Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 492
________________ // श्रीः॥ श्रीप्रसन्नपदाशेषं परिशिष्टेतिसंज्ञकम् / जिज्ञासूनां सुबोधार्थ करोत्येष सुदर्शनः // 0000000 1 प्रथमाध्यायप्रथमालिकस्य इन्द्रियार्थसंनिकोंत्सन्नेतिचतुर्थसूत्रभाष्ये 21 पृष्ठे 1-2 पकौ" तद् नामधेयशब्देन व्यपदिश्यते" इतिभाष्यम् , अस्य स्थाने " न तद् नामधेयशब्देन व्यपदिश्यते " इत्यपि पाठ उपलभ्यते, एतत्पाठपक्षे तु या प्रथम प्रत्यक्षलक्षणस्य शाब्देऽतिव्याप्तिरुपदर्शिता सा न तदितिग्रन्थेन निवर्त्यते इति ग्रन्थसंगतिर्विज्ञेया. तथा हि-शक्तिमहात् पूर्वमनन्तरं च यद् अर्थज्ञानम्= प्रत्यक्षं तद् नामधेयशब्देन न व्यपदिश्यते अर्थात् शाब्दबोधविषयो नामधेयशब्देन व्यपदिश्यते प्रत्यक्षविषयश्च व्यवहारातिरिक्तकाले मामधेयशब्देन नव्यपदिश्यते इति भेदादऽव्यपदेश्यत्वविशेषणघटितस्य प्रत्यक्षलक्षणस्य शाब्देऽतिव्याप्तिर्न संभवतीति तदर्थम् अव्यपदेश्यमितिविशेषणं सूत्रे प्रक्षिप्तमिति सारः। वस्तुतस्तु भाष्यमिदमसंगतमेव यतो नेतिपाठपक्षे पूर्वमतिव्याप्तिप्रदर्शनं व्यर्थ प्रसज्यते. नेतिपाठाभावपक्षे च पाठोयं पुनरुक्ततां प्राप्नोतीति विभावनीयम् / अग्रिमभाष्यालोचनेन तु नेतिपाठोऽशुद्ध एवेति भासते / शाब्दबोधत्वेन्द्रियार्थसंनिकर्षोत्पन्नत्वयोः सामानाधिकरण्यं तु 'दशमस्त्वमसि' इत्यादिवाक्यजन्ये स्वात्मप्रत्यक्षे विज्ञेयम् / किं च शब्दाजायमानत्वलक्षणे शाब्दबोधे इन्द्रियार्थसंनिकोंत्पन्नत्वस्याऽतिव्याप्तिर्नास्त्येवेति व्यर्थमेवेदं विशेषणम् / 2 प्रथमाध्यायप्रथमाह्निकस्य चतुर्थसूत्रभाष्ये 21 पृष्ठे 3 पड्तौ . " न चापतीयमानेन व्यवहारः" इतिभाष्यात् पूर्वम् "तस्य त्वर्थज्ञानस्याऽन्यः समाख्याशब्दो नास्तीति येन प्रतीयमानं व्यवहाराय कल्पते" इत्येवमपि पाठ उपलभ्यते, अस्य च भाष्यस्य पदार्थाः स्पष्टा एव वाक्यार्थसंगतिस्तु दुर्लभैव, अर्थज्ञानस्य= प्रत्यक्षस्य, कल्पते= कल्पेत / रसप्रत्यक्षस्य ‘रस इतिज्ञानम् ' इत्यादिवाक्यं विनाऽन्यो वाचकः शब्दो नास्ति- प्रत्यक्षादिशब्दानां सामान्यरूपेणैव प्रत्यक्षमात्रबोधकत्वात् विशेषरूपेण रसादिप्रत्यक्षाऽबोधकत्वाञ्च, अप्रतीयमानेन व्यवहारासंभवात् तादृशं रसादिप्रत्यक्षम् ‘रस इतिज्ञानम्' इत्यादिवाक्येन निर्दिश्यते एवं शब्देन व्यवदिश्यमानं सत् प्रत्यक्षं शाब्दं प्रसज्यते तद्व्यावृत्त्यर्थम् " अव्यपदेश्यम् " इतिविशेषणमितिसारः / एवं रूपादिप्रत्यक्षेष्वपि समन्वयः / वस्तुतस्त्वेवं शब्देन व्यपदिश्यमानत्वेपि प्रत्यक्षस्य क्षतिर्नास्तीति अव्यपदेश्यमितिविशेषणं व्यर्थमेव- अभिधेयत्वस्य केवलान्वयित्वस्वीकारात् / यदि शब्दार्थयोरभेदपक्षे पदार्थेन जायमानं प्रत्यक्षं शब्देनापि जातमेवेति शाब्दं प्रसज्यते तद्व्यावृत्त्यर्थमऽव्यपदेश्यमिति विशेषणम् ? तदापीदं विशेषणं व्यर्थमेव प्रतिभाति- शब्दार्ययोरभेदपक्षे शाब्दत्वनिवृत्तेरसंभवान् भेदपक्षे च शाब्दत्वप्रसक्तरेवाभावात् / 3 प्रथमाध्यायप्रथमाह्निकस्य चतुर्थसूत्रभाष्ये 22 पृष्ठे नवमपतौ " सर्वत्र प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसायः" इतिभाष्यानन्तरम् " पश्चान्मनसाऽनुव्यवसायः" इत्यपि भाष्यपाठ उपलभ्यते / पश्चात् बाह्येन्द्रियजन्यव्यवसायानन्तरम् , स्पष्टमन्यत् / 4 प्रथमाथ्यायद्वितीयाहिकाष्टमसूत्रभाष्ये " द्रव्यं छाया " इत्यद्वैतवेदान्तमतं बोध्यम्- अद्वैतिभिस्तमसो द्रव्यत्वस्वीकारात् छायायाश्च मतोरूपत्वात् / . .

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500