Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 473
________________ 442 प्रसन्नपदापरिभूषितम्- [5 अध्याये. १आह्निकेविरोधाच नित्यत्वमनित्यत्वं चैकस्य धर्मिणो धर्माविति विरुध्येते= न संभवतः, तत्र यदुक्तम्'नित्यमनित्यत्वस्य भावाद् नित्य एव' तदऽवर्तमानार्थमुक्तमिति // 36 // प्रयत्नकार्यानेकत्वात् कार्यसमः // 37 // 'प्रयत्नानन्तरीयकत्वादनित्यः शब्दः' इति, यस्य प्रयत्नानन्तरमात्मलाभः तत्खलु अभूत्वा भवति यथा घटादि कार्यम् . अनित्यमिति च 'भूत्वा न भवति' इत्येतद्विज्ञायते, एवमवस्थिते " प्रयत्नकार्यानेकत्वात् " इतिप्रतिषेध उच्यते= प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम् . व्यवधानाऽपोहाच्चाऽभिव्यक्तिर्व्यवहितानाम् , तत् किं प्रयत्नानन्तरमात्मलाभः शब्दस्य ? आहो अभिव्यक्तिः ? इति विशेषो नास्ति / कार्याविशेषेण प्रत्यवस्थानं कार्यसमः॥३७॥ अस्योत्तरम्कार्यान्यत्वे प्रयत्नाहेतुत्वम्- अनुपलब्धिकारणोपपत्तेः // 38 // इत्यर्थः / अत्र-“अनित्यत्वं हि शब्दस्याऽपरान्तावच्छिन्नसत्तासमवायः न चासौ शब्दाधेयस्तस्य स्वतत्रत्वादेवेत्यर्थः" इति तात्पर्यटीका / किं वाऽधिकरणाधेययोः= शब्दतदनित्यत्वयोविभागः= पार्थक्येन स्थितिर्न भवति- शब्दस्य विनाशित्वात् . व्याघातात्= विनष्टस्य स्वधर्मात्पृथक् स्थित्यसंभवादित्यर्थः / अनित्यत्वेन सहैव शब्द उत्पद्यते विनश्यति चेत्याशयः / दोषान्तरमाह- नित्यानित्यत्वेति, नित्यानित्यत्वविरोधात्= नित्यत्वानित्यत्वयोः परस्परं विरोधात् एकस्य धर्मिणो नित्यत्वमनित्यत्वं चेति धर्मों विरुध्येते तस्मान्नैकस्य संभवत इत्यन्वयः। उपसंहरति- तत्रेति, तत्र एवं स्थिते / उक्तमाहनित्यमिति, अत्र शब्द इतिशेषः, एतत् पूर्व व्याख्यातम् / एतद् यदुक्तं तदऽवर्तमानार्थम्= अर्थहीनम्= अपार्थकमुक्तम्- शब्दाऽनित्यत्वस्योपपादितत्वात् तेन शब्दनित्यत्वस्याऽसंभवादित्यर्थः // 36 // कार्यसमां जातिं लक्षयति- प्रयत्नेति, प्रयत्नकार्याणामनेकत्वात्= अनेकविधत्वात् यथा प्रयत्नेनोत्पत्तिरपि भवति अभिव्यक्तिरपि भवति तत्र प्रयत्नेन शब्दस्योत्पत्तिर्भवति नाभिव्यक्तिरित्यत्र नियामकाभावादभिव्यक्तिपक्ष एव स्वीक्रियते इति शब्दस्य नित्यत्वं प्राप्तमिति प्रयत्नकार्याविशेषेण प्रत्यवस्थानात् कार्यसम इतिसूत्रार्थः / व्याचष्टे- प्रयत्नेति, तदेतत् कार्यसमजात्या प्रत्याख्येयस्य प्रथमक्षस्यानुवादः / कार्यत्वं किं वा कार्यस्वरूपमाह- यस्येति, यस्य घटादिपदार्थस्य, आत्मलाभः= उत्पत्तिः, तत्= घटादि, अभूत्वा= अविद्यमानः, भवति= उत्पद्यते, उदाहरति- यथेति / तदेतादृशं घटादिकार्यमनित्यं भवतीत्याह- अनित्यमिति, भूत्वा= उत्पद्य= उत्पत्त्यनन्तरं न भवति= विनश्यतीत्येतस्मादऽनित्यत्वं सिद्धमित्यर्थः। प्रकृतमाह- एवमिति, एवमवस्थिते= प्रयत्नानन्तरीयकत्वात् शब्दस्याऽनित्यत्वे प्राप्ते इत्यर्थः / कार्यसमामाह- प्रयत्नेति, प्रतिषेधः= शब्दानित्यत्वप्रतिषेधः / प्रतिषेधं व्याचष्टेप्रयत्नानन्तरमिति, आत्मलाभः= उत्पत्तिः / द्वितीयपक्षमाह- व्यवधानेति, प्रयत्नानन्तरम् = प्रयत्नेन व्यवधानाऽपोहात्= जवनिकादेर्व्यवधानस्य निवृत्त्या व्यवहितानां नटादीनामभिव्यक्तिर्भवतीति प्रयत्नकार्यद्वैविध्यं सिद्धम् / उपसंहरति- तदिति, शब्दस्य प्रयत्नेनाभिव्यक्तिरेव भवति नोत्पत्तिरित्यत्र किं वोत्पत्तिरेव भवति नाभिव्यक्तिरित्यन च विशेषहेतुर्नास्तीत्यर्थस्तथा च शब्दानित्यत्वनियामकस्याऽभावात् शब्दस्य नित्यत्वं प्राप्तमितिभावः / निर्वक्ति- कार्येति, उत्पत्त्यभिव्यक्त्योः प्रयत्नकार्यत्वाविशेषेण प्रत्यवस्थानं कार्यसमा जातिरित्यर्थः, समन्वयश्व स्पष्टएव / / 37 // . अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्य कार्यसमस्य / कार्येति- कार्यान्यत्वे= शब्दस्याऽकार्यत्वे= नित्यत्वपक्षे अनुपलब्धिकारणस्यावरणादेरुपपत्तेः प्रयत्नस्य हेतुत्वं न स्यात्- कार्यत्वपक्षे एव प्रयत्नस्य हेतुत्वसंभवादिति सूत्रान्वयः, अत्रानुपलब्धिकारणस्याऽपाकरणात् प्रयत्नस्य तद्धेतुत्वमुपपद्यते इति प्रयत्नस्याहेतुत्वमुक्तं चिन्त्यमेव / किं वा- शब्दस्य नित्यत्वपक्षेऽनुपलब्धिकारणमावरणादिक

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500