Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
>卐-卐>卐<卐>yz
अधुना मिश्रस्य प्रक्रमः-त्रयाणां पुञ्जानां मध्ये योऽसावर्धविशुद्धः पुञ्जः स मिश्र उच्यते, सम्यग्मिथ्यात्वमित्यर्थः । एतदुदयात् किल पाणी जिनप्रणीतं तत्त्वं न सम्यक् श्रद्दधाति नापि निन्दति । उक्तञ्च बृहच्छतकचूर्णी-"जहा नालिकेरदीववासिस्स अइच्छुहियस्स वि पुरिसस्स इत्थ ओयणाइए अणेगहा विढोइए तस्स आहारस्स उवरिं न रुइ न य निंदा जेण कारणेणं सो ओयणाइओ आहारो न कयाइ दिठो नावि सुओ, एवं संमामिच्छदिठिस्स वि जीवाइपयस्थाणं उवरिं न रुइ न य निंदा" इत्यादि ।
सम्प्रति सास्वादनम् सम्यक्त्वलक्षणरसास्वादनेन सह वर्तत इति सास्वादनम् । यथा हि भुक्तक्षीरानविषयव्यलीकचित्तपुरुषस्तद्वमनकाले क्षीरान्नरसमास्वादयति तथात्रापि गुणस्थाने मिथ्यावाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तस्य पुरुषस्य सम्यक्त्वमुद्धमतस्तद्रसास्वादो भवतीतीदं सास्वादनमुच्यते । यद्वा सासादनं सहासादनेन वर्त्तन इति सासादनम् । अयमर्थ:-औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयमात्रशेषायामुत्कर्षतः पडावलिकाशेषायां कश्चिदासादनं गच्छेत् , सासादनभावं प्रतिपद्येत । सति ह्यस्मिन् परमानन्दुस्तानन्तसुखदो निःश्रेयसतरुवीजभूतो ग्रन्थिसम्भवौपशमिकसम्यक्त्वलाभोऽपगच्छति, आसादनभावानन्तरं नियमान् मिथ्यात्वं प्रतिपद्यते ।
मिथ्यात्वं व्याख्यातपूर्वमिति गता सम्यक्त्वमार्गणा ॥ १२॥
तथा 'सन्नि ' इति, विशिष्टस्मरणादिरूपमनोविज्ञानभाक् संज्ञी, इतरोऽसंज्ञी सर्वोऽप्येकेन्द्रियादिः ॥ १३ ॥ ओजलोम प्रक्षेपाहाराणामन्यतममाहारमाहारयतीत्याहारकः, इतरोऽनाहारको विग्रहगत्यादिगतः। एते सर्वेऽपि संमीलिता द्विषष्टि
卐y卐卐z卐0525-ye
-
<
>

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376