Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ 445 षट्पक्षीनिरूपणम् ] न्यायभाष्यम् / प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा // 42 // प्रतिषेधम्= द्वितीयं पक्षं सदोषमभ्युपेत्य= तदुद्धारमनुक्त्वाऽनुज्ञाय प्रतिषेधविप्रतिषेधेतृतीयपक्षे समानमऽनैकान्तिकत्वमिति समानं दूषणं प्रसजतो दूषणवादिनो मतानुज्ञा प्रसज्यते इति पञ्चमः पक्षः // 42 // स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युप गमात् समानो दोषः // 43 // स्थापनापक्षे "प्रयत्नकार्यानेकत्वात् " इतिदोषः प्रतिषेधहेतुवादिनः स्वपक्षलक्षणो भवति, कस्मात् ?, स्वपक्षसमुत्थत्वात् , सोयं स्वपक्षलक्षणं दोषमपेक्षमाणोऽनुहत्य= अनुज्ञाय "प्रतिषेधेपि समानो दोषः 39" इत्युपपद्यमानं दोषं परपक्षे उपसंहरति, इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति, तत्र स्वपक्षलक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे कान्तिकत्वदोषप्रदर्शनं चतुर्थः पक्षः इत्यर्थः / तत्र " प्रतिषेधेपि समानो दोषः 39" इतिसूत्रेण तृतीयः पक्षः प्रदर्शितः, " प्रतिषेधविप्रतिषेधे” इत्यनेन च सूत्रेण चतुर्थः पक्षः प्रदर्शितः // 41 // पञ्चमपक्षमाह- प्रतिषेधमिति, प्रतिषेधविप्रतिषेधे= "प्रतिषेधेपि समानो दोष: 39" इत्यनेन प्रदर्शिते तृतीयपक्षे समानदोषप्रसजनेन द्वितीयपक्षस्वीकारः प्राप्नोतीति सदोषम् " प्रयत्नकार्यानेकत्वात् कार्यसमः 37" इत्यनेन प्रदर्शितं प्रतिषेधम्= द्वितीयपक्षं स्वीकृत्य प्रतिषेधविप्रतिषेधे= तृतीयपक्षे द्वितीयपक्षसमदोषप्रसञ्जने चतुर्थपक्षधारिणो द्वितीयपक्षस्वीकारापत्त्या मतानुज्ञानामकं निग्रहस्थानं प्राप्नोतीति मतानुज्ञा= मतानुज्ञाप्रदर्शनं पञ्चमः पक्ष:- चतुर्थपक्षानन्तरं प्राप्तत्वादिति सूत्रार्थः / व्याचष्टेप्रतिषेधमिति, अभ्युपेत्यपदस्यार्थमाह- तदिति, तदुद्धारम्= द्वितीयपक्षोद्धारम् अनुक्त्वा= द्वितीयपक्षदूषणस्याऽनिराकरणेन तत्स्वीकारः प्राप्त इति सदोषं द्वितीयपक्षमनुज्ञाय= स्वीकृत्येत्यर्थः, / दूषणवादिनः= तृतीयपक्षदूषणवादिनः चतुर्थपक्षधारिणः, चतुर्थपक्षधारिणि मतानुज्ञादोषप्रदर्शनं पञ्चमः पक्ष इत्यर्थः स्पष्टमन्यत् // 42 // षष्ठपक्षमाह- स्वपक्षेति, स्वपक्षः= प्रथमः पक्षस्तेन लक्ष्यते= उत्थाप्यते इति स्वपक्षलक्षणा जाति:= द्वितीयः पक्षस्तदपेक्षः स्वपक्षलक्षणापेक्षः= तृतीयः पक्षस्तस्योपपत्तिमुपसंहरतीति स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारस्तादृशे हेतुनिर्देशे= तृतीयपक्षस्वीकर्तरि पञ्चमपक्षे परपक्षदोषाभ्युपगमात्= तृतीयपक्षदोषाऽनुद्धारेण तत्स्वीकारात् समानः= चतुर्थपक्षे इव मतानुज्ञालक्षणो दोष इति पञ्चमपक्षेपि मतानुज्ञादोषप्रदर्शनं षष्ठः पक्ष इतिसूत्रार्थः। अत्र- "स्वपक्षेण लक्ष्यते तदुत्थानत्वाज्जातिः स्वपक्षलक्षणा= अनैकान्तिकत्वोद्भावनलक्षणा" इतितात्पर्यटीका / व्याचष्टे- स्थापनापक्षे इति, 'अनित्यः शब्दः' इतिप्रथमपक्षे इत्यर्थः, प्रतिषेधहेतुवादिनः= द्वितीयपक्षधारिणः, अत्र " स्थापनाहेतुवादिनः" इतिपाठस्त्वसङ्गतः / स्वपक्षलक्षणः= स्वपक्षलक्षणसंज्ञकः पक्षो भवतीत्यर्थः, तदेतदेकचत्वारिंशत्सूत्रे स्पष्टम् / उक्ते द्वितीयपक्षस्य स्वपक्षलक्षणत्वे हेतुं जिज्ञासते- कस्मादिति / हेतुमाह- स्वपक्षेति, स्वपक्षसमुत्थत्वात्= प्रथमपक्षमाश्रित्योत्पन्नत्वाद् द्वितीयः पक्षः स्वपक्षलक्षण इत्युच्यते इत्यर्थः / पष्ठपक्षमुत्थापयति- सोयमिति, सोयं पञ्चमपक्षवादी स्वपक्षलक्षणम्= द्वितीयपक्षोक्तं प्रथमपक्षदोषमपेक्षमाणः= स्वीकुर्वाणस्तं दोषमनुद्धृत्य स्वीकृत्य च परपक्षे= द्वितीयपक्षे "प्रतिषेधेपि समानो दोषः” इत्यनेन दोषमुपसंहरति / दोषोपसंहारमाह- इत्थमिति, प्रतिषेधः= द्वितीयपक्षः / पर्यवसितमाह- तत्रेति, तत्र= एवं स्थिते, अनेन=
Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500