Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ अथ न्यायभाष्यपश्चमाध्यायस्य द्वितीयमाह्निकम् विप्रतिपत्यप्रतिपत्त्योर्विकल्पान्निग्रहस्थानबहुत्वमिति संक्षेपेणोक्तं तदिदानी विभजनीयम् / निग्रहस्थानानि खलु पराजयवस्तून्यऽपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनमऽतत्त्ववादिनं चाभिसंप्लवन्ते, तेषां विभाग: प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं निरर्थकमऽविज्ञातार्थमऽपार्थकम प्राप्तकालं न्यूनमधिकं पुनरुक्तमऽननुभाषणमौनमप्रतिभा विक्षेपो" मैंतानुज्ञा पैर्यनुयोज्योपेक्षणं निरंनुयोज्यानुयोगोऽपै सिद्धान्तो हेत्वाभासाश्च निग्रहस्थानानि // 1 // तानीमानि द्वाविंशतिधा विभज्य लक्ष्यन्ते // 1 // प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः // 2 // साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः, निदर्शनम्- 'ऐन्द्रियकत्वादनित्यः शब्दो घटवत्' इतिकृते. अपर आह'दृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान्न तथा शब्दः ?' इति. (एवम् ) प्रत्यवस्थिते. इदमाह उद्दिष्टपदार्थेषु शिष्टानां निग्रहस्थानानां निरूपणार्थ पञ्चमाध्यायस्य द्वितीयमाह्निकमारभतेविप्रतिपत्तीति, तदेतत् प्रथमाध्यायान्ते द्रष्टव्यं तथा च सूत्रम्- “विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् 1-2-19 " " तद्विकल्पान्जातिनिग्रहस्थानबहुत्वम् 1-2-20" इत्युक्तम् / निग्रहस्थानानां फलं स्वरूपं वाह-निग्रहस्थानानीति, पराजयो वसति एष्विति पराजयवस्तूनि पराजयकारणानीत्यर्थः, अपराधाधिकरणानि= वक्तृदोषसूचकानि, अपराधश्चात्राऽकथनीयकथनमेव संगच्छते। निग्रहस्थानाश्रयमाह- प्रायेणेति, प्रतिज्ञाद्यवयवाश्रयाणि= प्रतिज्ञाद्यवयवनिष्ठानि यथा प्रतिज्ञासंन्यासपर्यन्तं चत्वारीणि प्रतिज्ञाश्रयाणि. हेत्वन्तरं हेतुनिष्ठम् हेत्वाभासा अपि हेतुसंबद्धा एव. एवमग्रेपि बोध्यम् / अभिसंपूवन्ते= आश्रयन्ते. तत्त्ववादिनापि हेत्वन्तरनिर्देशे कृते निग्रहस्थानं भवत्येव यथा 'प्रपञ्चः सत्यः प्रमाणविषयत्वात् कार्यकरत्वाच्च ब्रह्मवत् आत्मवद्वा' इति / तेषाम्= निग्रहस्थानानाम् / विभागसूत्रमाह- प्रतिज्ञाहानिरिति, नात्र किंचिदपि व्याख्येयमस्ति / व्याचष्टे- तानीति, निग्रहस्थानानीत्यर्थः / लक्ष्यन्ते= प्रदर्यन्ते किंवाग्रे लक्षयिष्यन्ते इत्यर्थः // 1 // निग्रहस्थानेषु प्रतिज्ञाहानि लक्षयति- प्रतिदृष्टान्तेति, स्वदृष्टान्ते= स्वोक्तदृष्टान्ते प्रतिदृष्टान्तधर्मस्य याऽभ्यनुज्ञा सा प्रतिज्ञाहानिः यथा भाष्योक्तोदाहरणे घटे प्रतिदृष्टान्तधर्मस्य= सामान्यधर्मस्य नित्यत्वस्याभ्यनुज्ञेति सूत्रान्वयः, अन्यत्सर्वं भाष्ये स्पष्टम् / अत्रत्या वृत्तिरपि द्रष्टव्या / व्याचष्टे-साध्यधर्मेति, साध्यधर्मप्रत्यनीकेन= स्वसाध्यविरुद्धेन धर्मेण प्रत्यवस्थिते= प्रतिपक्षे उपस्थापिते सति परेणे. त्यर्थः / उदाहरति- ऐन्द्रियकत्वादिति, निदर्शनम्= उदाहरणम्, ऐन्द्रियकत्वात्= इन्द्रियग्राह्यत्वात्, इतिकृते= इतिप्रयुक्ते, अपरः= प्रतिवादी, प्रत्यवस्थानमाह- दृष्टमिति, नित्ये सामान्ये= गोत्वादावप्यैन्द्रियकत्वमस्ति-इन्द्रियग्राह्यत्वात्, तथा नित्यः / इदमाह प्रथमपक्षवादी, तथा च प्रकृते सांध्यो धर्मः
Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500