________________
नवमः
॥
८॥
ततो जवनिकां वेगादपसार्य नरेश्वरः। दृष्ट्रोपलक्ष्य स्वं सूनुमुदश्रुः परिषस्वजे ॥४५॥ ऊचेच राजा तुष्टोऽस्मि वत्स तुभ्यं ददामि किम् । व्यजिज्ञपत्कुमारोऽपियाचेऽहं देव काकिणीम्॥६॥ किमेतद्याचितमिति राझि ब्रुवति मन्त्रिणः । ऊचिरे राजपुत्राणां काकिणी राज्यमुच्यते ॥४॥ राजा प्रोवाच हे वत्स किं राज्येन करिष्यसि । तत्ते स्यादन्यसादेव दैवापहृतचक्षुषः ॥ ४ ॥ व्यजिझपत्कुमारोऽपितात जातोऽस्ति मे सुतः। पौत्रेण वर्धसे दिष्ट्या राज्येऽस्मिन्सोऽनिषिच्यताम्॥धए।। पप्रचाशोकराजो ऽपि कदोत्पेदे सुतस्तव । सम्प्रत्येवेत्यकथयत्कुणालो ऽपि कृताञ्जलिः॥५०॥ तदैव तमशोकश्रीः समानाययदर्नकम् । नामापि सम्प्रतिरिति तस्याकृत कृतोत्सवः ॥ १॥ अमोघवागशोकश्रीस्तं दशाहादनन्तरम् । सम्प्रति स्तन्यपमपि निजे राज्ये न्यवीविशत् ॥ ५॥ वृघिमासादयामास वयसा विक्रमेण च । श्रिया च सम्प्रतिरजूच्चाजन्म परमाईतः॥५३॥ क्रमेण साधयामास चरतार्ध सदक्षिणम् । प्रचएमशासनश्चाजूत्पाकशासनसन्निनः ॥ ५४॥ . स्तश्च तस्मिन्मुष्काले कराले कालरात्रिवत् । निर्वाहार्थ साधुसङ्घस्तीरं नीरनिधेर्ययौ ॥ ५५ ॥ श्रगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनन्यसनतो नश्यत्यधीतं धीमतामपि ॥५६॥ सङ्कोऽथ पाटलीपुत्रे मुष्कालान्ते ऽखिलो ऽमिलत् । यदङ्गाध्ययनोद्देशाद्यासीधस्य तदाददे ॥ ७ ॥ ततश्चैकादशाङ्गानि श्रीसडो ऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किंचितिचिन्तयन् ॥ ५० ॥ नेपालदेशमार्गस्थं नषबाटुं च पूर्विणम् । ज्ञात्वा सङ्घः समाहातुं ततः प्रैषीन्मुनिष्यम् ॥ ५५॥ गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली। समादिशति वः सहस्तत्रागमनहेतवे ॥६॥
॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org