Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 494
________________ प्रसन्नपदापरिशिष्टम् / 463 . 9 द्वितीयाध्यायप्रथमाह्निके "सेनावनवत् 36" इतिषट्त्रिंशत्संख्याकं सूत्रं तस्य भाष्ये 131 पृष्ठे पञ्चमपतो "कोयं समुदायः ?" इतिभाष्यपाठः, अत्र हि पूर्वपक्षिमते अवयवी तु नास्त्येव. न च परमाणवोपि समुदायरूपा:- तेषां समुदायाश्रयत्वात् तस्मात् पारिशेष्येण समुदायः संयोगरूप एव स्यादितिहेतोरेव समुदायस्य प्राप्तिरूपत्वम्= संयोगरूपत्वमुपवर्णितमिति प्रतिभाति / वस्तुतस्तु समूह एव समुदायः समुदायद्वये च द्वित्वं संभवत्येवेति विभाव्यम् / 10 द्वितीयाध्यायप्रथमाह्निके- " प्रत्यक्षेणाऽप्रत्यक्षसिद्धः 46" इतिसूत्रभाष्ययोरुत्तरसूत्रानुरोधात् गवयपदवाच्यत्वेन रूपेण वा गवयग्रहणं न व्याख्येयं किं तु गोसादृश्यविशिष्टत्वेन- यो गोसदृशः स गवय इति तथा च "गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणम्" इत्युपपन्नम् / 11 द्वितीयाध्यायप्रथमाह्निके "न- सामयिकत्वात् 55" इति सूत्रं तस्य भाष्ये 150 पृष्ठे तृतीयपतौ __“प्रयुज्यमानग्रहणाच्च समयोपयोगो लौकिकानाम्" इतिपाठस्तस्य- 'लौकिकानाम् जनानां समयज्ञानेन (शक्तिज्ञानेन) प्रयुज्यमानस्य= बोध्यमानस्य पदार्थस्य ग्रहणात्= ज्ञानेन समयस्योपयोगो विज्ञेयः' इत्येवं वान्वयः / 12 द्वितीयाध्यायप्रथमाह्निके "अनुवादोपपत्तेश्च६०” इतिसूत्रं तस्य भाष्ये 155 पृष्ठे द्वितीयपङ्गौ " पुनरुक्तदोषोऽभ्यासे न" इतिपाठस्तस्य- 'अभ्यासे पुनरुक्तदोषो न ' इत्येवं वान्वयः / __ 13 द्वितीयाध्यायप्रथमाह्निके " स्तुतिनिन्दा परकृतिः 64 " इति सूत्रे तस्य भाष्ये च " परकृतिः" इतिपाठस्तस्य- परस्य कृतिः= कर्म परकृतिर्यथात्र चरकाध्वयूणां प्रथमं पृषदाज्याभिघारणं तदन्येषां प्रथमं वपाभिधारणमिति परकृतिबोधकं वाक्यमपि परकृतिरित्युच्यते इत्यर्थः।। ___14 द्वितीयाध्यायद्वितीयाह्निके " तदनुपलब्धेः 19" इतिसूत्रस्य भाष्ये 181 पृष्ठे तृतीयपतौ.. " सेयमावरणोपलब्धिवदावरणानुपलब्धिरपि संवेद्यैवेति" इतिपाठः, यद्यप्यनेन भाष्येणाऽऽवरणानुपलब्धेरिवावरणोपलब्धेरपि वेद्यत्वं प्राप्तमिति सिद्धान्तप्रतिकूलमिव जातं तथाप्यावरणोपलब्धेवेद्यत्वेपि वेदनयोग्यत्वेपि वेदनं नास्त्येव किं वा शब्दावरणस्य वेदनं नास्त्येवेति शब्दावरणानुपलब्धिपक्ष एव प्रबलो जातः / किं वा घटाद्यावरणस्य कुड्यादेरुपलब्धिरस्ति शब्दावरणस्य तूपलब्धिर्नास्ति यदि शब्दावरणमपि स्यात्तदा घटाद्यावरणवदुपलभ्येत न चोपलभ्यते इति शब्दावरणस्याभावः सिद्ध इत्येवं व्यतिरेकेण व्याख्येयम् / 15 द्वितीयाध्यायद्वितीयाह्निके "विनाशकारणानुपलब्धेः३७” इतिसूत्रभाष्ये 190 पृष्ठे नवमपतौ "शब्दश्रवणानि शब्दाभिव्यक्तय इतिमतम्" इतिपाठः अत्र- श्रवणाभिव्यक्त्यो ऽभेदः संभवति- शब्दस्याभिव्यक्त्यनन्तरमेव श्रवणसंभवादिति 'शब्दाभिव्यक्त्या शब्दश्रवणानि' इत्येवं वक्तव्यमासीत् / एतदरे- “न तर्हि " इत्यादिपाठस्तस्य'विनाशकारणानुपलब्धेः शब्दस्यावस्थानं तेन च नित्यत्वं यदुच्यते तन्नोपपद्यते- शब्दश्रवणस्येव शब्दस्याप्यनित्यत्वसंभवात् / इत्यन्वयः। ... 16 तृतीयाध्यायप्रथमाह्निके द्विचत्वारिंशत्संख्याकस्य ...... "अभिव्यक्तौ चाभिभवात् 42" इतिसूत्रस्य- रात्रौ अभिभावकाभावकाले वा पदार्थस्याभिव्यक्तौ सत्यामेव अभिभावककालेऽभिभावके


Page Navigation
1 ... 492 493 494 495 496 497 498 499 500