Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 485
________________ 454 प्रसन्नपदापरिभूषितम्- [5 अध्याये. २आह्निकेपौर्वापर्यायोगादप्रतिसंबद्धार्थमऽपार्थकम् // 10 // यत्राऽनेकस्य पदस्य वाक्यस्य वा पौर्वापयेणान्वययोगो नास्ति इत्यऽसंबद्धार्थत्वं गृह्यते / तत्समुदायार्थस्याऽपायादपार्थकं यथा- 'दश दाडिमानि. षडपूपाः. कुण्डमजाजिनम् . पललपिण्डः. अधरौरुकमेतत् . कुमार्याः पाय्यं तस्याः पिता अप्रतिशीनः' इति // 10 // अवयवविपर्यासवचनमऽप्राप्तकालम् // 11 // . प्रतिज्ञादीनामवयवानां यथालक्षणमर्थवशात् क्रमः तत्रावयवविपर्यासेन वचनमऽप्राप्तकालम् . असंबद्धार्थ निग्रहस्थानमिति // 11 // हीनमन्यतमेनाप्यवयवेन न्यूनम् // 12 // प्रतिज्ञादीनामवयवानामन्यतमेनाप्यवयवेन हीनं न्यूनं निग्रहस्थानम्- साधनाभावे साध्यासिद्धिरिति // 12 // ___ अपार्थकं लक्षयति-पौर्वेति, पौवापर्यायोगान्= वाक्यानां यत्र परस्परासंबन्धादऽप्रतिसंबद्धार्थम्= असंबद्धार्थ महावाक्यं भवति तत्राऽपार्थकं निग्रहस्थानं भवतीति सूत्रान्वयः / प्रकृतार्थासंबद्धार्थत्वेऽर्थान्तरम् , परस्परसंबन्धाभावेऽपार्थकमिति भेदः / अत्र- “वाच्यार्थशून्यत्वं निरर्थकत्वं समुदायार्थशून्यत्वमपार्थकत्वमिति भेदः" इति श्रीगुरुचरणाः / व्याचष्टे- यत्रेति, पौर्वापर्येण= परस्परम् , अन्वययोगः= अन्वयात्मकसंबन्धः= अन्वयः, नास्ति= न संभवति, इति= इतिहेतोः तस्यानेकस्य पदस्य वाक्यस्य चाऽसंबद्धार्थत्वं गृह्यते इत्यन्वयः / निर्वक्ति- तदिति / समुदायार्थस्य= महावाक्यार्थस्य, अपा. यात्= राहित्यात् तदऽपार्थकमित्यन्वयः। उदाहरति- दशेति, दशादिशब्दानामर्थस्य सत्त्वेपि ' दश दाडिमानि' 'षडपूपाः' इत्यादिवाक्यानां परस्परं संबन्धोन संभवतीत्यपार्थकं निग्रहस्थानमित्यन्वयः / अजाजिनम्= अजाचर्म, पललपिण्डः= मांसपिण्डः / अत्र- “रौरुकं रुरुसंबन्धि, पाय्यं पाययितव्यम् , अप्रतिशीनो वृद्धः" इति तात्पर्यटीका / स्पष्टमन्यत् / " अधरौरुकमेतत्" इत्यत्र " अथ रोरुकमेतत्" इत्यपि पाठ उपलभ्यते एष हि पाठस्तात्पर्यटीकानुकूलः, वस्तुतस्त्वत्र 'अर्घोरुकमेतत् ' इत्येवं पाठो युक्तः अर्धारुकशब्दश्च स्त्रीणामोरुपिधायकवस्त्रवाचकस्तथा चामरः- " अोरुकं वरस्त्रीणां स्याञ्चण्डातकमस्त्रियाम्" इति // 10 // अप्राप्तकालं लक्षयति- अवयवेति, प्रतिज्ञाद्यवयवानां विपर्यासेन= व्युत्क्रमेण वचनम् अप्राप्तकालं निग्रहस्थानं यथा प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि उत्तरोत्तरं वक्तव्यानीति क्रमस्तस्य परित्यागे ह्यऽप्राप्तकालम् , प्रतिज्ञाया अनन्तरं हेतोः कालोस्ति नान्यत्रेति अन्यत्र कथनेऽप्राप्तकालं भवति एवमन्यत्रापि बोध्यमिति सूत्रार्थः / व्याचष्टे- प्रतिज्ञादीनामिति, लक्षणानि प्रथमाध्याये उक्तानि, अर्थवशात्= सामर्थ्यवशात् प्रयोजनवशाद्वेत्यर्थः / उपसंहरति- तत्रेति / अस्य निग्रहस्थानत्वकारणमाह- असंबद्धार्थमिति, प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अनेन क्रमेणैव संबद्धार्थानि भवन्ति- प्रतिज्ञाया अनन्तरं हेतोरपेक्ष्यमाणत्वादित्येवमन्यत्रापि बोध्यम् , तथा चास्याऽसंबद्धार्थत्वमेव निग्रहस्थानत्वकारणमित्यर्थः / उदाहरणं यथा-'धूमाद वह्निमान्' इत्यादि। 'अवयवविपयासेनाऽसंबद्धार्थ वचनम् अप्राप्तकालं निग्रहस्थानम् / इत्यन्वयः // 11 // न्यूनं लक्षयति- हीनमिति, प्रतिज्ञाद्यवयवानां मध्येऽन्यतमेन केन चिदवयवेन हीनम्= रहितमऽनुमानवाक्यं न्यूनं नाम निग्रहस्थानमिति सूत्रान्वयः / ब्याचष्टे- प्रतिज्ञादीनामिति / अस्य निग्रहस्थानत्वकारणमाह-साधनाभावे इति, प्रतिज्ञादिपश्चावयवयुक्तमेवानुमानवाक्यं साध्यसाधकं भवतीति साधनीभूतस्य कस्यचिदप्यवयवस्य राहित्ये साध्यसिद्धिर्न संभवतीति हेतोरस्य निग्रहस्थानत्वमित्यर्थः / उदाहरणं यथा- 'वह्निमान् महानसवत् ' इत्यादि हेत्वादिरहितम् / स्पष्टं सर्वम् // 12 //

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500