Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 470
________________ अनित्यसमनिरूपणम् ] न्यायभाष्यम् / 439 ऽनुपलब्धिः= उपलब्ध्यभावः स्वसंवेद्य:- नास्ति मे शब्दस्यावरणायुपलब्धिः इति= 'नोपलभ्यन्ते शब्दस्याग्रहणकारणान्यावरणादीनि' इति, तत्र यदुक्तम्- 'तदनुपलब्धेरनुपलम्भादभावसिद्धिः' इति एतन्नोपपद्यते // 31 // साधर्म्यात्तुल्यधर्मोपपत्तेः सनित्यत्वप्रसङ्गादनित्यसमः // 32 // 'अनित्येन घटेन साधादनित्यः शब्दः' इतिब्रुवतः- 'अस्ति घटेनानित्येन सर्व-. भावानां साधर्म्यम्' इति सर्वस्यानित्यत्वमनिष्टं संपद्यते, सोयमनित्यत्वेन प्रत्यवस्थानादनित्यसम इति // 32 // अस्योत्तरम्-- साधादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधात् // 33 // प्रतिज्ञाद्यवयवयुक्तं वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः तस्य पक्षण प्रतिषेध्ये साधर्म्य प्रतिज्ञादियोगः, तद् यद्यनित्यसाधादनित्यत्वस्यासिद्धिः?- साधादसिद्धेः, प्रतिषेधस्याप्यसिद्धिः- प्रतिषेध्येन साधादिति // 33 // अन्यत् पूर्वत्र व्याख्यातम् / सूत्रार्थमाह- शरीरे इति, शरीरावच्छेदेनेत्यर्थः, भवत इतिशेषः / उदाहरति-. अस्तीति, ज्ञानस्यास्तीत्यनेन सत्त्वं नास्तीत्यनेनासत्त्वं ज्ञायते इत्यर्थः / उक्तमन्यत्रातिदिशति- एवमिति, उदाहार्यमिति शेषः, यथा- 'अस्ति मे प्रत्यक्षज्ञानं नास्ति मे प्रत्यक्षज्ञानम् ' इत्यादि / पर्यवसितमाहसेयमिति, अत्र 'आवरणादीनामनुपलब्धिः ' इतिवक्तव्यमासीत्- अग्रिमपदेनान्वयसंभवात् / आवरणाधनुपलब्धेरपि ज्ञानं जायते ततश्च शब्दावरणादेरभावः सिध्यतीत्यर्थः / उक्तस्यार्थमाह- उपलब्ध्यभाव इति / उदाहरति- नास्तीति / उदाहृतं व्याचष्टे- नोपलभ्यन्ते इति, विद्यमानस्य शब्दस्याग्रहणकारणान्यावरणादीनि नोपलभ्यन्ते तेनाऽश्रूयभाणस्य शब्दस्याऽसत्त्वमवधार्यते तेन शब्दस्यानित्यत्वं सिद्ध. 'मित्यर्थः / उपसंहरति-तत्रेति, तत्र= एवं शब्दावरणादेरभावेऽवधार्यमाणेपि " तदनुपलब्धेरनुपलम्भात्" इत्यादि यदुक्तं तन्नोपपद्यते इत्यन्वयः / स्पष्टमन्यत् / अभावसिद्धिः= शब्दावरणानुपलब्धेरभावस्य सिद्धिस्तया शब्दावरणसिद्धिरित्यर्थस्तदेतदनुपलब्धिसमलक्षणे उक्तं द्रष्टव्यम् // 31 // अनित्यसमां लक्षयति- साधादिति, साधर्म्यात्= कृतकत्वादिलक्षणाद् घटादिसाधर्म्यात् तुल्यधर्मोपपत्तेः= तुल्यधर्मत्वोपपत्तेः- शब्दस्यानित्यत्वापत्तौ सर्वेषामपि पदार्थानां सत्स्वादिना धर्मेण घटादिसाधर्म्यसंभवात् अनित्यत्वं प्रसज्यते न च सर्वानित्यत्वं तवाभीष्टमिति न घटादिसाधादपि शब्दस्यानित्यत्वमुपपद्यते इत्यर्थस्तथा च सर्वानित्यत्वप्रसङ्गादनित्यसमा जातिर्भवतीति सूत्रार्थः / व्याचष्टे- अनित्येनेति, अवतो नैयायिकस्य / प्रकृतमाह- अस्तीति, यथा- 'सर्वमनित्यं सत्त्वाद् घटवत्' इति, साधर्म्यमत्र सत्त्वादिलक्षणं ग्राह्यम् , सर्वस्यानित्यत्वं च नैयायिकस्यानिष्टमेव- आत्मा. दीनां नित्यत्वस्वीकारात्. तथा च न घटादिसाधादपि शब्दस्यानित्यत्वमुपपद्यते इत्यर्थः / निर्वक्तिसोयमिति / स्पष्टमन्यत् / / उद्देशसूत्रानुरोधेन प्रथमं नित्यसमस्य लक्षणं वक्तव्यमासीदित्यनुसंधेयम् // 32 // मग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्यानित्यसमस्य / साधादिति- साधा असिद्धेः= साध्यासिद्धौ ‘नित्यः शब्दः श्रावणत्वात् शब्दत्ववत् / इतिप्रतिषेधस्य- त्वदीयानुमानस्यापि सिद्धिर्न संभवति- तस्यापि प्रतिषेध्यसाधात्= प्रतिषेध्यं यदनित्यत्वानुमानं तत्साधम्र्येण प्रवृत्तत्वात साधर्म्यस्य च त्वयाऽसाधकत्वस्वीकारात्, नित्यत्वानित्यत्वानुमानवाक्ययोः साधये च प्रतिज्ञाद्यवयव. योगो विज्ञेय इतिसूत्रार्थः / अत्रत्या वृत्तिरपि द्रष्टव्या / व्याचष्टे- प्रतिज्ञेति, पक्षनिवर्तकम्= साध्यपक्षप्रतिषेधकम् प्रथमपक्षप्रतिषेधकमत एव प्रतिपक्षलक्षणं प्रतिज्ञाद्यवयवयुक्तं वाक्यं प्रतिषेधः, तस्य प्रतिषेधस्य, प्रतिषेध्येन पक्षेण= 'अनित्यः शब्दः कृतकत्वात् ' इत्यादिना प्रथमपक्षेण, उभयमप्यनुमानवाक्यं

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500