Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ निग्रहस्थाननिरूपणम् ] न्यायमाज्यम् / 457 पश्चात् कथयिष्यामि' इति (तत्) विक्षेपो नाम निग्रहस्थानम् / एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यते इति // 19 // ___ स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा // 20 // यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्य= अनुद्धृत्य वदति- ' भवत्पक्षेपि समानो दोषः' इति. स स्वपक्षे दोपाभ्युपगमात् परपक्षे दोषं प्रसञ्जयन् परमतमऽनुजानातीति मतानुज्ञानाम निग्रहस्थानमापद्यते इति // 20 // निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् // 21 // पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः. तस्योपेक्षणम्= 'निग्रहस्थानं प्राप्तोसि' इत्यऽननुयोगः / एतच्च ‘कस्य पराजयः ?' इत्यनुक्तया परिषदा वचनीयम्- - जल निग्रहं प्राप्तः स्वकौपीनं विवृणुयादिति // 21 // विच्छेदमुदाहरति- इदमिति, अवसिते= समाप्ते, इति= इत्येवं कार्यान्तर व्याजेन यः कथाविच्छेदः= शास्त्रार्थपरित्यागः स विक्षेपो नाम निग्रहस्थानमित्यन्वयः / अस्य निग्रहस्थानत्वे कारणमाहएकनिप्रहेति, अत्र " कथान्तरम्" इत्यत्र 'कथान्तम्' इतिपाठो युक्तः प्रतिभाति, वादिप्रतिवादिनोर्मध्ये एकतरस्य यावन्निग्रहो न भवति तावत्पर्यन्तं कथा प्रसरतीत्येकनिग्रहावसाना कथा तत्र कथाविच्छेदे कृते कथा स्वयमेवान्तं प्रतिपद्यते= प्राप्नोतीति कथाविच्छेदकारी निगृहीतो भवतीत्यर्थः / अत्यावश्यककार्येण कथाविच्छेदस्तु न निग्रहस्थानं किं तु स्वकीयस्य प्रतिषेधासामर्थ्यस्य गोपनार्थ यः कथाविच्छेदः स एव निग्रहस्थानमिति विवेकः, स्पष्टमन्यत् // 19 // . मतानुज्ञां लक्षयति- स्वपक्षे इति, परेण प्रदर्शितं स्वपक्षदोषमभ्युपगम्य यः परपक्षे दोषप्रसङ्गः दोषप्रदर्शनं तद् मतानुज्ञानामकं निग्रहस्थानं भवति, मतस्य= परेण प्रदर्शितस्य दोषस्यानुज्ञा= स्वीकारः, परप्रदर्शितदोषस्य निरासः कर्तव्यः स न कृत इति निग्रहस्थानमिति सूत्रार्थः / व्याचष्टेय इति, चोदितम्= प्रदर्शितम् / परपक्षदोषप्रसङ्गमाह- भवदिति / निर्वक्ति- परमतमिति, स्वपक्षे परकृतदोषप्रदर्शनमित्यर्थः, यथा- आत्मनोऽणुत्वं नोपपद्यते इत्युक्ते विभुत्वमपि नोपपद्यते इतिवचनम् , स्पष्टं सर्वम् , // 20 // ___पर्यनुयोज्योपेक्षणं लक्षयति-निग्रहस्थानेति, प्रतिवादिनो निग्रहस्थानं प्राप्तस्याऽनिप्रहः= निप्र. हस्थानप्राप्तेरकथनं पर्यनुयोज्योपक्षणं नाम निग्रहस्थानं वेदितव्यमिति सूत्रान्वयः / व्याचष्टे- पर्यनुयोज्य इंति, निग्रहोपपत्त्या= निग्रहस्थानप्राप्तिविषयकनिर्देशेन यश्चोदनीयः= वक्तव्यः स पर्यनुयोज्य इत्यर्थः, तस्योपेक्षणपदार्थमाह- निग्रहस्थानमिति / अननुयोगः- अकथनम् / पर्यनुयोज्योपेक्षणदोषप्रदर्शनं हि मध्यस्थकार्यमित्याह- एतच्चेति, एतत्= पर्यनुयोज्योपेक्षणम् , ' कस्य पराजयो जातः' इत्यनुयुक्तया पृष्टया पराजयावधारणे नियुक्तया परिषदा मध्यस्थेन वक्तव्यमस्ति न तु वादिप्रतिवादिभ्याम् / उक्ते हेतुमाह- न खल्विति, पर्यनुयोज्योपेक्षणदोषेण निग्रहं प्राप्तस्तु न स्वकौपीनम्= स्वकीय पर्यनुयोज्योपेक्षणलक्षणदूषणं विवृणुयात्= प्रकाशयेत्= वक्तुमर्हति- स्वदोषस्य वक्तुमशक्यत्वादिति, किं वा यो निग्रहं प्राप्तस्तेनैव स्वस्मिन् प्राप्तस्य निग्रहस्य यत् परेणोपेक्षणं तन्न वक्तव्यं संभवति- परस्मिन् पर्यनुयोज्योपेक्षणदोषप्रदर्शनेन स्वस्मिन् निग्रहप्राप्तिः प्रदर्शिता स्यात् न चैवं संभवति- परदोषप्रदर्शनार्थमपि स्वदोषप्रदर्शनस्थासंभवादित्यर्थस्तस्मात् पर्यनुयोज्योपेक्षणदोषप्रदर्शनं मध्यस्थकार्यमेवेत्यर्थः / पर्यनुयोज्योपेक्षणे वादिप्रतिवादिनोईयोरपि दोष इत्यनुसंधेयम् // 21 // 18
Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500