________________
अष्टमः
॥ ८६ ॥
Jain Educationa
ततश्च नगरासन्नकरीषस्थलमूर्धनि । निषद्यानशनं चक्रे चाणक्यो निर्जरोद्यतः ॥ ५५८ ॥ यथाविपन्नजननीवृत्तान्तं धात्रिकामुखात् । विज्ञाय बिन्दुसारो ऽनुशेयानस्तत्र चाययौ ॥ ४५९ ॥ उवाच रूमयित्वा च चाणक्यं चन्द्रगुप्तसूः । पुनर्वर्तय मे राज्यं तवादेशकृदस्म्यहम् ॥ ४६० ॥ मौर्याचार्योऽन्यधाद्राजन्कृतं प्रार्थनयानया । शरीरे ऽपि निरीहो ऽस्मि साम्प्रतं किं त्वया मम ॥४६१ ॥ चलन्तं प्रतिज्ञाया मर्यादाया इवार्णवम् । चन्द्रगुप्तगुरुं ज्ञात्वा बिन्दुसारो ययौ गृहम् ॥ ४६२ ॥ चुकोप गतमात्रो ऽपि बिन्दुसारः सुबन्धवे । सुबन्धुरपि शीतार्त इवोचे कम्पमुद्दहन् ॥ ४६३ ॥ देव सम्यगविज्ञाय चाणक्यो दूषितो मया । गत्वा तं क्षमयाम्यद्य यावत्तावत्प्रसीद मे ॥ ४६४ ॥ इति गत्वा सुबन्धुस्तं क्षमयामास मायया । अचिन्तयच्च मा ज्यो ऽप्यसौ व्रजतु पत्तने ॥ ४६५ ॥
मुना कुविकल्पेन स राजानं व्यजिज्ञपत् । चाणक्यं पूजयिष्यामि तस्यापकृतिकार्यहम् ॥ ४६६ ॥ अनुज्ञातस्ततो राज्ञा सुबन्धुश्चणिजन्मनः । पूजामनशनस्थस्य विधातुमुपचक्रमे ॥ ४६७ ॥ पूजां सुबन्धुरापातबन्धुरां विरचय्य च । धूपाङ्गारं करीषान्तश्चिक्षेपान्यैरलक्षितः ॥ ४६८ ॥ धूपाङ्गारेणानिलास्फालितेन प्रोद्यज्ज्वाले प्राकरीषस्थले तु ।
दारुप्रायो दह्यमानो ऽप्यकम्पो मौर्याचार्यो देव्यत्तत्र मृत्वा ॥ ४६ ॥ इत्याचार्यश्री हेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये शकटालमरणस्थूलनदीक्षाव्रतचर्याासम्भूतविजयस्वर्गगमन चाणक्य चन्द्रगुप्तकथा बिन्दुसार जन्मराज्यवर्णनो नामाष्टमः सर्गः । १ करीषं शुष्कगोमयम् २ पश्चात्तापं कुर्वन् ३ अपकारकर्त्ता
For Personal and Private Use Only
सर्गः
॥ ८६ ॥
www.jainelibrary.org