Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 363
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां॥१६५॥ प्रकीर्णा सिद्धाभेदाः॥ 卐卐>55-55-554 ऽन्यलिङ्गसिद्धाः। उक्तञ्च-' सेयंवरो य बुद्धो य आसंवरो य अहव अन्नो वा। समभावभाविअप्पा लहइ मुरकं न संदेहो ॥१॥ इमौ गृहिलिङ्गान्यलिङ्गसिद्धौ केवलज्ञानप्राप्त्यनन्तरं यद्यल्पायुष्कौ स्यातां तदैव तौ गृहिलिङ्गाऽन्यलिङ्गसिद्धाववगन्तव्यौ, अन्यथा दीर्घायुषि सति केवलज्ञानलब्धिसमनन्तरमेव देवताप्रदत्तमुनिवेषाङ्गीकारात् स्वलिङ्गसिद्धत्त्वं तयोः । रजोहरणप्रमुखस्वलिङ्गसद्भावे ये शिवं सम्प्रातास्ते स्वलिङ्गसिद्धाः। ये स्त्रीलिङ्गे वर्तमानाः सिध्यन्ति ते स्त्रीलिङ्गसिद्धाः। ये पुरुषलिङ्गे वर्तमानाः सिद्ध्यन्ति ते पुरुषलिङ्गसिद्धाः। ये च न पुंसकलिङ्गेवर्तमानाः कर्माष्टकक्षयं कुर्वन्ति ते नपुंसकलिङ्गसिद्धाः। अत्र लिङ्गेन सर्वत्राऽऽकृतिरवगन्तव्या, वेदोदयात्मकलिङ्गस्य त्वनिवृत्तिबादरे व्यवच्छिन्नत्वात् । सन्ध्याऽभ्ररागप्रभृत्येकं निमित्तं दृष्ट्वा जातसंवेगास्तत्कालमेवोपलब्धकेवलज्ञानदर्शना ये सिद्धिं यान्ति ते प्रत्येकबुद्धसिद्धाः, ये च गुरूपदेशादि तथाविधनिमित्तमृते जन्मान्तराराधितबोधिप्रभावादिहजन्मन्युपजातवैराग्या अवाप्तकेवलज्ञानादिलब्धयश्च शिवमुपयान्ति, अथवा तीर्थकरास्ते स्वयम्बुद्धसिद्धाः, तथाविधगुर्वायुपदेशेन प्रतिबुद्धास्सन्तः केवलज्ञानाद्युपलब्धिपूर्वकं मोक्षं ये व्रजन्ति ते बुद्धबोधितसिद्धाः । प्रत्येकबुद्धस्वयंवुद्धयो?ध्युपधिश्रुतनेपथ्यकृतो विशेषस्तद्यथा-स्वयम्बुद्धा बाह्यनिमित्तमन्तरेणैव बोधि प्राप्नुवन्ति, प्रत्येकबुद्धास्तु बाह्यं किञ्चित्सन्ध्याभ्ररागप्रमुखं निमित्तमाश्रित्य बोधिं लभन्ते, एकाकिनैव च विहरन्ति । स्वयम्बुद्धानां पात्रप्रमुखो द्वादशविध उपधिः, प्रत्येकबुद्धानां तु जघन्यतो द्विविध उत्कृष्टतो विना प्रावरणं नवविध उपधिः। स्वयम्बुद्धानां यदि श्रुतज्ञानं स्यात्तदा पूर्वाधीतं स्यादन्यथा न स्यात् । यदि पूर्वाधीतं श्रुतं स्यात्तदा मुनिनेपथ्यं देवस्तं समर्पयति, अथवा गुरोः पाबें गत्वा तन्नेपथ्यमङ्गीकुरुते, स्वैरविहरणेच्छायां स्वैरं विहरति अथवा गच्छान्तर्गतो गच्छेनैव सह विहरति । पूर्वाधीतश्रुताऽभावे तु गुरोः पार्श्वे गत्त्वैव 卐9z卐09-卐< ॥१६५॥

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376