Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala
View full book text
________________
25
S>
R
केचित्तु सम्यक्त्वगुणावाप्यनन्तरं जातोपशमसंवेगादिगुणाढ्याः शीघ्रमेव सर्वविरतिप्रतिपत्तिपुरःस्सरं क्षपकश्रेणिसमारूढाः केवललक्ष्मीमनुभवन्ति, केचन संख्येयमसंख्येयं वा कालं संसारेऽतिगमयन्ति, केचिच्च अपार्द्धपुद्गलपराव ख्याऽनन्तकालमतिकम्यावश्यं मोक्षमभ्युपेयन्ति । अत्राऽयमाशयः-सम्यक्त्वलाभानन्तरं मिथ्यात्वोदयहेतुके प्रतिपाते सत्यपि नाऽनादिमिथ्यादृष्टिवदुत्कृष्टं स्थितिबन्धं सप्ततिकोटीकोटिसागरोपमलक्षणं विधत्ते मिश्यादृष्टिः, सकृत् सम्यक्त्वलाभात् तथाविधतीव्रकषायोदयाऽभावात् । अनेनैव हेतुना चतुर्विधभङ्गापनमिथ्यात्वस्य सादिसान्तंसंज्ञकश्चतुर्थो भङ्ग उत्कृष्टतोऽपापुद्गलपरावर्त्तप्रमाणः प्रदर्शितः, सकृत् सम्यक्त्वप्रतिपत्त्यनन्तरमुत्कृष्टतोऽप्येतावता कालेन पुनः सम्यक्त्वाऽवाप्तेः सकृदाविद्धमणिवदिति ॥ ५३ ।।
अनन्तरगाथायामुद्दिष्टं पुद्गलपरावर्तपदं लक्ष्यीकृत्य तत्स्वरूपं प्रतिपिपादयिषुराहउस्सप्पिणी अणंता, पुग्गलपरिअडओ मुणेयव्यो । तेणंताऽतीअद्धा, अणागयद्धा अणंतगुणा ॥५४॥ ____टीका-' उस्सप्पिणी' इति, उत्सर्पिण्युपलक्षणादवसर्पिणी च प्राक् ' समयावली ' ति गाथायां उक्तस्वरूपा, ताभिरुत्सपिण्यवसर्पिणीभिरनन्तसङ्ख्याकाभिरेकः पुद्गलपरावर्तो भवतीति ज्ञातव्यम् । पुद्गलानामौदारिकादिवर्गणागतानां निखिलानामपि परावर्त औदारिकादिशरीरतया गृहीत्वा मोचनलक्षणं परिवर्तनं यस्मिन् काले स एतावान् कालः पुद्गलपरावतीऽऽख्यः । यद्यपि क्षेत्रादिविषयस्य पुद्गलपरावर्तरूपोऽन्वर्थो न घटां प्राश्चति तथाप्यन्यथा व्युत्पादितस्यापि शब्दस्यान्यथा गोशब्दवत् प्रवृतिदर्शनात् समयप्रसिद्धम) विषयीकरोतीति न कश्चिद्दोष इति । स च पुद्गलपरावों द्रव्यक्षेत्रकालभावभेदैश्चतुर्द्धा । एकैकः पुनः सूक्ष्मबादरभेदाभ्यां द्विविधः, तथाहिः-बादरद्रव्यपुद्गलपरावतः१, सूक्ष्मद्रव्यपुद्गलपरावतः२, बादरक्षेत्रपुद्गलपरावर्त्तः३, सूक्ष्म
509卐gz卐094s
-5
-
>
૨૮
y

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376