SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International विज्ञाय तमशोकश्री महासाहसकारकम् । धिक्कूटलेखको ऽस्मीति निनिन्दात्मानमात्मना ॥ ३० ॥ चिन्तयच्च दुर्दैवाधिष्ठितो ऽहं हताशयः । कुमारो यदजूदेवं प्रमाद लिखितेन मे ॥ ३१ ॥ राज्यं वा ममलित्वं वा वत्सो नाद्यायमर्हति । मयि यस्येदृशी नतिर्धिक्तस्येदृशमागतम् ॥ ३२ ॥ यौवराज्यमसौ क्त्वा जविष्यति नृपो ऽप्यसौ । मनोरथेन पर्याप्तममुना साम्प्रतं मम ॥ ३३ ॥ कुणालायेत्यशोकश्रीर्ददौ ग्रामं महर्द्धिकम् । तत्सापलकुमाराय ददावुजयिनीं पुनः ॥ ३४ ॥ कुणालस्य तु तं ग्रामं जुञ्जानस्य परेद्यवि । अनूचरत्रियां पत्ल्यां सूनुः सम्पूर्णलक्षणः ॥ ३५ ॥ वर्धापिकाच्यो दासीच्यः कुमारः पारितोषिकम् । दत्त्वा महोत्सवं चक्रे पुत्रजन्मनिबन्धनम् ॥ ३६ ॥ मातुर्मनोरथं या वृथैवाद्य करोम्यहम् । इत्यागात्पाटलीपुत्रं कुणालो राज्य लिप्सया ॥ ३७ ॥ ततो गीतविनोदेन स्वेच्छया स पुरे भ्रमन् । प्रेयान्बभूव लोकस्य गान्धर्वेणातितुम्बुरुः ॥ ३८ ॥ पाटलीपुत्रनगरे यत्र यत्र जगौ स तु । तत्र तत्र ययुः पौरा गीताकृष्टाः कुरङ्गवत् ॥ ३५ ॥ गान्धर्वेणाद्भुतं श्रुत्वा तमन्ध इति पार्थिवः । श्राडूय जवनीगुप्तं कृत्वा गातुं समादिशत् ॥ ४० ॥ यथास्थानं मन्त्रमध्यतारैः षड्जादिनिः स्वरैः । पद्यप्रबन्धमीदृक्षं जगौ रागं स पोषयन् ॥ ४१ ॥ प्रपौत्रश्चन्द्रगुप्तस्य बिन्दुसारस्य नैतृकः । एषो ऽशोकश्रियः सूनुरन्धो मार्गति का किणीम् ॥ ४२ ॥ पद्यप्रबन्धमन्धेन गीयमानं महीपतिः । श्रुत्वा पप्रनु को नाम त्वमस्याख्याहि गायन ॥ ४३ ॥ स उवाच तवैवास्मि कुणालो नाम नन्दनः । त्वदाज्ञालेखमी हित्वा यो ऽन्धः स्वयमजायत ॥ ४४ ॥ १ पौत्र : For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy