Book Title: Parishisht Parv
Author(s): Hemchandracharya, 
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 172
________________ अष्टमः ॥ ८६ ॥ Jain Educationa ततश्च नगरासन्नकरीषस्थलमूर्धनि । निषद्यानशनं चक्रे चाणक्यो निर्जरोद्यतः ॥ ५५८ ॥ यथाविपन्नजननीवृत्तान्तं धात्रिकामुखात् । विज्ञाय बिन्दुसारो ऽनुशेयानस्तत्र चाययौ ॥ ४५९ ॥ उवाच रूमयित्वा च चाणक्यं चन्द्रगुप्तसूः । पुनर्वर्तय मे राज्यं तवादेशकृदस्म्यहम् ॥ ४६० ॥ मौर्याचार्योऽन्यधाद्राजन्कृतं प्रार्थनयानया । शरीरे ऽपि निरीहो ऽस्मि साम्प्रतं किं त्वया मम ॥४६१ ॥ चलन्तं प्रतिज्ञाया मर्यादाया इवार्णवम् । चन्द्रगुप्तगुरुं ज्ञात्वा बिन्दुसारो ययौ गृहम् ॥ ४६२ ॥ चुकोप गतमात्रो ऽपि बिन्दुसारः सुबन्धवे । सुबन्धुरपि शीतार्त इवोचे कम्पमुद्दहन् ॥ ४६३ ॥ देव सम्यगविज्ञाय चाणक्यो दूषितो मया । गत्वा तं क्षमयाम्यद्य यावत्तावत्प्रसीद मे ॥ ४६४ ॥ इति गत्वा सुबन्धुस्तं क्षमयामास मायया । अचिन्तयच्च मा ज्यो ऽप्यसौ व्रजतु पत्तने ॥ ४६५ ॥ मुना कुविकल्पेन स राजानं व्यजिज्ञपत् । चाणक्यं पूजयिष्यामि तस्यापकृतिकार्यहम् ॥ ४६६ ॥ अनुज्ञातस्ततो राज्ञा सुबन्धुश्चणिजन्मनः । पूजामनशनस्थस्य विधातुमुपचक्रमे ॥ ४६७ ॥ पूजां सुबन्धुरापातबन्धुरां विरचय्य च । धूपाङ्गारं करीषान्तश्चिक्षेपान्यैरलक्षितः ॥ ४६८ ॥ धूपाङ्गारेणानिलास्फालितेन प्रोद्यज्ज्वाले प्राकरीषस्थले तु । दारुप्रायो दह्यमानो ऽप्यकम्पो मौर्याचार्यो देव्यत्तत्र मृत्वा ॥ ४६ ॥ इत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये शकटालमरणस्थूलनदीक्षाव्रतचर्याासम्भूतविजयस्वर्गगमन चाणक्य चन्द्रगुप्तकथा बिन्दुसार जन्मराज्यवर्णनो नामाष्टमः सर्गः । १ करीषं शुष्कगोमयम् २ पश्चात्तापं कुर्वन् ३ अपकारकर्त्ता For Personal and Private Use Only सर्गः ॥ ८६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222