________________
N
A
5
V
A
5
(
ड
ב
S
वियुतानि १ (१०) द्रव्यषट्के कति द्रव्याणि सर्वव्यापीनि कति च देशव्यापीनि १ ( ११ ) कति च सप्रवेशिच्योपेतानि कति चाऽप्रवेशित्वधर्मयुक्तानि १ ( १२ ) इति द्रव्याणां परस्परेण साधर्म्यमवगन्तुमियं गाथा प्रकीर्त्तिता ।। अथैतेषां द्रव्यसत्कपरिणामित्त्वाऽपरिणामित्त्वप्रभृतीनामनुयोगाद्वाराणां विवरणं लिख्यते, पूर्वं तु तावत्परिणामशब्दो विव्रियते ; — परिणमनमवस्थाविशेषादवस्थाऽन्तरगमनं परिणामः तथा द्रव्याऽस्तिकनयमतेन परिणमनं नाम यत्कथञ्चित् सदैवोत्तरपर्यायरूपं MM धर्मान्तरमधिगच्छति, न च पूर्वपर्यायस्य सर्वथाऽवस्थानं नाप्येकान्तेन विनाशः, उक्तश्च प्रज्ञापनाटीकायां- “ परिणामो द्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः " ॥ १ ॥ पर्यायाऽस्तिकनयमतेन पुनः परिणमनं पूर्वसत्पर्यायाऽपेक्षया विनाश उत्तरेण चाऽसता पर्यायेण प्रादुर्भावः तथाचाऽमुमेव नयमधिकृत्याऽन्यत्रोक्तम्;“ सत्पर्यायेण विनाशः प्रादुर्भावोऽसद्भावपर्ययतः । द्रव्याणां परिणामः प्रोक्तःखलु पर्ययनयस्य " ॥ १ ॥ स च जीवपरि- N णामाऽजीवपरिणामाभ्यां द्विविधः, द्रव्येषु षट्सु जीवात्मकं जीवद्रव्यं, अन्यान्यजीव स्वरूपाणि, अजीवाऽऽत्मकेषु द्रव्येषु केवलं पुद्गलद्रव्यमेव परिणामि, इतराण्यशेषाण्यपि अजीव रूपाणि धर्माधर्म्मादीनि परिणामवियुतानि अवस्थाऽन्तरगमनाऽभावात्, १ एतेषां धर्म्माऽधर्म्मादीनां यदपरिणामित्वं प्रत्यपादि तन्निश्चयनयापेक्षया, अन्यथाऽऽपेक्षिकं तु तेषामपि परिणामित्वं, यथा कश्चिन्ना कस्मिँश्चिद्विवक्षितस्थाने स्थितः तदा तत्रस्थानि धर्म्माऽधम्र्म्माऽऽकाशद्रव्याणि तत्पुरुषविशिष्टानि, 'तत्पुरुषविशिष्टत्वं ' स एव परिणामो धर्म्मादीनाम् । यदा स नरस्तत उत्थाय अन्यत्रोपविष्टस्तदा विवक्षितधर्म्माऽधर्म्माऽऽकाशदेशस्तत्पुरुषविशिष्टपरिणामराहित्यात् तत्पुरुपविशिष्टत्त्व पर्यायवियुतः, यत्र च तेन पुरुषेणोपविष्टं स धर्म्मादीनां देशस्तत्पुरुषविशिष्टः स एव परिणामः परिणा
55<550SASLA
U
G