Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 496
________________ 465 प्रसन्नपदापरिशिष्टम् / पूर्वगुणस्य सिद्धिः= सत्ता भवति तत्र तद्विरुद्धस्य पाकजगुणस्योत्पत्तिर्जायते इत्यन्वयस्तथा च पूर्वगुणनाशानन्तरं तद्विरोधिगुणान्तरमुत्पद्यते इति प्राप्तं ततश्चोत्तरेण विरोधिना गुणेन पूर्वगुणनाशः सिद्ध इत्यर्थः / वस्तुतस्त्वत्र- 'यत्र पूर्वगुणनिवृत्तिस्तत्र पाकजोत्पत्तिः' इति किं वा- 'पाकजोत्पत्त्या तद्विरुद्धस्य पूर्वगुणस्य निवृत्तिदृश्यते' इति वक्तव्यमासीत् / 23 चतुर्थाध्यायप्रथमाह्निके 357 पृष्ठे. __ "न- अनित्यतानित्यत्वात् 4-1-26" इति सूत्रस्य ' अनित्यताया नित्यत्वात् / ' अनित्यताया अनित्यत्वात् / इत्युभयविधेनापि समासेनोक्तरीत्या पूर्वपक्षप्रत्याख्यानमभिप्रेतम् / . . 24 चतुर्थाध्यायप्रथमाह्निके 361 पृष्ठे “सर्व पृथक् 4-1-34" इतिसूत्रम्- बौद्धैर्यत् " स्वलक्षणं स्वलक्षणम्" इत्यादिवाक्येन जाति प्रत्याख्याय व्यक्तिमात्रस्य पृथक्त्वमुच्यते तस्यैवानुवादकमिति तर्कयामि- जात्यैव व्यक्तीनामैक्यसंभवाजातेश्च बौद्धैरस्वीकारात् , एवं च " लक्षणव्यवस्थानात् 4-1-36" इत्यग्रिमसूत्रे लक्षणशब्द आकृतिपर:- लक्ष्यतेऽनेनेति लक्षणमाकृतिः सा च जातिरेव जात्या च व्यक्तीनामभेदः संभवत्येव यथा गोत्वेन गोव्यक्तीनामित्येवं व्याख्येयम् / किं वैषु त्रिष्वपि सूत्रेषु लक्षणशब्द आकृतिपरस्तथा च " सर्व पृथक्-भावलक्षणपृथक्त्वात् 34" इत्यस्य 'भावलक्षणानाम्= पदार्थाकृतीनां पृथक्त्वात्= न हि सर्वासु गोव्यक्तिषु एकैवाकृतिर्विभाव्यते- प्रत्येकं गोव्यक्तिषु सूक्ष्मस्याकृतिभेदस्य स्पष्टत्वात्. अत एव समानवर्णास्वपि गोव्यक्तिषु व्यक्तिभेदे सति नेयं सा गौः' इति ज्ञानं जायते आकृतिभेदादेव एवमन्यत्रापि बोध्यम् , आकृतिष्वप्याकृत्यन्तरस्वीकारे चानवस्था' इत्यर्थः / “न- अनेकलक्षणैरेकभावनिष्पत्तेः 35" इतिसूत्रस्य च 'न सर्व पृथक्- अनेकलक्षणैः= अनेकाभिराकृतिभिः शृङ्गसास्नादिभिः किं वा अनेकासां गवादिव्यक्तीनां लक्षणैः= आकृतिभिः एकभावस्य= एकत्वस्य निष्पत्तेः= उपपत्तेः, यदि शृङ्गादिलक्षणमेकमेवाङ्गमाकृतिरित्युच्येत तदा तस्य प्रत्येक व्यक्तिषु विलक्षणत्वाद् व्यक्तीनां सर्वथा पार्थक्यं स्यादपि 'न चैवमुच्यते किं तु शृङ्गसास्नाद्यनेकाङ्गसंयोग आकृतिरित्युच्यते स तु सकलगोव्यक्तिष्वनुगत एवे. त्याकृत्या गोव्यक्तीनामैक्यमपि सिद्धम् एवमन्यत्रापि बोध्यम्' इत्यर्थः / भाष्यकारस्य च संज्ञाशब्दपरत्वेन लक्षणशब्दव्याख्यानं नातीव हृदयङ्गमं भवति- लक्षणशब्दस्यानुगतधर्मपरत्वात् / अवयविनस्तु प्रत्याख्यानं समाधानं च बहुत्र वर्तते इत्यस्मिन् प्रकरणे जात्यभावमाश्रित्य व्यक्तीनां सर्वथा पार्थक्यप्रतिपादनं तत्प्रत्याख्यानं च नूतनत्वात् महाप्रकरणानुरोधाच्च समञ्जसं भवति, अत्रैव च सूत्रकारस्याभिप्राय इति तर्कयामीत्यलम् // . 25 चतुर्थाध्यायप्रथमाह्निके 362 पृष्ठे “लक्षणव्यवस्थानात् 4-1-36" इतिसूत्रस्य भाष्ये चतुर्थपतौ- "यं कुम्भमद्राक्षं तं स्पृशामि" इति भाष्यम्. एषा च प्रत्यभिज्ञा परमाणुस.. मुदायातिरिक्तस्याऽऽकृतिविशेषविशिष्टस्य कुम्भस्याऽवयविनः स्वीकारपक्षे एव घटते- आकृतिविशेषस्यैव प्रत्यभिज्ञासंभवात् , अवयवसमूहपक्षे तु परमाणूनामाकृतिविशेषविशिष्टत्वाभावादप्रत्यक्षत्वाच्चैषा प्रत्या भिज्ञा न घटते इति अन्याशयः // छात्राणामुपयोगाय परिशिष्टं मया कृतम् / विदुषां तूपयोगाय न किंचिदिह विद्यते / // इतिश्रीः॥

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500