Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 487
________________ 456 प्रसन्नपदापरिभूषितम्- [5 अध्याये. २आहिकेविज्ञातस्य परिषदा त्रिरभिहितस्याप्य प्रत्युच्चारणमऽननुभाषणम् // 16 // विज्ञातस्य वाक्यार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदअत्युच्चारणं तदऽन: नुभाषणं नाम निग्रहस्थानमिति, अप्रत्युच्चारयन् किमाश्रयं परपक्षप्रतिषेधं ब्रूयात्? // 16 // __ अविज्ञातं चाज्ञानम् // 17 // विज्ञातार्थस्य परिषदा. प्रतिवादिना त्रिरभिहितस्य यदविज्ञानं तदज्ञानं निग्रहस्थानमिति, अयं खल्वविज्ञाय कस्य प्रतिषेधं ब्रूयादिति ? // 17 // उत्तरस्याप्रतिपत्तिरप्रतिभा // 18 // परपक्षप्रतिषेधः उत्तरं बद् यदा न प्रतिपद्यते ? तदा निगृहीतो भवति // 18 // कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः॥ 19 // यंत्र कर्तव्यं व्यासज्य कथां व्यवच्छिनत्ति- ' इदं मे करणीयं विद्यते तस्मिन्नवसिते ऽनुत्पत्तिधर्मकं नित्यं भवतीत्यर्थादेव प्राप्नोतीति तस्यार्थादापन्नस्य= ज्ञातस्य योभिधायकः शब्दः 'अनुत्पत्तिधर्मकं नित्यम्' इति तेन स्वब्देन तद्वाचकशब्देन यद्वचनं तत् पुनरुक्तं वेदितव्यमित्यन्वयः / अस्य पुनरुक्तत्वे हेतुमाह- अर्थसंप्रत्ययार्थे इति, शब्दप्रयोगो पर्थप्रतीत्यर्थमेव भवति सोर्थः= अनुत्पत्तिधर्मकस्य नित्यत्वं च ‘उत्पत्तिधर्मकमनित्यम्' इत्युक्तेऽर्थापत्त्यैव प्रतीतो भवत्येवेति तस्य प्रतीतस्यापि यत् पुनः 'अनुत्पत्तिधर्मकं नित्यम्' इतिशब्देन वचनं तत् पुनरुक्तमेवेत्यर्थः // 15 // ___ अननुभाषणं लक्षयति- विज्ञातस्येति, परिषदा- मध्यस्थैर्विज्ञातस्य प्रतिवादिना त्रिः= त्रिवारमभिहितस्य= उच्चारितस्यापि वाक्यस्यार्थतः पाठतो वा यदप्रत्युञ्चारणं तदननुभाषणं नाम निग्रहस्थानं वेदितव्यमिति सूत्रान्वयः / प्रतिवादिनोक्तमनूद्य तत्खण्डनं कर्तव्यमिति वादमर्यादा तत्र प्रतिवादिनोक्तस्याऽनुश्चारणे वादी निगृहीतो भवतीत्याशयः / यदि च प्रतिवाद्युक्तस्य मध्यस्थानां ज्ञानं न जायते तदा तु प्रतिवादिनो वक्तुरेव दोष: संभाव्यते इति न तदऽननुश्चारणेपि निग्रहस्थानापत्तिरित्यनुसंधेयम् / व्याचष्टे-विज्ञातस्येति / प्रतिवादिना त्रिरभिहितस्य परिषदा च विज्ञातस्य वाक्यार्थस्य यदप्रत्युञ्चारणं तदननुभाषणं निग्रहस्थानमित्यन्वयः / अस्य निग्रहस्थानत्वे कारणमाह- अप्रत्युच्चारयन्निति, प्रतिवादिनोक्तमनूद्य हि तत्खण्डनं कर्तव्यमिति वादमर्यादा तत्र प्रतिवादिनोक्तस्याऽनुच्चारणे तत्खण्डनं न संभवति तथा च निगृहीतो भवतीत्यर्थः // किमाश्रयम्= कं प्रतिपक्षमालम्ब्येत्यर्थः // 16 // ___अज्ञानं लक्षयति- अविज्ञातमिति, भावे क्तः, प्रतिवादिनोक्तस्य यदविज्ञानं तंदज्ञानं नाम निग्रहस्थानमिति सूत्रान्वयः / ब्याचष्टे-विज्ञातार्थस्येति, परिषदा विज्ञातस्याप्यर्थस्य प्रतिवादिना च त्रिरभिहितस्यापि यदज्ञानं तदज्ञानं नाम निग्रहस्थानमिति पूर्ववदेवान्वयः, अन्यत् सर्व स्पष्टम् / अस्य निग्रहस्थानत्वे कारणमाह- अयमिति, अयं वादी प्रतिवादिनोक्तस्याज्ञाने तस्य खण्डनं कर्तुं न शक्नोतीति हेतोरज्ञानं निग्रहस्थानम् , ज्ञातस्यैव प्रतिषेधः संभवतीति स्पष्टमेव / एवं वादिना त्रिरभिहितस्या प्रतिवादिना प्रत्युञ्चारणाभावे विज्ञानाभावे च प्रतिवादिनोपि यथाक्रममेतन्निग्रहस्थानद्वयं विज्ञेयम् // 17 // ___ अप्रतिभानामकं निग्रहस्थानं लक्षयति- उत्तरस्येति, उत्तरस्य= परपक्षखण्डनस्याऽप्रतिपत्तिः अस्फुरणम् अप्रतिभानामकं निग्रहस्थानं वेदितव्यमिति सूत्रान्वयः / व्याचष्टे- परपक्षेति, तत्= उत्तरम् , न प्रतिपद्यते= न स्फुरति, उत्तरस्याऽवक्ता निगृहीतो भवतीति स्पष्टमेव // 18 // विक्षेपं लक्षयति- कार्येति, वादातिरिक्तस्य वादविघ्नकरस्य च कार्यस्य व्यासङ्गात् अनुरोधात्= व्याजेन यः कथायाः= वादजल्पवितण्डानां मध्येऽन्यतमस्य विच्छेदः= परित्यागः स विक्षेपो निग्रहस्थानमिति सूत्रार्थः / व्याचष्टे- यत्रेति, कर्तव्यं व्यासज्य= कर्तव्यव्यासङ्गात्= कार्यान्तर व्याजात्। कथा

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500