Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 480
________________ निग्रहस्थाननिरूपणम् ] न्यायभाष्यम्। 449 'यद्यैन्द्रियकं सामान्यं नित्यम् ? कामं घटो नित्योस्तु' इति, स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन् निगमनान्तमेव पक्षं जहाति. पक्षं जहत् प्रतिज्ञां जहातीत्युच्यते- प्रतिज्ञाश्रयत्वात् पक्षस्येति // 2 // प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तरम् // 3 // ___ प्रतिज्ञातार्थ:- 'अनित्यः शब्द ऐन्द्रियकत्वाद् घटवत्' इत्युक्ते योऽस्य प्रतिषेधःप्रतिदृष्टान्तेन हेतुव्यभिचारः- 'सामान्यमैन्द्रियकं नित्यम् ' इति तस्मिंश्च प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पादिति= दृष्टान्तप्रतिदृष्टान्तयोः साधर्म्ययोगे धर्मभेदात्= सामान्यमैन्द्रियकं सर्वगतम् ऐन्द्रियकस्त्वऽसर्वगतो घट इति धर्मविकल्पात्. तदर्थ निर्देश इति साध्यसिद्धयर्थम् / कथम् ? यथा घटोऽसर्वगत एवं शब्दोप्यसर्वगतो घटवदेवानित्य इति, तत्र- 'अनित्यः शब्दः' इति पूर्वा प्रतिज्ञा. 'असर्वगतः' इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम् / तत् कथं निग्रहस्थानमिति, न प्रतिज्ञायाः साधनं प्रतिज्ञान्तरं किं तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः, तदेतदेऽसाधनोपादानमऽनर्थकमिति. आनथेक्यान्निग्रहस्थानमिति // 3 // अनित्यत्वं तत्प्रत्यनीकेन धर्मेण नित्यत्वेन दृष्टमित्यादिरूपेण प्रत्यवस्थिते सति प्रतिदृष्टान्तधर्मम्= सामान्यधर्म नित्यत्वं स्वदृष्टान्ते घटे स्वीकरोति तेन घटवत् शब्दस्यापि नित्यत्वं प्राप्नोति तथा च शब्दानित्यत्वप्रतिज्ञाया हानिर्भवतीति प्रतिज्ञाहानिरिति लक्षणसमन्वयः। उपसंहरति- स खल्वयमिति, अयम्= प्रथमपक्षवादी, साधकस्य अनित्यत्वसाधकस्य दृष्टान्तस्य= घटस्य, नित्यत्वं प्रसञ्जयन्= स्त्रीकुर्वन् , अत्र घटस्य नित्यत्वे स्वीकृते पूर्वोक्तानां निगमनान्तानां पञ्चानामपि प्रतिज्ञाद्यवयवानां हानिर्जातेत्यनुसंधेयम् / प्रतिज्ञाहानिमाह-पक्षमिति / पक्षहानौ प्रतिज्ञाहान्यापत्त्यां हेतुमाह-प्रतिज्ञाश्रयत्वादिति, पक्षस्य= स्वपक्षस्य प्रतिज्ञाश्रयत्वात्= प्रतिज्ञाया आश्रयत्वात्= प्रतिज्ञा पक्षनिष्ठेति पक्षहान्या प्रतिज्ञाहानिरुपलब्धेत्यन्वयः, स्पष्टमन्यत् // 2 // - प्रतिज्ञान्तरं लक्षयति-प्रतिज्ञातार्थेति, प्रतिज्ञातार्थस्य= शब्दानित्यत्वस्य परेण प्रतिषेधे कृते= हेतोः साध्यव्यभिचारित्वे प्रदर्शिते धर्मविकल्पात्= दृष्टान्तप्रतिदृष्टान्तयोर्धर्मभेदात्= यथा दृष्टान्तस्य घटस्याऽसर्वगतत्वं धर्मः प्रतिदृष्टान्तस्य सामान्यस्य च सर्वगतत्वं धर्म इति तद्भेदात् तदर्थम्= दृष्टान्तधर्मस्याऽसर्वगतत्वस्य साधनार्थम्= दृष्टान्तगतधर्मान्तरसाधनार्थ किं वा प्रतिज्ञातार्थसाधनाथै यो निर्देशः तत् प्रतिज्ञान्तरमिति सूत्रान्वयः / व्याचष्टे- प्रतिज्ञातार्थ इति, अत्र 'प्रतिज्ञातार्थे ' इति वक्तव्यमासीत् / उदाहरति- अनित्य इति, इत्युक्ते प्रतिज्ञातार्थे इत्यन्वयः / अस्य= प्रतिज्ञातार्थस्य शब्दानित्यत्वस्य / प्रतिषेधपदार्थमाह- प्रतिदृष्टान्तेनेति, ऐन्द्रियकत्वस्य हेतोरनित्यत्वाभाववति सामान्ये वृत्तित्वादनित्यत्वव्यभिचारित्वं प्राप्तं तदेतदुदाहरति- सामान्यमिति / संकलयति- तस्मिन्निति / धर्मविकल्पपदार्थमाह- दृष्टान्तेति, दृष्टान्तप्रतिदृष्टान्तयोः= घटसामान्ययोः, साधर्म्ययोगे= हेतुमत्त्वे ऐन्द्रियकत्वयोगे सति / धर्मभेदमाह- सामान्यमिति, सामान्यं गोत्वादि सर्वगतं घटश्वासर्वगत इति दृष्टान्तप्रतिदृष्टान्तयोधर्मभेदः, तदर्थम्= प्रतिज्ञातार्थसिद्धयर्थम्= शब्दानित्यत्वसिद्धयर्थम् असर्वगत्वनिर्देश इत्यन्वयः, तदर्थमिति सूत्रपदं व्याचष्टे- साध्यसिद्धयर्थमिति, तदर्थे निर्देश इत्यस्य साध्यसिद्धयर्थं निर्देश इत्यर्थः / असर्वगतत्वनिर्देशेन शब्दानित्यत्वसिद्धेः प्रकारं जिज्ञासते- कथमिति / उत्तरमाह- यथेति, शब्दघटयोरसर्वगतत्वेन साधादनित्यत्वेनापि साधर्म्य सिद्धमिति शब्दानित्यत्वं सिद्धम् , शब्दसामान्ययोस्तु सर्वगतत्वासर्वगतत्वाभ्यां वैधान्न सामान्यवत् शब्दस्य नित्यत्वापत्तिरित्यर्थः / उपसंहरति- तत्रेति / प्रतिज्ञान्तरस्य निग्रहस्थानत्वकारणं जिज्ञासते- तदिति, प्रतिज्ञान्तरस्य निग्रहस्थानत्वे एकस्मिन् जन्मन्येकविषयकमेकमेवानुमानं स्यादित्याशयः / उत्तरमाह- नेति / प्रतिज्ञासाधनमाह- किं त्विति /

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500