Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ अथ सटीके ॥न्यायभाष्ये पञ्चमाध्यायस्य प्रथममाह्निकम् / / साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पान्जातिबहुत्वमिति संक्षेपेणोक्तं तद्विस्तरेण विभजते, ताः खल्विमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतवः / सांधयंवैधैर्योत्कर्षापैकर्वेार्वर्ण्यविकल्पसाध्याप्त्यप्राप्तिप्रसङ्गमंतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वऽर्थोप त्यै विशेषोपत्त्युपलब्ध्यनुपलब्धिनित्या ___ नित्यकार्यसमाः // 1 // साधर्म्यण प्रत्यवस्थानमऽविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः, विशेषं तत्र तत्रोदाहरिष्याम्यः, एवं वैधर्म्यसमप्रभृतयोपि निर्वक्तव्याः॥१॥ अथ पञ्चमाध्यायप्रसन्नपदा वाजिवक्त्रं नमस्कृत्य कृत्याकृत्यविवेकदम् / पञ्चमाध्यायटीकेयं नायभाष्यस्य तन्यते // षोडशपदार्थेषु जातिनिग्रहस्थानयोरऽवान्तरभेदनिरूपणार्थ पञ्चमाध्यायमारभते- साधम्र्येति, साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य= परमतखण्डनस्य विकल्पात् भेदात् , उक्तम् प्रथमाध्यायान्ते उक्तम् / तत्=संक्षेपेणोक्तम् / चतुर्विशतिः= चतुर्विंशतिसंख्याका जातयः एताः प्रतिषेधहेतवः= परमतखण्डनसाधनीभूताः, प्रतिवादिना स्वमतस्थापके हेतौ प्रयुक्ते तस्य जातिभिः= जात्युत्तरैः प्रतिषेधः= निरासः कर्तव्यो भवतीति जातिभेदाः प्रतिपाद्यन्ते- सद्धेतोः सद्धेतुना प्रत्याख्यानासंभवादित्यर्थः, इत्युपोद्धातभाष्यम् / अत्र प्रथमसूत्रोक्तानां प्रयोजनमारभ्य छलान्तानां पदार्थानां विशेषरूपेण परीक्षणमुपेक्षितं प्रन्थकृतेति विभाव्यम् / ____ साधम्येति- साधर्म्यसमा 1 वैधर्म्यसमा 2 उत्कर्षसमा 3 अपकर्षसमा 4 वर्ण्यसमा 5 अवर्ण्यसमा 6 विकल्पसमा 7 साध्यसमा 8 प्राप्तिसमा 9 अप्राप्तिसमा 10 प्रसङ्गसमा 11 प्रतिदृष्टान्तसमा 12 अनुत्पत्तिसमा 13 संशयसमा 14 प्रकरणसमा 15 अहेतुसमा 16 अर्थापत्तिसमा 17 अविशेषसमा 18 उपपत्तिसमा 19 उपलब्धिसमा 20 अनुपलब्धिसमा 21 नित्यसमा 22 अनित्यसमा 23 कार्यसमा 24 च जातिः, इति सूत्रान्वयः / व्याचष्टे- साधम्र्येणेति, साधयेण यत् प्रत्यवस्थानं तत् स्थापनाहेतुतोऽविशिष्यमाणम्= विशिष्टं न भवति किं तु समानमेवेति साधर्म्यसम इति नामधेयम् / स्थापनाहेतुतो वैधम्र्येण समो वैध→समः / एवमपि बोध्यं, विशेषश्चाग्रे तत्तत्स्थलेषु द्रष्टव्य इत्यलम् / निर्वक्तव्याः= निर्वचनेन= अवयवार्थस्य व्युत्पादनेन व्याख्येया इत्यन्वयः। केषुचित् पुस्तकेखूपलभ्यमानः सूत्रगतः 'हेतु' इतिपाठोऽसंगत एव- लक्षणसूत्रेऽने 'अहेतुसमः' इत्येवं नामनिर्देशादिति विभावनीयम् // 1 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8f74911874c1ad8b53d73e6e14fe399530bd831cd756a38b079da50e988c1e88.jpg)
Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500