Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ 452 प्रसन्नपदापरिभूषितम्- [5 अध्याये. २आहिकेप्रकृतादादप्रतिसंबद्धार्थमर्थान्तरम् // 7 // ययोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां ब्रूयात्- 'नित्यः शब्दः अस्पर्शत्वादिति हेतुः ' हेतुर्नाम हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तपदम्. पदं च- नामाख्यातोपसर्गनिपाताः, अभिधेयस्य क्रियान्तरयोगाद् विशिष्यमाणरूपः शब्दो नाम, क्रियाकारकसमुदायः. कारकसंख्याविशिष्टक्रियाकालयोगाभिधायि आख्यातम्. धात्वर्थमात्रं च कालाभिधानविशिष्टम् , प्रयोगेष्वदभिद्यमानरूपा निपाताः, उपसृज्यमानाः क्रियाऽवद्योतका उपसर्गाः, इत्येवमादि. तदर्थान्तरं वेदितव्यम् // 7 // मेव भविष्यति प्रधानकार्यस्य सर्वस्यैव पक्षभूतत्वात् दृष्टान्तत्वेन प्रदर्शनीयानां घटादीनामनेकप्रकृतित्वस्य प्रत्यक्षत्वाञ्च तथा च समग्रस्य व्यक्तस्यैकप्रकृतित्वं न सेत्स्यति दृष्टान्तस्य भिन्न प्रकृतिकत्वसंभवादित्यर्थः / * पक्षान्तरमाह- अथेति, यदि च दृष्टान्तो नोच्येत ? तदापि प्रपञ्चे एकप्रकृतित्वं न सिध्यति- दृष्टान्ते हेत्वर्थस्य- साध्यव्याप्यत्वस्याप्रदर्शने हेतोः साधकभावानुपपत्तेः= साध्यसाधकत्वासंभवात् तथा च साध्याऽसाधकत्वेनानर्थक्यादेव हेतोः हेत्वन्तरं निग्रहस्थानं भवतीति सिद्धमित्यर्थः / अत्र- " हेतुः साधनम् अर्थः साध्यः तौ हेत्वर्थों निदर्शयति व्याप्यव्यापकभावेनेति निदर्शनः हेत्वर्थयोनिदर्शनो हेत्वर्थनिदर्शनो दृष्टान्तः" इतितात्पर्यटीका / अनिवृशम् प्राप्तम्, वादिन इतिशेषः / / 6 // अर्थान्तरं लक्षयति- प्रकृतादिति, प्रकृतार्थे= प्रकृतसाध्ये अप्रतिसंबद्धः= असंबद्धोऽर्थो यस्य तंत् अप्रतिसंबद्धार्थ वाक्यम् अर्थान्तरमिति सूत्रान्वयः / व्याचष्टे- यथोक्तेति, प्रवृत्ते इतिशेषः / अत्र" वादिजल्पे वितण्डायामित्यर्थः" इति तात्पर्यटीका / वादिप्रतिवादिनोः पूवोत्तरपक्षौ यदा प्रवृत्ती तदा हेतुतः साध्यसिद्धौ प्रकृतायां यदि 'नित्यः शब्दः- अस्पर्शत्वात्' इति साध्यं हेतुं चोक्त्वा साध्यसिद्धयुपयुक्तमनुक्त्वा हेतुर्नामेत्यादिकमप्रकृतार्थं वदति तदा वक्तुरर्थान्तरं नाम निग्रहस्थानं भव. तीति प्रघट्टकार्थः / प्रकृतमाह-नित्य इति / अत्रार्थान्तरमाह- हेतुर्नामेत्यादिना, धातोरिति पञ्चम्यतम् / प्रत्यये कृते इत्यन्वयः। कृदन्तपदमित्युक्तं तत्र पदं विभजते- नामेति, राम इत्यादि नामपदम् , पचतीत्यादि आख्यातपदम्, प्रादिकमुपसर्गपदम्, चादिकं निपातपदम् / नामलक्षणमाह- अभिधेयस्येति, यद्वाच्यार्थस्य क्रियया सहान्वयो भवति तद् नामेत्यर्थः, यथा 'रामो गच्छति' इत्यत्र रामपदार्थस्य कर्तृत्वेन गमनक्रियया योगात् 'रामः' इति विशिष्यमाणरूपः= प्रथमाविभक्त्यन्तरूपः शब्द एव नामपदमित्युच्यते. एवं 'रामेण' इत्यादौ तृतीयादिविभत्त्यन्तरूपः शब्दो नामपदमित्यनुसंधेयम् / आख्यातस्य लक्षणत्रयमाह- क्रियेत्यादिना, क्रियाकारकसमुदाय आख्यातपदम्, कारकसंख्याविशिष्टा या क्रियास्तस्याः कालयोगाभिधायि आख्यातम् , कालाभिधानविशिष्टं धात्वर्थमात्रं वाऽऽख्यातमित्यन्वयः / निपातलक्षणमाह-प्रयोगेष्विति, प्रयोगेषु अर्थात्= स्वार्थेन अभिद्यमानरूपाः= अभिद्यमानार्थाश्चादयो निपाताः। उपसर्गलक्षणमाह- उपेति, उप= समीपे सृज्यमानाः सन्तो ये क्रियाया अवद्योतकाः= प्रकृतक्रियायां किंचिदतिशयस्य द्योतकास्ते प्रादय उपसर्गा इत्यन्वयः / उपसंहरति- इत्येवमिति, इत्येवमादि यत् प्रकृताऽसंबद्धं तदर्थान्तरं वेदितव्यम् / अत्र- “तदेवमभिधेयस्य क्रियाविशेषयोगाद्विशिष्यमाणरूपः शब्दो नामेति / आख्यातस्वरूपमाह-क्रियाकारकसमुदाय इति, विषयेण विषयिणमुपलक्षयति. पचति पच्यते इत्येवमादयः शब्दाः क्रियां कारकम् = कर्तारं कर्म चाभिवदन्ति, तदेतल्लक्षणमसिद्धमतिव्यापकं च-न हि कर्ता कर्म वा आख्यातेनाभिधीयते-क्रियाक्षेपेणैव तयोः प्रतिलम्भात् अनन्यलभ्यस्य च शब्दार्थत्वात्. कर्तृकर्मणोश्च कारकान्तरेभ्यो भावनायामभ्यर्हिततमत्वेन तत्संख्याभिधाननियमादसिद्धं कारकाभिधानम, अतिव्यापक च-पाचकः पाक्य इत्यादे नोपि क्रियाकारकसमुदायाभिधायित्वात् , तदस्मिन् लक्षणेऽपरितुष्यन् लेक्षणान्तरद्वयेनाख्यातपदान्युपसंगृह्णाति- कारकसंख्याविशिष्टक्रियाकालयोषाभिधाय्याऽऽख्यातम् (इति) पचति पच्यते इत्यादौ कर्तुः कर्मणो वा संख्यया कालेन वर्तमानादिना
Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500