Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
izyg>5993-99
वेदोदयस्तु तेषां पुरुषवेदोदयाऽपेक्षयाऽपि मन्दः, अतः कृत्रिमाणां सर्वविरतिपूर्वकमोक्षावाप्तौ न किञ्चिदविरुद्धम् । एतच्च विशेषतो निशीथादिभ्योऽबसेयमिति । एवं सत्पदप्ररूपणा-द्रव्यप्रमाण-क्षेत्र-स्पर्शना-कालाऽन्तर-भाग-भावा-ऽल्पबहुत्त्वद्वारैस्संक्षेपतो मोक्षतत्त्वं व्याख्यायाधुनोपसंहरन्नाह ' इअ मुक्खतत्तमेअं' इति, एतन्मोक्षतत्त्वमिति, न च पूर्वोक्तद्वारैरेव मोक्षस्य व्याख्येति विज्ञेयं, अन्येऽपि मोक्षव्याख्याप्रकारास्सन्त्येक प्राग्व्यावर्णितोऽनुयोगश्च मोक्षसद्भावप्रतिपादनपरः, परं मोक्षस्य किं लक्षणं ? कथञ्च तस्याऽवाप्तिरित्येतनिखिलमपि उपरिष्टाद्विज्ञेयमतः संक्षेपतो विभाव्यते किञ्चिद्-' मोक्खो कम्माऽभावो'' कृत्स्नकर्मक्षयान्मोक्षः' इत्यादिवचनात् कर्मणां निखिलानां योऽभावस्स मोक्षः । न च प्रतिसमयं कर्मण उदयाविनाभाविवादुदयसहचारिसकामाकामनिर्जरापूर्वककर्मक्षयमाश्रित्य सर्वेष्वपि सत्वेषु मोक्षोऽस्त्येवेति वाच्यम् , यत उक्तप्रकारेण तत्तत्कर्मक्षयसद्भावेऽपि अन्येषां प्रभूततरकर्मस्कन्धानां बध्यमानत्त्वान्न मोक्षो सकलेष्वपि जीवेषु । अतो निखिलानां कर्मणां प्रध्वंसाऽभावः स मोक्षः । नन्वनेकेषु शास्त्रेषु जीवकर्मणोरनादिसंयोगः प्रतिपादितः, कथमनादिसंयोगवतोस्तयोवियोग आत्यन्तिकः? सत्यं, यथा काञ्चनोपलयोरनादिसंयोगे सत्यपि खानिबहिःकर्षण-सुवर्णकारादिप्रयुक्तज्वलितज्वलनादिभिः प्रयोगैः सुवर्णादुपलस्य वियोगो आबालजनप्रसिद्धस्तथा भव्यजीवानामपि अव्यवहारराशेर्व्यवहारराशावागतानां सुवर्णकारोपमशुद्धगुर्वादिसंयोगावाप्तसम्यग्दर्शनज्ञानचारित्रज्वलितज्वलनानां कर्मण आत्यन्तिकक्षये न काचिद्विप्रतिपत्तिरिति ।
एवंभूतश्च मोक्षः सम्यग्दर्शनज्ञानचारित्रसाध्यः। तत्पत्तिपत्तिक्रमस्याऽयं संक्षेपः-प्राग्व्याख्यातप्रक्रमेण क्षायोपशमिक१ सैद्धान्तिककार्मप्रन्थिकमतेनानादिमिथ्यादृष्रौपशमिकक्षायोपशमिकसम्यक्त्वान्यतरसम्यक्त्वयोः प्रथमलाभापेक्षया सत्यपि
10543209

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376