Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 484
________________ 453 निग्रहस्थाननिरूपणम् ] न्यायभाष्यम्। वर्णक्रमनिर्देशवन निरर्थकम् // 8 // यथा 'नित्यः शब्दः कचटतपानां जबगडदशत्वात् अभञ्घढधषवत्' इति, एवंप्रकार निरर्थकम्- अभिधानाभिधेयभावानुपपत्तौ अर्थगतेरभावाद वर्णाः क्रमेण निर्दिश्यन्ते इति॥८॥ परिषत्पतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमऽविज्ञातार्थम् // 9 // यद् वाक्यं परिषदा प्रतिवादिना च त्रिरभिहितमपि न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमऽतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थम्, अविज्ञातार्थमऽसामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानमिति // 9 // विशिष्टा क्रिया प्रतीयते, कालश्च कचिदस्तीत्येतावतोक्तो न तु विवक्षितो लक्षणे- पचेत यजेतेत्येवमादौ तद्योगाप्रतीतेः, अनेन लक्षणेन स्थीयते सुप्यते इत्यादीनामाख्यातानामऽसंग्रहः- कारकतत्संख्ययोरप्रतीतेः तत्संग्रहाय द्वितीयं लक्षणमाह- धात्वर्थमात्रं च कालाभिधानविशिष्टम् (इति) अभिधीयते इत्यभिधानम् / प्रयोगेष्विति- नाम्नो वाऽऽख्यातस्य वा तदर्थादभिद्यमानरूपा निपाताः, यथा समुच्चयविकल्पादिनामपदैः समुच्चयादयः समुञ्चेतव्याद् गमार्थादाख्यातार्थाद्वा भेदेनोच्यन्ते- तत्र षष्ठीप्रयोगात् तेषां समुच्चयो विकल्पो वेति नैवं चादयः स्वार्थान् नामार्थादाख्यातार्थाद्वा भेदेनाभिदधति, रूप्यन्ते= प्रतिपाद्यन्ते (इति) रूपाणि= अर्थाः नामार्थादाख्यातार्थाद्वाऽभिद्यमानं रूपम्= प्रतिपाद्यमानं येषां निपातानां ते तथोक्ताः। उपसृज्यमानाः समीपे% प्राक् प्रयुज्यमानाः क्रियावद्योतका उपसर्गाः, अवद्योतनं चोपलक्षणम्- अधिकार्था विपरीतार्थाश्वोपसर्गा गृह्यन्ते यथा- अभ्यागच्छति प्रतिष्ठते इत्यादिषु / " इति तात्पर्यटीका / अत्र तात्पर्यटीकानुसारेणाख्यातस्य 'क्रियाकारकसमुदायाभिधायि आख्यातम्। 'कारकसंख्याविशिष्टक्रियाकालयोगाभिधानाख्यातम् / 'कालाभिधानविशिष्टं यद् धात्वर्थमात्रं तदभिधायि आख्यातम्' इति लक्षणत्रयं संपन्नम् / सर्व तात्पर्यटीकायामिदं स्पष्टमित्यलम् // 7 // . " निरर्थकं लक्षयति-वर्णेति, ककारादयो वर्णाः क्रमेण यत्र निर्दिश्यन्ते तन्निरर्थकमिति सूत्रान्वयः। सर्व स्पष्टम् / व्याचष्टे- यथेति, अत्र" कचटतपानाम्" इतिपाठस्तु प्रकृतानुपयुक्त एव भाति / उपसंहरति-एवमिति, एवं वर्णनिर्देशस्य साध्यासाधकत्वान्निग्रहस्थानत्वम् / अस्य निरर्थकत्वे हेतुमाह- अभिषानेति, ये वर्णा एवं क्रमेण निर्दिश्यन्ते तेषां केनापि प्रकृतेन साधेनत्वादिपदार्थेन अभिधानाभिधेयभावस्य= वाच्यवाचकमावस्यानुपपत्तौ= अभावेन अर्थगतेः= प्रकृतार्थप्रतीतेरभावादिदं निरर्थकमित्यर्थः स्पष्टमन्यत् // 8 // अविज्ञाताथै लक्षयति-परिषदिति, यद् वाक्यं वादिना त्रिः= त्रिवारमभिहितम्= उच्चारितमपि परिषदा प्रतिवादिना चार्थतो न विज्ञायते तदविज्ञातं वाक्यमविज्ञातार्थ निग्रहस्थानमिति सूत्रान्वयः / व्याचष्टे- यदिति, उक्तरूपेणैवान्वयः / अस्याविज्ञातार्थत्वे हेतुमाह-श्लिष्टेति, श्लिष्टाः= अनेकार्थाः, शब्दा यत्र तत् श्लिष्टशब्दं वाक्यम् , अप्रतीतप्रयोगम्= अप्रसिद्धार्थकशब्दघटितं वाक्यम्, अतिद्रुतोच्चारितं च वाक्यं एतादृशवाक्यानामर्थप्रतीतिर्न भवतीति प्रसिद्धमेव अर्थप्रतीत्यजनकत्वाच निग्रहस्थानम्वाक्यस्य परं प्रत्यर्थप्रतीत्यर्थमेवोच्चार्यत्वादित्यर्थः 'वादिना त्रिरभिहितमपि यद्वाक्यमित्येवमादिना कारणेन परिषदा प्रतिवादिना चार्थतो न विज्ञायते तदविज्ञातार्थ निग्रहस्थानमित्यन्वयः / एतादृशवाक्यप्रयोगस्य कारणमाह- अविज्ञातार्थमिति, स्पष्टार्थवाक्येन साध्यसाधने सामर्थ्याभावे एवेदृशं वाक्यं खाऽसामर्थ्यगोपनाय प्रयुज्यते तस्य स्वासामर्थ्यगोपकत्वेपि साध्यसाधकत्वं न संभवतीति निग्रहस्थानत्वं वेदितव्यम् / यथा 'अच्युतः शब्दोऽनन्तत्वात् ' इत्यादि, अच्युतः= नित्यः, अनन्तत्वात्= अविनाशित्वादित्यर्थः सर्वाप्रसिद्धः // 9 //

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500