्थं वक्तुममे । ततश्च तत्करालेखं कुमारः स्वयमाददे ॥ २५ ॥ दर्शनोत्प्रेक्षणैर्वर्णानपि वाचयितुं क्षमः । वाचयामास तं लेखमशोकतनयः स्वयम् ॥ २६ ॥ अंधीयत इति प्रेक्ष्यादराण्युयिनीपतिः । दध्यौ मौर्यान्वये को ऽपि गुर्वाज्ञालङ्घको न हि ॥ २७ ॥ लोपस्यामि राज्ञो यद्याज्ञामहमेवाग्रतः स्थितः । तदा मत्कृत एवाध्वान्येषामपि जविष्यति ॥ २८ ॥ ततश्च साहसनिधिर्मौर्यवंशाब्धिचन्द्रमाः । अनक्ति स्म स्वयमपि नेत्रे तप्तशलाकया ॥ २९ ॥ १ अष्टवर्षेभ्योऽधिकः For Personal and Private Use Only सर्गः ॥ ८१ ॥ www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy