Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 482
________________ निग्रहस्थाननिरूपणम् ] न्यायभाष्यम् / तदेकप्रकृतीनां विकाराणां परिमाणात् पश्यामो व्यक्तमिदमेकप्रकृतीति / अस्य व्यभिचारेण प्रत्यवस्थानम्- नानाप्रकृतीनामेकप्रकृतीनां च विकाराणां दृष्टं परिमाणमिति / एवं प्रत्यवस्थिते आह- एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात् . सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते. तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्येकप्रकृतित्वमिति / तदिदमविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं भवति, सति च हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वान्निग्रहस्थानम् , हेत्वन्तर वचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपादीयते ? नेदं व्यक्तमेकप्रकृति भवति-प्रकृत्यन्तरोपादानात् , अथ नोपादीयते ?. दृष्टान्ते हेत्वर्थस्याऽनिदर्शितस्य साधकभावानुपपत्तेः आनर्थक्याद् हेतोरनिवृत्तं निग्रहस्थानमिति // 6 // भवति तथा च जगतोपि परिमाणात्= परिमितत्वादेककार्यत्वं सिद्धं यदि चानेककार्यत्वं स्यात्तदा कारणानामनेकत्वेनाऽपरिमितत्वात् तत्कार्यस्याप्यऽपरिमितत्वं स्यान्न तु परिमितत्वमित्यर्थः / उक्तम्य . शरावादिदृष्टान्तस्य हेतुमत्त्वमाह- दृष्टं चेति, प्रतिविकारम्= कार्यमाने शरावादौ परिमाणम्= परिमितत्वं हेतुर्दश्यते इत्यर्थः / उपनयमाह- अस्तीति, प्रतिव्यक्तम् सर्वेषु पृथिव्यादिभूतेषु / निगमनमाह- तदेकेति, तत्= तस्मात् / हेतुप्रतिषेधमाह- अस्येति, अस्य= उक्तानुमानस्य= हेतोः / हेतुव्यभिचारमाह-नानेति, नानाप्रकृतिष्वपि विकारेषु लाक्षाजलमृदाद्यनेकपदार्थनिर्मितेषु घटादिषु परिभितत्वं हेतुर्दश्यते इति हेतोर्व्यभिचारित्वं प्राप्तं तथा च परिमितत्वहेतुना प्रपञ्चस्यैकप्रकृतित्वं न सिध्यतीत्यर्थः / प्रकृतं हेत्वन्तरमाह- एवभिति, एवम्= उक्तप्रकारेण प्रत्यवस्थिते= हेतौ व्यभिचारदोषे प्रदर्शिते / उक्तहेतुं विशिनष्टि- एकेति, 'एकप्रकृतीनां विकाराणां परिमाणात्' इत्येतावन्मानं न हेतुः किं तु 'एकप्रकृतिसमन्वये सति विकाराणां परिमाणात् ' इतिहेतुरित्यर्थः, एकप्रकृतिसमन्वितत्वे सति परिमितत्वं हेतुरिति यावत् , अत्र प्रकृतिशब्दः स्वभावपरस्तथा च नानाप्रकृतीनां विकाराणां नानास्वभावत्वात् तत्रैकप्रकृतिसमन्वितत्वम्= एकस्वभाववत्त्वं नास्तीति नात्र विशिष्टहेतौ व्यभिचारित्वं दोषः, नानाप्रकृतिषु नानास्वभाववत्त्वमेकप्रकृतिषु चैकस्वभाववत्त्वं स्पष्टमेव, तथा च पूर्वोक्तहेतौ एकप्रकृतिसमन्वितत्वविशेषणप्रक्षेपाद् हेत्वन्तरं निग्रहस्थानं सिद्धम् / पक्षे व्यक्ते एकप्रकृतिसमन्वितत्वमाहसुखेति, प्रपञ्चे सुखदुःखमोहवत्त्वमेवैकप्रकृतिसमन्वितत्वं तदनेनोपनयः प्रदर्शितः, निगमनमाह- तत्रेति, तत्र प्रपञ्चे, प्रत्यन्तररूपसमन्वयाभावे सति= नानाप्रकृतिसमन्वितत्वाभावात एकप्रकृतित्वं सिद्धमित्यर्थः / प्रधाने यत् सुखदुःखमोहसमन्वितत्वं तदेव प्रपञ्चेपीति प्रपञ्चस्य प्रधानकार्यत्वं सिद्धम्, सुखदुःखमोहाश्च सामानाधिकरण्यादेकप्रकृतिरूपा एवेति न सुखादीनामनेकत्वेन स्वभावानेकत्वं शङ्कनीयम्- वैयधिकरण्ये सत्येव पदार्थानां भेदसंभवात् / अत्र- " एवं प्रत्यवस्थिते प्रतिवादिनि वादी पश्चात् परिमितत्वं हेतुं विशिनष्टि- एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनादिति, प्रकृतिः= स्वभावः= एकस्वभावसमन्वये सतीत्यर्थः, एकप्रकृतिसमन्वयं स्फुटयति-सुखदुःखमोहसमन्वितं हीदं सर्व व्यक्तं गृह्यते " इति तात्पर्यटीका / लक्षणं समन्वयति- तदिदमिति, " एकप्रकृतीनां विकाराणां परिमाणात्" इत्यविशेषेणोक्ते हेतौ, " नानाप्रकृतीनाम् " इत्यादिना प्रतिषिद्धे, “एकप्रकृतिसमन्वये सति" इत्यादिना विशेषम्= विशेषणं अवतो हेत्वन्तरं भवतीत्यन्वयः / हेत्वन्तरस्य निग्रहस्थानत्वकारणमाह-सतीति, हेत्वन्तरभावे= हेत्वन्तरप्रयोगे कृते पूर्वस्य हेतोः साध्यासाधकत्वादेव निग्रहस्थानत्वं भवति किंवा पूर्वस्य हेतोरसाधकत्वाद् हेत्वन्तरप्रयोगे कृते ताशहेत्वन्तर वादिनो निग्रहस्थानमापद्यते इत्यर्थः / एवं हेत्वन्तरप्रयोगे कृतेपि प्रकृतसाध्यस्याऽसिद्धिमाह- हेत्वन्तर वचने सतीति, हेत्वन्तरप्रयोगे कृतेपि यदि हेत्वर्थनिदर्शनः= व्याप्तिप्रदर्शको दृष्टान्त उच्यते ? तदापि प्रपञ्चे एकप्रतित्वम् प्रधानकार्यत्वं न सिध्यति- प्रकृत्यन्तरोपादानात्= प्रकृत्यन्तरस्य= प्रकृत्यन्तरकार्यस्य प्रदर्शनादित्यन्वयः, दृष्टान्तो हि पक्षापेक्षया पृथग् व्यक्तं च भविष्यति तादृशदृष्टान्तस्य च प्रकृतिः पार्थान्तर

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500