Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ 458 प्रसन्नपदापरिभूषितम्- [5 अध्याये. २आह्निकेअनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः // 22 // निग्रहस्थानलक्षणस्य मिथ्याध्यवसायादऽनिग्रहस्थाने 'निगृहीतोसि' इति परं ब्रुवन् निरनुयोज्याऽनुयोगाद निगृहीतो वेदितव्य इति // 22 // सिद्धान्तमभ्युपेत्या नियमात् कथाप्रसङ्गोऽपसिद्धान्तः॥२३॥ कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययात्= अनियमात् कथां प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यो यथा- 'न सदाऽऽत्मानं जहाति= न सतो विनाशः, नाऽसदाऽऽत्मानं लभते= नाऽसदुत्पद्यते' इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयति- एकप्रकृतीदं व्यक्तम्विकाराणामन्वयदर्शनात् . मृदन्वितानां शरावादीनां दृष्टमेकप्रकृतित्वं तथा चायं व्यक्तभेदः सुखदुःखमोहसमन्वितो दृश्यते तस्मात् समन्वयदर्शनात् सुखादिभिरेकमकृतीदं विश्वमिति / . एवमुवानऽनुयुज्यते-अथ प्रकृतिविकार इति कथं लक्षितव्यम् ? इति, यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते सा प्रकृतिः. यच्च धर्मान्तरं प्रवर्तते स विकार इति / सोऽयं प्रतिज्ञातार्थविपर्ययात्= अनियमात् कयां प्रसञ्जयति= प्रतिज्ञातं खल्वनेन- नाऽसदाविर्भवति न सत्तिरो भवति' इति / सदसतोश्च तिरोभावाऽऽविर्भावमऽन्तरेण न कस्यचित् प्रवृत्तिः प्रवृत्त्युप निरनुयोज्यानुयोगं लक्षयति- अनिग्रहेति, अनिग्रहस्थाने= निग्रहस्थानप्राप्तेरभावे निग्रहस्थानाऽभियोगः= निग्रहस्थानप्राप्तिकथनमेव निरनुयोज्यानुयोगो नाम निग्रहस्थानम् , निरनुयोज्यस्य= अनुयो. ज्यातिरिक्तस्याऽनुयोगो निरनुयोज्यानुयोग इति सूत्रान्वयः / ब्याचष्टे- निग्रहस्थानेति, निग्रहस्थानस्य यदुक्तं लक्षणं तस्य मिथ्याध्यवसायात मिथ्यानिश्चयात्= निग्रहस्थानभ्रान्त्येत्यर्थः / अनेन निरनुयोज्यानुयोगस्य कारणमुक्तम् / अनिग्रहस्थाने= निग्रहस्थानाभावेपि। स्पष्टमये // 22 // __ अपसिद्धान्तं लक्षयति- सिद्धान्तमिति, कंचित् सिद्धान्तमभ्युपेत्याऽनियमात्= तादृशसिद्धान्तविरुद्धो यः कथाप्रसङ्गः वादारम्भः सोऽपसिद्धान्त इतिसूत्रान्वयः, उदाहरणं भाष्ये द्रष्टव्यम् / व्याचष्टेकस्य चिदिति, स्वसिद्धान्तानुकूलं तथाभावम् तादृशस्वरूपं तादृशधर्मवत्त्वं वा प्रतिज्ञायेत्यन्वयः, अनियमात= विपर्ययात्= विरोधात्। प्रथमं सिद्धान्तस्वीकारमुदाहरति- यथेति / उक्तं व्याचष्टे-न सत इति / द्वितीयसिद्धान्तमाह- नाऽसदिति, एतदपि व्याचष्टे- नाऽसदुत्पद्यते इति, तदेद्बहुधाव्याख्यातम् , इतिसिद्धान्तम् उक्तं साख्यसिद्धान्तम् / अनियमात् कथाप्रसङ्गमुदाहरति- एकप्रकृतीदमिति, इदं व्यक्तम्= जगत् एकप्रकृति= एककार्यम्= प्रधानकार्यमित्यर्थः / हेतुमाह-विकाराणामिति, विकाराणाम्= कार्यमात्रस्य सुखदुःखमोहै: अन्वयः= समन्वयो दृश्यते स च प्रधानकार्यत्वे एवोपपद्यते-प्रधानस्य त्रिगुणात्मकत्वेन सुखदुःखमोहात्मकत्वादित्यर्थः / दृष्टान्तमाह- मृदन्वितानामिति, मृन्मयाणामित्यर्थः, एकप्रकृतित्वम्= मृदेककार्यत्वं दृष्टम् / उपनयमाह- तथा चायमिति, व्यक्तभेदः= जडपदार्थजातम् / निगमनमाह- तस्मादिति, सुखादिभिः= सुखदुःखमोहैः समन्वयदर्शनाद्विज्ञायते इदं विश्वम्= जगत् एकप्रकृति प्रधानकार्यमित्यन्वयः, पूर्वमप्युपपादितमेतत् षष्ठसूत्रे इत्यलम् / / - अपसिद्धान्तमुपक्रमते- एवमिति / अनुयुज्यते= पृच्छयते / प्रष्टव्यमाह- अथेति, पूर्वत्र प्रधानप्रपञ्चयोः प्रकृतिविकारभावः= कारणकार्यभाव उक्तस्तत्र इयं प्रकृतिरयं च विकार इति कथं लक्षितव्यमित्यन्वयः, प्रकृतिविकारयोर्लक्षणं वक्तव्यमिति प्रश्न इत्यर्थः / प्रकृतिलक्षणमाह- यस्येति, यस्य पदार्थस्य, यथा मृदोऽवस्थितायाः धर्मान्तरनिवृत्तौ शरावाद्याकृतिनिवृत्स्यनन्तरं धर्मान्तरम्= घटाद्याकृति: प्रवतते= प्रादुर्भवतीति सा मृत् प्रकृतिः एवं प्रधानमपि प्रकृतिः। विकारलक्षणमाह- यच्चेति, धर्मान्तरम् आकृतियर्या प्रवर्तते निवर्तते वा स विकार इति / अत्र सिद्धान्तविरुद्धं कथाप्रसङ्गमाह- सोयमिति /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5487e1d7794a6839cf0b8dfd6bb68b03511b8b2e6ed0b64fdc144e5d507eb649.jpg)
Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500