Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 464
________________ अविशेषसमनिरूपणम् ] . न्यायभाष्यम्। एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरऽविशेषसमः॥२३॥ एको धर्मः प्रयत्नानन्तरीयकत्वं शब्दघटयोरुपपद्यते इत्यविशेषे उभयोरनित्यत्वे सर्वस्याऽविशेषः प्रसज्यते / कथम्? सद्भावोपपत्तेः= एको धर्मः सद्भावः सर्वस्योपपद्यते / सद्भावोपपत्तेः सर्वाविशेषप्रसङ्गात् प्रत्यवस्थानमऽविशेषसमः // 23 // अस्योत्तरम् 'कचिद्धर्मानुपपत्तेः कचिचोपपत्तेः प्रतिषेधाभावः // 24 // __ यथा साध्यदृष्टान्तयोरेकधर्मस्य प्रयत्नानन्तरीयकत्वस्योपपत्तेरनित्यत्वं धर्मान्तरमऽविशेषो नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरमस्ति येनाऽविशेषः स्यात् / अथ मतम्- अनित्यत्वमेव धर्मान्तरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र स्यादिति ?, एवं खलु वै कल्प्यमाने- 'अनित्याः सर्वे भावाः सद्भावोपपत्तेः' इतिपक्षः पामोति, तत्र न चेति, विपर्ययमात्रात्= विपर्यये= शब्दनित्यत्वपक्षे इयमापत्तिः एकान्तेन= नियमेन= ऐकान्तिकी नास्ति येनाऽर्थापत्त्या शब्दस्य नित्यत्वमेव सिध्येन्नाऽनित्यत्वमित्यर्थः / उदाहरति-न खल्विति, घनस्यघनीभूतस्य ग्राव्णः= पाषाणस्य पतनमित्युक्ते अर्थादपि द्रवाणामपां पतनाभावो न सिध्यति. तत्कस्य हेतोः? अर्थापत्तेरनैकान्तिकत्वादेवेति वक्तव्यं भवति. एवमेव शब्दानित्यत्वे सिद्धे शब्दनित्यत्वमर्थादपि न सिध्यतीत्यर्थः / घनत्वं च पाषाणधर्म इति प्रसिद्धमेव / / 22 // ___ अविशेषसमां लक्षयति- एकेति, एकधर्मोपपत्तेः= एकधर्मवत्त्वेन= हेतुविशिष्टत्वेन दृष्टान्तदा / न्तिकयोरविशेषे= अनित्यत्वादिलक्षणसाध्यधर्मवत्त्वे प्राप्ते सद्भावोपपत्तेः सत्त्वधर्मवत्त्वेन सर्वेषामनित्यत्वेनाविशेषप्रसङ्गात्= अविशेषसाधने ह्यविशेषसमा जातिरिति सूत्रान्वयः / व्याचष्टे- एक इति, अवि. शेषे= प्रयत्नानन्तरीयकत्वाविशेषेण, उभयोः= शब्दघटयोः अविशेषे= अविशेषेणानित्यत्वे प्राप्ते पदार्थमात्रस्याविशेषः प्रसज्येत्- केनचिद्धर्मेण साधादित्यन्वयः / सर्वस्याविशेषप्रसङ्गे हेतुं जिज्ञासते- कथमिति / हेतुमाह- सद्भावेति / उक्तं व्याचष्टे- एक इति, तथा च यथा घटे सत्त्वधर्मसत्त्वेप्यनित्यत्वं तथा सर्वेषामेवाकाशादीनामपि सत्त्वधर्मवतामनित्यत्वं स्यात् . नो चेत् ? शब्दस्यापि घटसाधादनित्यत्वं न स्यादित्यर्थः / उक्तं च- “यत्सत्तत्क्षणिकम्" इति / निर्वचनमाह-सद्भावोपपत्तेरिति / स्पष्टमन्यत् / / 23 / / ___ अग्रिमसूत्रमवतारयति- अस्येति, अस्य= उक्तस्याविशेषसमस्य / कचिदिति- कस्यचिद् धर्मस्य कचिदेवोपपत्तिर्भवति न सर्वत्रेति कचिदनुपपत्तिरपि भवति यथाऽनित्यत्वधर्मस्य घटादावुपपत्तिर्भवति नाकाशादावपीति उक्तस्य प्रतिषेधस्य= अविशेषसमस्याऽभावः= असंभव इत्युत्तरमिति सूत्रान्वयः / सूत्रमिदम्- 'धर्ममात्रस्य क्वचिदुपपत्तेः कचिच्चानुपपत्तेः प्रतिषेधाभावः' इत्येवं रचनीयमासीत् / व्याचष्टेयथेति, साध्यदृष्टान्तयोः= शब्दघटयोः, साध्यम्= पक्षः / उपपत्तेरिति पञ्चम्यन्तम् / अनित्यत्वमितिअनित्यत्वलक्षणं धर्मान्तरमेवाविशेष इत्यन्वयः, अनित्यत्वलक्षणधर्मान्तरेणाविशेषो यथेत्यर्थः / दाटन्तिकमाह- नैवमिति, यदि सर्वपदार्थेषु सद्भावोपपत्तिनिमित्तं धर्मान्तरं स्यात् तदा तादृशधर्मवत्त्वेन सर्वेषामविशेषः स्यादपि न चैवमस्तीति न सर्वेषामविशेषप्रसङ्गः, सद्भावोपपत्तिर्निमित्तं यस्य तत् सद्भावो. पपत्तिनिमित्तम्= सद्भावोपपत्तिनिमित्तकम् सद्भावोपपत्त्या प्राप्यमाणं च धर्मान्तरम्= अनित्यत्वादीत्यर्थः / सत्त्वस्य सर्वत्र सत्त्वेपि नित्यत्वादिष्वेको धर्मः कोपि सर्वत्र न संभवति येन सर्वेषामविशेषः स्यात्- सद्भावस्य= सत्वस्य नित्यत्वानित्यत्वयोरेकतरव्याप्यत्वाभावादित्यर्थः। ननु सर्वपदार्थेषु सद्भावोपपत्तिनिमित्तकं धर्मान्तरमनित्यत्वमस्ति तथा चानित्यत्वेन सर्वेषामविशेषः प्राप्त इत्याशङ्कते- अथेति, भावानाम्= भावेषु / समाधत्ते- एवमिति / पूर्वपक्षिमतेन संपन्नमाह-अनित्या


Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500