Book Title: Navtattva Prakaranam Sumangalatikaya Samalankrutam
Author(s): Dharmvijay
Publisher: Muktikamal Jain Mohanmala

View full book text
Previous | Next

Page 365
________________ श्रीनवतत्व सुमङ्गला टीकायां ॥१६६॥ N फ्र A V 10 STSAST> < । अथ प्रागुक्तानेव सिद्धभेदान् दृष्टान्तैर्भावयति — जिणसिद्धा अरिहंता, अजिणसिद्धा य पुंडरियपमुहा । गणहारि तित्त्थसिद्धा, अतित्त्थसिद्धा य मरुदेवी । ५६ टीका - "जिणसिद्धा" इति, अनन्तरगाथायां व्याख्यातस्वरूपा जिनसिद्धास्तीर्थकरसिद्धा अर्हन्त एव भवन्ति तेषामेव जिननामविपाकोदयसम्मवात् । पुण्डरीकप्रमुखा अजिनसिद्धा अतीर्थकरसिद्धास्सन्ति, जिननामरसोदयाभावात् । गणधारिणस्तीर्थसिद्धाः, तीर्थस्थापनानन्तरं मोक्षगमनात्तेषाम् । अतीर्थसिद्धा च मरुदेवा, यतो भगवता श्री ऋषभदेवेन विहितायास्तीर्थस्थापनाया प्रागेव तस्या मोक्षं गमनात् । तद्व्यतिकरश्चायम् - यदा च भगवता केवलज्ञानमुपलब्धं तदेन्द्रादयोऽसंख्यदेवाः केवलमहिमानं कर्त्तुमुपागताः समवसरणप्रमुखादिव्यद्धिं कुर्वाणा समवसरणे विराजिते भगवति तत्रस्था एव प्रभुदेशनां शृण्वन्ति । भरतोऽपि प्रभोः केवलज्ञानोपलब्धि श्रुत्वा निरन्तरमुपालम्मं प्रददतीं पुत्रवियोगेन रुदन्तीमत एव पटलावृतचक्षुष्कां मरुदेवां हस्तिस्कन्धे संस्थाप्य प्रभुं वन्दनार्थं चलितः, दूरत एव दिव्यध्वनिं श्रुत्वा प्रमोदभरमेदुरा उल्लसितहृदया मरुदेवा मनस्येवं ध्यायति-यत्पुत्रवियोगेन रुदन्त्या मम चक्षुषी अपि हीनतेजसी जाते, प्रत्यहं पुत्रचिन्ताभराक्रान्ता सती यदाऽर्तध्यानोपगता तदा पुत्रस्तु सुरासुरनिकरनिषेव्यमाण इदृशीमृद्धिमुपभुञ्जानोऽपि सुखादिसन्देशवार्त्तामपि न प्रेषयति । धिगिममेक पाक्षिकं स्नेहमिति विरक्ता शुभध्यानपरा घातिकर्मक्षयावाप्त केवलज्ञानदर्शना तत्रैव हस्तिस्कंन्धे सिद्धिं जगाम । तीर्थ स्थापनायाः प्रागेव तस्या मोक्षगमनात् साऽतीर्थसिद्धेति ॥ ५६ ॥ १ ननु तीर्थ स्थापनायाः प्राक् तीर्थव्यवच्छेदाऽनन्तरश्च ये मोक्षमुपयान्ति तेषां सर्वेषामप्यतीर्थसिद्धत्वेऽतीर्थसिद्धत्वं द्विविधं, S U M N 5 G ड L प्रकीर्णा ० सोदाह रणाः सिद्ध भेदाः ॥ ॥१६६॥

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376