Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ 464 प्रसन्नपदापरिशिष्टम् / नाभिभवादनुपलब्धिर्वक्तुं शक्यते नान्यथा नेत्ररश्मेश्च न रात्रावप्युपलब्धिरिति नाऽभिभवस्तदनुपलब्धिकारणं किं त्वनुद्भूतरूपत्वमेवेत्याशयः / / 17 तृतीयाध्यायप्रथमाह्निके "त्वगव्यतिरेकात् 52" इतिसूत्रभाष्यान्ते 262 पृष्ठे द्वितीयपतौ " न च तेष्वसत्सु विषयग्रहणं भवतीति" इतिपाठस्तस्य- तेषु= पृथिव्यादिभूतेष्वसत्सु विषयग्रहणं न भवति सत्सु च भवतीत्यन्वयव्यतिरेकाभ्यां भूतानामपि विषयप्राहकत्वं स्यात् न चास्तीति न त्वचोप्युक्तान्वयव्यतिरेकाभ्यां सर्वविषयग्राहकत्वं संभवतीत्यन्वयः। 18 तृतीयाध्यायप्रथमाह्निके "गन्धत्वाद्यव्यतिरेकात्५७" इतिसूत्रभाष्यान्ते 266 पृष्ठे प्रथमपतौ . " असमानसाधनसाध्यत्वान्न" इतिपाठस्य स्थाने " असमानसाधनसाध्यत्वात् " इत्येवं नकाररहितोपि पाठ उपलभ्यते. अस्य चगन्धादिज्ञानानि असमानसाधनसाध्यत्वात् अनेकेन्द्रियजन्यत्वात् एकेन्द्रियजन्यत्वाभावात् ग्राहकान्तराणाम्= चक्षु दीन्द्रियाणां प्रयोजकानि= साधकानि भवन्तीति पञ्चेन्द्रियाणि सिद्धानीत्यर्थः / वस्तुतस्तु पूर्वपक्षिणा •न्धादीनां वैविध्यात् पञ्चाधिकेन्द्रियकल्पनापत्तिः प्रदर्शिता तन्निरासार्थमस्य पाठस्य स्थाने 'समानसाधनसाध्यत्वान्न' इत्येवं वक्तव्यमासीत् तस्य च- सर्वाणि गन्धग्रहणानि समानसाधनसाध्यत्वात् घ्राणलक्षणैकेन्द्रियजन्यत्वात् गन्धग्रहणाथै ग्राहकान्तराणाम्- इन्द्रियान्तराणां प्रयोजकानि न भवन्ति एवं रूपग्रहणानि चक्षुरतिरिक्तेन्द्रियप्रयोजकानि न भवन्ति एवं स्पर्शादिष्वपि योज्यमिति गन्धादीनां पञ्चत्वात् तद्ग्राहकाणीन्द्रियाण्यपि पञ्चैव सिध्यन्ति न न्यूनाधिकानीत्यर्थः / 19 तृतीयाध्यायप्रथमाह्निके 271 पृष्ठे . “विष्टं ह्यपरं परेण 66" इतिसूत्रस्य- यद्यपि संयोगः परस्परं भवति तथापि जलादीनां यो भागः पृथिव्यां प्रविष्टस्तेन पृथिवीसंयोगे सत्यपि तदतिरिक्तेन जलेन जलत्वेन गृह्यमाणेन पृथिवीसंयोगो नास्तीति न जलादौ पृथिव्यादिगुणानां गन्धादीनां संक्रमो येन जलादौ तदुपलब्धिप्रसङ्गः स्यादित्याशयः / / 20 तृतीयाध्यायद्वितीयाह्निके 314 पृष्ठे “यथोक्तहेतुत्वात् 40" इतिसूत्रभाष्यस्य टीकान्ते-- यद्यकृताभ्यागमदोषनिवृत्त्यर्थं फलभोक्तृत्वमपि मनस एव उच्यते तदा स आत्मैव न मन इत्येवमपि ज्ञानस्यात्मगुणत्वं सिद्धमितिशेषः / 21 तृतीयाध्यायद्वितीयाहिके " परिशेषात् 41" इतिसूत्रभाष्ये 314 पृष्ठे सप्तमपतौ "द्रव्यान्तरं न प्रसज्यते" इतिपाठस्य- ज्ञानाश्रयत्वयोग्यं द्रव्यान्तरं न प्रसज्यते= न शिष्यते- कालादिषु ज्ञानाश्रयत्वयोग्यत्वस्याऽसंभवात्. कालादीनां जडत्वेन प्रसिद्धत्वादित्यप्यर्थः संभवति / ___ 22 तृतीयाध्यायद्वितीयाह्निके "प्रतिद्वन्द्रिसिद्धः 51" इतिसूत्रस्य मध्यमपदलोपिसमासेन 'पाकजानां गुणानां प्रतिद्वन्द्विसिद्धेः= स्वप्रतिद्वन्द्रयनन्तरं सत्ताया अप्रतिषेधः' इत्येवमप्यन्वयः संभवति / वस्तुतस्त्वत्र " पाकजानामप्रतिषेधः" इत्यस्य स्थाने 'पाकजैः प्रतिषेधः' इत्येवं वक्तव्यमासीत् तथा च पाकविरुद्धैर्गुणैः पूर्वगुणानां प्रतिषेधः= विनाशो भवति-प्रतिद्वन्द्विसिद्धेः= परस्परं विरोधादित्यर्थः, शरीरे तु चेतनाविरोधी गुणो न जायते तथा च यदि चेतना शरीरधर्मः स्यात्तदा मृतशरीरेप्युपलभ्येत न चोपलभ्यते इति न शरीरधर्म इत्याशयः / अस्य सूत्रस्य 326 पृष्ठे " यावत्सु द्रव्येषु पूर्वगुणप्रतिद्वन्द्विसिद्धिस्तावत्सु पाकजोत्पत्तिदृश्यते" इतिभाष्यम्. अस्य- येषु घटादिद्रव्येषु पूर्वगुणस्य नीलादेः प्रतिद्वन्द्विनो रक्तादिरूपस्य या सिद्धिर्भवति तेषु सा पाकेन भवतीति पाकजस्य रक्तादिरूपस्य सिद्धिदृश्यते= उपपद्यते, किं वा यत्र प्रतिद्वन्द्विभूतस्य
Page Navigation
1 ... 493 494 495 496 497 498 499 500