Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 393
________________ 362 प्रसन्नपदापरिभूषितम् [4 अध्याये. १आह्निकेअथापि ' लक्षणव्यवस्थानादेवाऽप्रतिषेधः // 36 // ' न कश्चिदेको भावः' इत्ययुक्तः प्रतिषेधः, कस्मात् ?. लक्षणव्यवस्थानादेव= यदिह लक्षणं भावस्य संज्ञाशब्दभूतं तदेकस्मिन् व्यवस्थितम्- 'यं कुम्भमद्राक्षं तं स्पृशामि' 'यमेवाऽस्माक्षं तं पश्यामि ' इति. नाऽणुसमूहो गृह्यते इति. अणुसमूहे चागृह्यमाणे यद् गृह्यते तदेकमेवेति // अथाप्येतदनूक्तम्- नास्त्येको भावो यस्मात्समुदायः / एकानुपपत्ते स्त्येव समूहः / नास्त्येको भावो यस्मात् समूहे भावशब्दप्रयोगः, एकस्य धानुपपत्तेः समूहो नोपपद्यते- एकसमुच्चयो हि समूह इति, व्याहतत्वादनुपपन्नम्- 'नास्त्येको भावः' इति / यस्य प्रतिषेधः प्रतिज्ञायते- ' समूहे भावशब्दप्रयोगात् ' इति हेतुं ब्रुवता स भेदः पृथक्कार्यकरत्वात् स्पष्ट एवेत्येकोऽवयवी सिद्ध इत्यर्थः / गुणगुणिलक्षणमवयवावयविलक्षणं चोभयं विभक्तन्यायम्= भिन्नलक्षणकं यथा गुणाश्रयत्वं गुणित्वम् अवयवसमवेतत्वमवयवित्वम्. तथा च नाव. यविनोऽवयवरूपत्वमुपपद्यते- लक्षणभेदादित्याह- विभक्तन्यायमिति, किं वा गुणव्यतिरिक्तो गुणीति म गुणगुणिनोरभेदः संभवति. अवयवव्यतिरिक्तश्चावयवीति नावयवाऽवयविनोरभेदः संभवतीत्यर्थस्तथा च वार्तिकम्- "गुणव्यतिरिक्तो गुणीति अवयवव्यतिरिक्तश्चावयवीति विभक्तन्यायमेतत्" इति।।३५॥ अग्रिमसूत्रमवतारयति- अथापीति, किं चेत्यर्थः / एकस्यावयविनः सद्भावे हेत्वन्तरमाह- लक्षणेति, लक्षणानाम्= वाचकशब्दानां किं वाऽवयवानां व्यवस्थायाः सत्त्वादपि एकस्याऽवयविनः प्रतिषेधो नोपपद्यते तथा हि घटः' इत्येकवचनान्तः शब्दः एकस्यावयविनो वाचक इति प्रसिद्धमेव अन्यथैक. बचनान्तत्वं नोपपद्येत. घटादीनां कपालादिलक्षणा अवयवा अपि व्यवस्थिताः सन्ति अन्यथैकस्याभावे यदि सर्व नानैव तदाऽवयवानामेव नानात्वात् किं निरूपितमवयवत्वं स्यात् यतोऽवयविनिरूपितमेवावयवत्वं संभवति अवयवत्वासंभवे च नानात्वमपि न स्यादिति लक्षणव्यवस्थानादप्येकोऽवयवी सिद्ध इति सूत्रार्थः / व्याचष्टे- नेति, एतत्पूर्वपक्षानुवादः / परिहरति- इत्ययुक्त इति / उक्त हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- लक्षणेति / हेतुवाक्यं व्याचष्टे- यदिहेति, घटादिपदं एकस्मिन् व्यवस्थितम्= एकव्यक्तेर्वाचकमित्येको भावः सिद्ध इत्यर्थः / उदाहरति- यमिति, यमित्यादिशब्दानामेकवचनान्तत्वात् .तद्वाच्यस्यैकत्वं सिद्धमित्यर्थः / पूर्वपक्षिमते बाधकमाह- नेति, यदा ह्ययोग्यत्वादणुसमूहो न गृह्यते सदैको भावो गृह्यते इति सिद्धम् अन्यथा ज्ञानं निर्विषयमेव स्यादित्यर्थः / / बौद्धोक्तवाक्यमनुवदितुमाह- अथेति / तद्वाक्यमाह- नास्तीति, यस्मादवयवसमुदाय एव तस्मादेको भावो नास्तीति एतदप्यनूक्तम्= त्वयोक्तमित्यर्थः / अत्र- "अपि च भावलक्षणपृथक्त्वादिति हेतुमुक्त्वा बौद्धेन पश्चादेतदुक्तं किं तदुक्तमित्याह- नास्त्येको भावो यस्मात्समुदाय इति, एतदनूक्तं दूषयति- एकानुपपत्तेर्नास्त्येव समूहः” इति तात्पर्यटीका / उक्तं व्याचक्षाणः प्रथमं पूर्वपक्षिमतं दूषयतिएकेति, एकाभावे समूहः- अनेकोपि न संभवति- एकसमूहत्यैवानेकत्वादित्यर्थः / बौद्धोक्तं व्याचष्टेनास्तीति, घटादिशब्दानामवयववृन्दवाचकत्वादेको भावो नास्तीत्यर्थः / उक्तेऽनुपपत्तिमाह- एकस्येति / अनुपपत्तेः= अभावे / अत्र हेतुमाह- एकेति / पर्यवसितमाह-व्याहतत्वादिति, 'नास्त्येको भावः' इति यदुक्तं तद् व्याहतत्वादनुपपन्नमित्यन्वयः, व्याहतिश्च एकाभावेऽनेकानुपपत्तिरेव / एकस्यार्थात् स्वीकृ. तत्वमाह- यस्येति, " समूहे भावशब्दप्रयोगात्" इत्येकप्रतिषेधकं हेतुं अवता यस्यैकस्य प्रतिषेधः प्रति

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500