Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 366
________________ z卐卐>卐卐- गिहिलिङ्गसिद्धभरहो, वल्कलचीरीय अन्नलिंगम्मि । साहू सलिङ्गसिद्धा, थीसिद्धा चंदणा पमुहा ॥ ५७॥ टीका-'गिहिलिंगसिद्धभरहो' इति, गृहिलिझसिद्धो भरतचक्री, यतः श्रूयते यदादर्शभुवनेऽनित्यभावनां भावयतस्तस्य केवलज्ञानमुत्पेदे । यद्यप्यत्र सिद्धत्वमाश्रित्त्यैव जिनसिद्धादिभेदा विवक्षितास्तथाप्यत्र भरतचक्रवर्तिदृष्टान्ते केवलोत्पादविवक्षया गृहिलिङ्गत्वमुक्तं तत्र केवलिनोऽवश्यं सिद्धिर्भवितेति तस्य गृहिलिङ्गसिद्धत्व प्रतिपन्नमन्यथा केवलप्राप्त्यनन्तरं देवताप्रदत्तसाधुवेशोपलब्धिपूर्वकस्तस्य विहारो भव्यप्रतिबोधनं च चरितानुयोगे प्रतिपादितमिति । वल्कलचिरी अन्यलिङ्गे सिद्धः, स च प्रसन्नचन्द्रराजर्षेर्धाता तापसस्वपितुः पार्श्वे परिवसन् । वृक्षत्त्वगादिप्रावरणेन गुणनिष्पन्ननामा एकदा स्वपितुस्तुम्बीं दृष्ट्वा जातजातिस्मृतिर्जन्मान्तराराधितसंयमप्रभावादवाप्तकेवलस्तल्लिङ्गे वर्तमान एव मोक्षं ययाविति तस्याऽन्यलिङ्गसिद्धत्त्वमिति । तथाऽऽद्यगणधरणेन्द्रभृतिनाऽक्षीणमहानसलब्ध्या परमानेन भोजितानां सार्द्धसहस्रसङ्ख्याकानां तापसानामप्यन्यलिङ्गसिद्धचमन्यलिङ्गे एव तेषां केवलोत्पत्तेः । तथा 'साहू सलिङ्गसिद्धा' साधवश्च गृहीतरजोहरणमुखवस्त्रिकादिसाधुलिङ्गा मुनयः केवलज्ञानावाप्तिपूर्वकं शिवं यान्ति तदा ते स्वलिङ्गसिद्धाः । स्त्रीलिङ्गसिद्धाश्चन्दनाप्रमुखाः, चन्दना च श्रीमहावीरप्रभोः प्रथमा मरुदेवा च यथा तीर्थस्थापनायाः प्राक् शिवं गता तथा तीर्थविच्छेदाऽनन्तरं केचिन्मुक्तिमियन्ति न वेति चेदुच्यते-तीर्थविच्छेदाऽनन्तरमपि जातजातिस्मृतयः केचन जीवा मोक्षं ब्रजन्ति, तेषाश्चातीर्थसिद्धत्वं प्रज्ञापनायां प्रतिपादितमिति । म097g> 卐Cg 9-9> !

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376