Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 474
________________ पट्पक्षी ] न्यायभाष्यम् / सति कार्यान्यत्वे अनुपलब्धिकारणानुपपत्तेः प्रयत्नस्याऽहेतुत्वं शब्दस्याभिव्यक्तौ= यत्र प्रयत्नानन्तरमभिव्यक्तिस्तत्रानुपलब्धिकारणं व्यवधानमुपपद्यते. व्यवधानापोहाच्च प्रयत्नानन्तरभाविनोऽर्थस्योपलब्धिलक्षणाऽभिव्यक्तिर्भवतीति. न तु शब्दस्यानुपलब्धिकारणं किं चिदुपपद्यते यस्य प्रयत्नानन्तरमपोहात् शब्दस्योपलब्धिलक्षणाऽभिव्यक्तिर्भवतीति. तस्मादुत्पद्यते शब्दो नाभिव्यज्यते इति // 38 // ____ हेतोश्चेदनैकान्तिकत्वमुपपाद्यते- अनैकान्तिकत्वादसाधकः स्यादिति, यदि चाऽनैकान्तिकत्वादसाधकत्वम् ? प्रतिषेधेपि समानो दोषः / / 39 // मित्युपपाद्यते इतिस्पष्टमेव तथा च शब्दस्य नित्यत्वपक्षे प्रयत्नस्याऽहेतुत्वे प्रयत्नानन्तरीयकत्वम् प्रयत्नकार्यत्वं नोपपद्यते स्वीकृतं च प्रयत्नानन्तरीयकत्वं तेन कार्यत्वं तेन चानित्यत्वं सिद्धमित्याशयः / वस्तुतस्तु सूत्रे ' अनुपलब्धिकारणानुपपत्तेः' इत्येवं पाठो युक्तो भाज्यसंमतश्च तथा च शब्दस्य कार्यान्यत्वे नित्यत्वपक्षे प्रयत्नस्य शब्दोत्पादकत्वाभावादहेतुत्वम् = निष्फलत्वं प्राप्तं पूर्वोक्तं शब्दस्यानुपलब्धिकारणमावरणादिकं तु नोपपद्यते यस्याऽपाकरणात् प्रयत्नस्य साफल्यं स्यादिति शब्दनित्यत्वपक्षे प्रयत्नस्य निष्फलत्वमापद्यते न चैतद् युक्तमिति शब्दोच्चारणप्रयत्नस्य साफल्याथै शब्दस्य कार्यत्वं स्वीकार्यमिति सूत्रार्थ उपपद्यते, “अनुपलब्धिकारणोपपत्तेः” इति प्रकृतपाठपक्षे तु शब्दानुपलब्धिकारणस्यावरणादेरुपपत्तौ तदपाकरणेन प्रयत्नस्य साफल्यं शब्दनित्यत्वपक्षेपि संभवति तदेतत् प्रकृतविरुद्धमेवेति नायं पाठो युक्त इति विभाव्यम् / व्याचष्टे- सतीति, शब्दस्याभिव्यक्तौ= अभिव्यक्तिपक्षे= नित्यत्वपक्षे, अन्यद् व्याख्यातमेव / उक्तं व्याचष्टे- यत्रेति, यथा नाट्यशालायां नटादीनामभिव्यक्तिर्भवति तत्र जवनिकादिकं व्यवधानमपि प्रसिद्धमेव तस्य व्यवधानस्याऽपोहात्= अपसारणात् , तादृशव्यवधानापसारणलक्षणप्रयत्नादनन्तरं भाविनः= दृश्यमानस्य नटादिपदार्थस्योपलब्धिरूपाऽभिव्यक्तिर्भवति, तत्र जवनिकादिलक्षणं व्यवधा प्रत्यक्षमेव तस्यापसारणात् प्रयत्नसाफल्यम् / शब्दस्य त्वनुपलब्धिकारणं व्यवधानं न प्रमाणगम्यमस्ति येन शब्दस्याभिव्यक्तिः स्वीक्रियेत तया च नित्यत्वं स्वीक्रियेतेत्याह-न विति, यस्य= अनुपलब्धिकारणस्य व्यवधानस्य, स्वीक्रियेतेतिशेषः / उपसंहरतितस्मादिति, तस्मात्= शब्दस्य नित्यत्वासंभवात् किं वा व्यवधायकासंभवात् प्रागुच्चारणादसन्नेव शब्द इतिहेतोः प्रयत्नस्य साफल्याथै चोत्पद्यते एव शब्द इत्यऽनित्य एव न नित्य इति स्वीकार्यमित्यर्थः स्पष्टमन्यत् / अत्र 'अनुपलब्धिकारणानुपपत्तेः' इत्येवं सूत्रपाठे " सति कार्यान्यत्वेऽनुपलब्धिकारणानुपपत्तेः" इतिभाष्यमप्यनुकूलम्, भाष्येप्यत्र “अनुपलब्धिकारणोपपत्तेः” इतिपाठान्तरं तु तादृशसूत्रपाठवदसंगतमेव " न तु शब्दस्यानुपलब्धिकारणं किं चिदुपपद्यते " इत्यग्रिमेणोक्तविशदीकरणभाष्यपाठेन प्रतिकूलश्चेति विभाव्यम् / " अनुपलब्धिकारणस्यावरणादेरुपपत्तेरभिव्यक्तिहेतुत्वं स्याद् एवं तु नास्तीति व्यतिरेकपरं द्रष्टव्यम्" इतितात्पर्यटीकातात्पर्येण तु सूत्रस्य व्यतिरेकपरत्वेन= आक्षेपपरत्वेन 'कार्या. न्यत्वे प्रयत्नहेतुत्वमनुपलब्धिकारणोपपत्तेः' इत्येवं पाठः संभवति तस्य च 'शब्दस्य नित्यत्वपक्षेऽनुपलब्धिकारणोपपत्तौ सत्यामनुपलब्धिकारणाऽपाकरणात् प्रयत्नस्य हेतुत्वम् = साफल्यं स्यात् न चैवमस्ति' इत्यर्थः संभवतीत्यलमधिकेन // 38 // // इति जातिनिरूपणप्रकरणं समाप्तम् // अग्रिमसूत्रमवतारयति- हेतोरिति, हेतोः= प्रयत्नानन्तरीयकत्वादितिहेतोः, हेतोरनैकान्तिकत्वोपपादनस्य हेतुमाह- अनैकान्तिकत्वादिति / प्रकृतमाह- यदीति / षट्पक्षीमारभते-प्रतिषेधेपीति, यदि शब्दानित्यत्वसाधकहेतौ प्रयत्नानन्तरीयकत्वेऽनैकान्तिकत्वं दोषस्तद्वा प्रतिषेधेपि= अनित्यत्वप्रति

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500