Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 475
________________ 444 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेप्रतिषेधोप्यनैकान्तिक:- किंचित् प्रतिषेधति किंचिन्नेति. अनैकान्तिकत्वादऽसाधक इति / अथ वा शब्दस्यानित्यत्वपक्षे प्रयत्नानन्तरमुत्पादो नाभिव्यक्तिरिति विशेषहेत्वभावः, नित्यत्वपक्षेपि प्रयत्नानन्तरमभिव्यक्ति!त्पाद इति विशेषहेत्वभावः, सोयमुभयपक्षसमो विशेषहेत्वभाव इत्युभयमप्यनैकान्तिकमिति // 39 // सर्वत्रैवम् // 40 // सर्वेषु साधर्म्यप्रभृतिषु प्रतिषेधहेतुपु यत्र यत्राविशेषो दृश्यते तत्रोभयोः पक्षयोः समः प्रसज्यते इति // 40 // __ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवदोषः / / 41 // योऽयं प्रतिषेधेपि समानो दोषः अनैकान्तिकत्वमापाद्यते सोऽयं प्रतिषेधस्य प्रतिषेधेपि समानः, तत्र 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् ' इति साधनवादिनः स्थापना प्रथमः पक्षः, “प्रयत्नकार्यानेकत्वात् कार्यसमः 37" इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः पक्षः स च प्रतिषेध इत्युच्यते, तस्यास्य प्रतिषेधेपि समानो दोष इति तृतीयः पक्षः (स च) विप्रतिषेध उच्यते, तस्मिन् प्रतिषेधविप्रतिषेधेपि समानो दोषः अनैकान्तिकत्वं चतुर्थः पक्षः॥४१॥ षेधहेतावप्यनैकान्तिकत्वं दोषः समान एवेति न प्रतिषेधसिद्धिरपि संभवतीति सूत्रान्वयः, एवमेव सर्वत्र विज्ञेयम् / व्याचष्टे-प्रतिषेधोपीति / अनैकान्तिकत्वे हेतुमाह- किंचिदिति, किंचित्= किंचिनिष्ठानित्यत्वम् , “प्रयत्नकार्यानेकत्वात्" किं वा 'अस्पर्शत्वात् ' इतिप्रतिषेधहेतुरपि न सर्वस्य क्रियादि. पदार्थस्य नित्यत्वं साधयतीत्यऽनैकान्तिक इत्यर्थः / अनैकान्तिकत्वस्य फलमाह- असाधक इति / वर्णकान्तरमाह- अथ वेति, इति= इत्यत्र विशेषहेतुर्नास्ति / द्वितीयपक्षे दोषमाह-नित्यत्वेति, शब्दस्योत्पत्तिरेव वाऽभिव्यक्तिरेव वेत्यत्र विशेषहेतुर्नास्तीत्यर्थः / एतद्व्याख्यानपक्षे सूत्रघटकदोषशब्देन विशेषहेत्वभावलक्षणो दोषो ग्राह्यः / उपसंहरति- सोयमिति, उभयपक्षसमः= शब्दस्योत्पत्तिपक्षाभिव्यक्तिपक्षयोस्तुल्यः, उभयम्= हेतुद्वयमपि, वादिनोपि प्रतिवादिनोपि च हेतुरनैकान्तिकः- विनिगमनाविरहादित्यर्थः // 39 // ___उक्तं सर्वत्रादिशति- सर्वत्रेति, एवम्= उक्तप्रकारेण सर्वत्र प्रतिषेधे दोषः प्रदर्शनीय इतिसूत्रार्थः / व्याचष्टे- सर्वेष्विति, साधर्म्यप्रभृतिषु= साधर्म्यसमप्रभृतिषु, प्रतिषेधहेतुषु= जातिषु, यत्र यत्र अविशेषः= पूर्वोत्तरपक्षयोः सदोषत्वेन विशेषाभावो दृश्यते तत्र तत्रोभयोः पक्षयोः स दोष: समान एव प्रसज्यते इत्यन्वयः / यथोक्ते क्रियाहेतुगुणयोगेप्यनैकान्तिकत्वमस्त्येव- क्रियाहीनगगनवृत्तित्वादिति पूर्वत्र सर्व स्पष्टम् // 40 // प्रतिषेधेति-यथा प्रतिषेधे दोषस्तथा प्रतिषेधस्य प्रतिषेधेपि दोषः संभवतीति प्रतिषेधप्रतिषेधस्यापि सिद्धिर्न संभवतीति सूत्रान्वयः / व्याचष्टे- योयमिति, “प्रतिषेधेपि समानो दोषः 39" इतिसूत्रेण प्रतिषेधे योयमनैकान्तिकत्वलक्षणो दोषः प्रतिपाद्यते स दोषः प्रतिषेधत्य प्रतिषेधेपि समान एव, तत्र प्रतिषेधस्य प्रतिषेधः “प्रतिषेधेपि समानो दोषः" इत्येव. स चायमपि न प्रतिषेधमात्रं दूषयतीति अत्राप्यनैकान्तिकत्वं दोष इत्यर्थः / षट्पक्षीस्वरूपप्रदर्शनार्थ प्रथमपक्षमाह- अनित्य इति, स्थापनापक्षः प्रथम इत्यन्वयः / द्वितीयपक्षमाह- प्रयत्नेति, प्रतिषेधहेतुना= प्रतिषेधकहेतुना= प्रतिषेधत्वेन रूपेण प्रवृत्त इत्यर्थः। द्वितीयपक्षस्य नामधेयमाह- स च प्रतिषेध इति / तृतीयपक्षमाह- तस्येति, तस्यास्य= उक्तस्य द्वितीयपक्षस्य प्रतिषेधस्य 'प्रतिषेधेपि समानो दोषः= दोषप्रदर्शनम्' इति तृतीयः पक्षः, तृतीयपक्षस्य नामधेयमाह- विप्रतिषेध इति। चतुर्थपक्षमाह- तस्मिन्निति, तस्मिन्= उक्ते प्रतिषेधविप्रतिषेधेपि-तृतीयपक्षेप्यनै

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500