Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ निग्रहस्थाननिरूपणम् ] न्यायभाष्यम्। 455 हेतूदाहरणाधिकमऽधिकम् // 13 // एकेन कृतत्वादन्यतरस्याऽऽनर्थक्यमिति, तदेतन्नियमाभ्युपगमे वेदितव्यमिति // 13 // शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् // 14 // अन्यत्रानुवादात् शब्दपुनरुक्तमऽर्थपुनरुक्तं वा-'नित्यः शब्दः नित्यः शब्दः' इति शब्दपुनरुक्तम् . अर्थपुनरुक्तम्- 'अनित्यः शब्दः. निरोधधर्मको ध्वानः' इति / अनुवादे त्वपुनरुक्तम्- शब्दाभ्यासादर्थविशेषोपपत्तेः यथा-" हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् 1-1-39" इति // 14 // __ अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् // 15 // पुनरुक्तमिति प्रकृतम् , निदर्शनम्- 'उत्पत्तिधर्मकत्वादनित्यम्' इत्युक्त्वा अर्थादापनस्य योऽभिधायकः शब्दस्तेन स्वशब्देन ब्रूयात्-' अनुत्पत्तिधर्मकं नित्यम् ' इति तच्च पुनरुक्तं वेदितव्यम्- अर्थसंप्रत्ययार्थे शब्दप्रयोगे प्रतीतः सोऽर्थोऽर्थापत्येति // 15 // अधिक लक्षयति- हेविति, हेतोरुदाहरणस्य चानेकत्वे ह्यधिकं नाम निग्रहस्थानं भवतिअवयवाधिक्यात्, एकस्या अपि प्रतिज्ञायाः साधका हेतवो दृष्टान्ताश्चाऽनेके संभवन्ति तस्मात् " हेतूदाहरणाधिकम् " इत्युक्तम् , ' तथा चायम् / इत्युपनयः तस्मात्तथा' इति निगमनमिति नोपनयनिगमनयोराधिक्यं संभवति, प्रतिज्ञोपनयनिगमनानां पुनर्वचने तु पुनरुक्तं निग्रहस्थानं भविष्यति / उदाहरणं यथा- 'प्रपञ्चो मिथ्या दृश्यत्वात् जडत्वात् / इति हेत्वधिकम् , 'प्रपञ्चो मिथ्या दृश्यत्वात् शुक्तिरजतवद् गन्धर्वनगर वञ्च ' इति उदाहरणाधिकमिति सूत्रार्थः / व्याचष्टे- एकेनेति, एकेनैव हेतुना कृतत्वात्= साध्यसिद्धिसंभवाद् हेतोराधिक्येऽन्यतरस्य हेतोरानर्थक्यमेव स्यादिति आनर्थक्यादेव निग्रहस्थानत्वमित्यर्थः, एवमेवोदाहरणाधिक्येपि योज्यम् / विशेषमाह- तदेतदिति, 'एक एव हेतुर्दृष्टान्तश्च वक्तव्यः' इति यत्र वादनियमो भवति तत्र तादृशनियमोल्लङ्घनाद् हेतूदाहरणयोराधिक्ये निग्रहस्थानं भवति न तु नियमाभावेपीत्यर्थः // 13 // पुनरुक्तं लक्षयति- शब्देति, अन्यत्रानुवादास- अनुवादातिरिक्तस्थले शब्दस्य वाऽर्थस्य वा पुनर्वचनं पुनरुक्तं निग्रहस्थानं भवति, अनुवादस्तु न पुनरुक्तं विना संभवतीति न तत्र पुनरुक्तं दोष इतिसूत्रार्थः / व्याचष्टे- अन्यत्रेति, निग्रहस्थानमिति शेषः / शब्दपुनरुक्तमुदाहरति-नित्य इति / अर्थपुनरुक्तमुदाहरति- अनित्य इति, 'अनित्यः शब्दः' 'निरोधधर्मको ध्वानः' इति द्वयोरपि वाक्ययोरेकार्थत्वात्तदर्थस्य पुनरुक्तत्वम् , निरोधधर्मकः- अनित्यः, ध्वानः शब्द इत्यर्थः / अनुवादे पुनरुक्तस्याऽदूषणत्वमाह- अनुवादे इति, अपुनरुक्तम्- पुनरुक्तं न दूषणमित्यर्थः / अत्र हेतुमाह- शब्देति, यथा 'वृक्षं वृक्षं सिञ्चति / इत्यत्र वृक्षशब्दस्याभ्यासात्= पुनरुत्यैव सेचनस्य सर्ववृक्षकर्मकत्वं प्रतीयते इति नात्र पुनरुक्तं दोषः, एवमन्यत्रापि बोध्यम् / उदाहरति- हेत्वपदेशादिति, सूत्रमिदं पूर्वत्र व्याख्या. तम्, यद्यपि यदेव प्रतिज्ञया प्रतिपाद्यते तदेव निगमनेनापि तथापि प्रतिज्ञावयवेन प्रतिज्ञायाः सिद्धिन प्रतीयते हेत्वादिभिः साधितत्वात्तु निगमनेन प्रतिज्ञायाः सिद्धिः प्रतीयते इति निगमनेन प्रतिज्ञायाः पुनरुक्तिरपि न दोषाय, एवमुपनयेपि वेदितव्यम्- हेतुवाक्येन साध्यव्याप्तिविशिष्टहेतोरुपसंहारो न प्रतीयते उपनयेन च प्रतीयते इत्युपनयेन हेतोः पुनरुक्तिर्न दोषायेत्यर्थः / / 14 // . पुनरुक्तस्य लक्षणान्तरमाह- अर्थादिति, अर्थात्= अर्थापत्त्या आपन्नस्य प्राप्तस्य स्वशब्देनतद्वाचकशब्देन यत् पुनर्वचनं तदपि पुनरुक्तं निग्रहस्थानं भवतीति सूत्रार्थः / व्याचष्टे- पुनरुक्तमिति, प्रकृतम्= पूर्वसूत्रादनुवर्तनीयमित्यर्थः / उदाहरति- उत्पत्तीति, यदा हि उत्पत्तिधर्मकमऽनित्यं भवति तदा
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ca7f1604e9069a5f72737cbece7f8545dad7d306ae42696c0149b73d00313c7a.jpg)
Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500